कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

रान्तवर्गः · रद्वितीयम् (1/2)

॥ इति रैकम्‌ ॥

॥ अथ रद्वितीयम्‌ ॥

अस्मिन्नर्थेऽव्ययं चात्र त्वङ्घ्रिः पादाशयोरपि ।अत्रिः स्त्री काष्ठकुद्दाले स्यादत्रिर्मुनिभिद्यपि ॥
27.2.1 · p. 250
अनुष्टुप्
अत्रिः शत्रौ पुमान् मर्मण्यरुरित्यभिधीयते ।अरं शीघ्रे च चक्राङ्गे शीघ्रगे पुनरन्यवत् ॥
27.2.2 · p. 250
अनुष्टुप्
अग्रं पुरस्तादुपरि परिमाणे पलस्य च ।आलम्बने समूहे च प्रान्तेऽपि स्यान्नपुंसकम् ॥
27.2.3 · p. 250
अनुष्टुप्
प्रधाने चाधिके चापि प्रथमे वाच्यलिङ्गवत् ।अस्रमश्रुणि रक्ते स्यादस्रः स्यात्कचकोणयोः ॥
27.2.4 · p. 250
अनुष्टुप्
अस्त्रं तु करवाले स्याच्चापे प्रहरणेऽपि च ।अभ्रं स्यादभ्रके स्वर्णे मेघे च गगनेऽपि च ॥
27.2.5 · p. 251
अनुष्टुप्
अद्रिः शैले द्रुमे चार्केऽप्यारो भौमे शनैश्चरे ।आरा चर्मप्रभेदिन्यामारं चक्र उदीरितम् ॥
27.2.6 · p. 251
अनुष्टुप्
आर्द्रा नक्षत्रभेदे स्यादार्द्रं क्लिन्न उदीरितम् ।आरुस्तरुविशेषे स्यात्तथा कर्कटदंष्ट्रिणोः ॥
27.2.7 · p. 251
अनुष्टुप्
आन्ध्रो नीवृज्जातिभेदेऽप्यान्त्रं त्ववयवान्तरे ।अभ्रसम्बन्धिनि त्वाभ्रं चाम्रः स्याच्चूतपादपे ॥
27.2.8 · p. 251
अनुष्टुप्
इन्द्रः शक्रादित्यभेदे योगभेदान्तरात्मनोः ।इन्द्रा फणिज्जके स्त्री स्यादिरा भूवाक्सुराप्सु च ॥
27.2.9 · p. 251
अनुष्टुप्
ईरी तु करवालिन्यां उग्रो रुद्रे त्रिषूत्कटे ।क्षत्राच्छूद्रासुतेऽप्युग्रः स्याद्वचाक्षुद्रयोः स्त्रियाम् ॥
27.2.10 · p. 251
अनुष्टुप्
उस्रो वृषे च किरणेऽप्युस्राऽर्जुन्युपचित्रयोः ।उरु पीने मतं क्लीबमूरुस्त्ववयवान्तरे ॥
27.2.11 · p. 251
अनुष्टुप्
उष्ट्रः क्रमेलके प्रोक्तश्चैन्द्रिः काकेन्द्रपुत्रयोः ।ऐन्द्री स्यादिन्द्रसम्बन्धिन्यैन्द्री प्राच्यां दिशि स्मृता ॥
27.2.12 · p. 251
अनुष्टुप्
ओड्राः पुम्भूम्नि देशे स्यादोड्रस्तु तरुभिद्यपि ।करो वर्षोपले पाणौ रश्मौ प्रत्यायशुण्डयोः ॥
27.2.13 · p. 251
अनुष्टुप्
कामं तु वाच्यवत्काम्ये करी तु स्यान्मतङ्गजे ।कद्रुर्मातरि नागानां कद्रुः कनकपिङ्गले ॥
27.2.14 · p. 252
अनुष्टुप्
कर्त्री स्त्री कर्तृकायां स्यात्कारा दूत्यां प्रसेवके ।कारो वधे निश्चयेऽत्र बलौ यत्ने यतावपि ॥
27.2.15 · p. 252
अनुष्टुप्
कारस्तु स्वर्णकारे स्यात्तुषाराद्रावपि स्मृतः ।कारा तु बन्धनागारे बन्धनेऽपि च योषिति ॥
27.2.16 · p. 252
अनुष्टुप्
कारिः स्त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनि ।विश्वकर्मणि ना कारुस्त्रिषु कारकशिल्पिनोः ॥
27.2.17 · p. 252
अनुष्टुप्
किरिः किटौ शुके कीरः कुरुर्भक्ते नृपान्तरे ।देशान्तरेषु पुम्भूम्नि क्रूरः स्यात्कठिनेऽपि च ॥
27.2.18 · p. 252
अनुष्टुप्
नृशंसघोरयोश्चापि कृच्छ्रं कष्टेऽप्यघापहे ।क्रोष्ट्री शृगालिकाकृष्णविदारीलाङ्गलीषु च ॥
27.2.19 · p. 252
अनुष्टुप्
खरस्तीक्ष्णे च घर्मे च देवताडेऽथ गर्दभे ।खरुर्दर्पे हये शम्भौ खारी मानप्रभेदके ॥
27.2.20 · p. 252
अनुष्टुप्
खुरः शफे कोलदले गरस्तूपविषे विषे ।गरी खरायां करणे गात्रमङ्गे कलेवरे ॥
27.2.21 · p. 252
अनुष्टुप्
स्तम्बेरमाग्रजङ्घादिविभागेऽपि समीरितम् ।गारा तूपलभेदे स्याद्गिरा वाग्देवतागिरोः ॥
27.2.22 · p. 252
अनुष्टुप्
गिरिगीर्णौ गिरियके क्रीडागण्डकशैलयोः ।नेत्रामयविशेषे च पूज्ये तु गिरिरन्यवत् ॥
27.2.23 · p. 252
अनुष्टुप्
गुरुर्निषेकादिकरे पित्रादौ गीष्पतावपि ।वाच्यलिङ्गं त्वलघुनि तथा महति दुर्जरे ॥
27.2.24 · p. 253
अनुष्टुप्
गुन्द्रस्तेजनकद्रव्ये मुस्तायामपि योषिति ।गृध्रस्तु पक्षिभेदे स्याल्लुब्धकेऽपि च वाच्यवत् ॥
27.2.25 · p. 253
अनुष्टुप्
गोत्रं नाम्नि कुले गोत्रः शैले गोत्रा गवि क्षितौ ।सम्भावनीयबोधे च काननच्छत्रवर्त्मसु ॥
27.2.26 · p. 253
अनुष्टुप्
गौरश्चन्द्रेऽरुणे पीते श्वेते शुद्धे च सर्षपे ।पुंसि क्लीबे च कथितो गौरः पङ्कजकेसरे ॥
27.2.27 · p. 253
अनुष्टुप्
गौरी त्वसञ्जातरजःकन्याशङ्करयोषितोः ।रोचनीरजनीपिङ्गाप्रियङ्गुवसुधासु च ॥
27.2.28 · p. 253
अनुष्टुप्
आपगाया विशेषेऽपि तथा वरुणयोषिति ।घस्रस्तु दिवसे हिंस्रे घोरो भीमे भयानके ॥
27.2.29 · p. 253
अनुष्टुप्
चरोऽक्षद्यूतभेदे स्याद्भौमे चारे त्रसे चले ।चन्द्रः कर्पूरकाम्पिल्लसुधांशुस्वर्णवारिषु ॥
27.2.30 · p. 253
अनुष्टुप्
चक्रः कोके पुमान्क्लीबं राष्ट्रे च वज्रसैन्ययोः ।दम्भान्तरे कुलालोपकरणे वारिजास्त्रयोः ॥
27.2.31 · p. 253
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
चक्री तैलिकभित्कोककुलालाजाहिसूचके ।चरुर्हव्येऽन्नभाण्डे च चर्मी भूर्जतरौ पुमान् ॥
27.2.32 · p. 253
अनुष्टुप्
चर्मी फलकहस्ते च तथा पर्णायतेऽपि च ।चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः ॥
27.2.33 · p. 253
अनुष्टुप्
चारुस्तु गीष्पतौ पुंसि शोभने त्वभिधेयवत् ।चीरं तु गोस्तने वस्त्रे चूडायां सीसकेऽपि च ॥
27.2.34 · p. 254
अनुष्टुप्
चीरी कच्छाटिकाझिल्यो रेखालेखनभेदयोः ।चित्रोऽग्निपादपे चित्रमद्भुते शबलेऽपि च ॥
27.2.35 · p. 254
अनुष्टुप्
चित्राऽऽखुपर्णीगोडुम्बासुभद्रादन्तिकासु च ।मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् ॥
27.2.36 · p. 254
अनुष्टुप्
तिलकालेख्ययोः क्लीबं चुक्रं वृक्षाम्लके मतम् ।चौरः पाटच्चरेऽपि स्याच्चौरपुष्पौषधावपि ॥
27.2.37 · p. 254
अनुष्टुप्
छत्रा मधुरिकायां स्त्री छत्रमातपवारणे ।छत्रा मिसावतिच्छत्रे कुस्तुम्बुरुशिलीन्ध्रयोः ॥
27.2.38 · p. 254
अनुष्टुप्
छत्री महीपतौ पुंसि छिद्रं दूषणरन्ध्रयोः ।छात्रः शिष्ये निगदितो राक्षस्यापलिते जरा ॥
27.2.39 · p. 254
अनुष्टुप्
ज्चरस्तु परितापे स्याद्रुग्भेदेऽपि मतो ज्वरः ।जारी स्त्रियामौषधे स्याज्जारस्तूपपतौ मतः ॥
27.2.40 · p. 254
अनुष्टुप्
जीरस्तु जरणे खड्गे झरस्तु जलनिर्गमे ।झारी भृङ्गारके प्रोक्ता टारो लङ्गतुरङ्गयोः ॥
27.2.41 · p. 254
अनुष्टुप्
तरस्तु तरणे पुंसि कृशानौ पेटके तरी ।तन्त्रं प्रधाने सिद्धान्ते कुटुम्बपरिपोषणे ॥
27.2.42 · p. 254
अनुष्टुप्
औषधे तन्तुवाये च शास्त्रभेदे परिच्छदे ।श्रुतिशाखान्तरे हेतावुभयार्थप्रयोजके ॥
27.2.43 · p. 254
अनुष्टुप्
इतिकर्तव्यतायां च तन्त्री वीणागुणे स्त्रियाम् ।अमृतादेहसिरयोस्तन्त्री स्याच्छास्त्रवेदिनि ॥
27.2.44 · p. 255
अनुष्टुप्
तन्द्री स्त्रियां प्रमीलायां तस्मिन्नर्थे तु तत्र च ।तारो मुक्ताविशुद्धौ स्यात्तारके शुद्धमौक्तिके ॥
27.2.45 · p. 255
अनुष्टुप्
ना नक्षत्रेऽक्षिमध्ये च तारं रूप्ये नपुंसकम् ।स्त्री बुद्धदेवताभेदे वालिगीष्पतिभार्ययोः ॥
27.2.46 · p. 255
अनुष्टुप्
तारः स्यादुच्चशब्देऽपि ताम्रं शुल्बेऽरुणेऽपि च ।तीव्रा तु कटुरोहिण्यां राजिकागण्डदूर्वयोः ॥
27.2.47 · p. 255
अनुष्टुप्
त्रिष्वत्युष्णे नितान्तेऽपि कटौ तीरं तु रोधसि ।पुंसि त्रपुणि तोत्रं तु प्राजने वेणुकेऽपि च ॥
27.2.48 · p. 255
अनुष्टुप्
दस्रः खरेऽश्विनीसूनौ दरो गर्ते च साध्वसे ।दरी तु कन्दरायां स्त्री मनागर्थे दराऽव्ययम् ॥
27.2.49 · p. 255
अनुष्टुप्
दंष्ट्री किटावहौ व्याघ्रे दभ्रं क्लीबे कृशे मतम् ।दारा भूम्नि च भार्यायां केचिदाहुः स्त्रियामपि ॥
27.2.50 · p. 255
अनुष्टुप्
अथ पुंस्यपि दाराः स्याद्दात्रं लवनसाधने ।दारुः स्यात्पित्तले काष्ठे देवदारौ नपुंसकम् ॥
27.2.51 · p. 255
अनुष्टुप्
द्वारं निर्गमनेऽपि स्यादभ्युपाये धरो गिरौ ।कार्पासतूलके कूर्मराजे वस्वन्तरेऽपि च ॥
27.2.52 · p. 255
अनुष्टुप्
दूरं त्वसन्निधौ दोरः सूत्रे चापि प्रकीर्तितः ।धरा पृथिव्यां गदिता स्त्री गर्भाशयमेदसोः ॥
27.2.53 · p. 255
अनुष्टुप्
धात्री धरामलक्योः स्याद्धात्री मात्रुपमातृषु ।धारा सैन्याग्रदेशे च तुरङ्गगतिपञ्चके ॥
27.2.54 · p. 256
अनुष्टुप्
घटादिच्छिद्रसन्तत्योः प्रपाते स्याद्द्रवस्य च ।खड्गादेर्निशिते देशे धारा ग्रावान्तरेऽपि च ॥
27.2.55 · p. 256
अनुष्टुप्
धीरः स्वैरे बुधे धैर्यान्विते क्लीबं तु कुङ्कुमे ।धोत्रं नृपरिधानीये नरोऽजे मनुजेऽर्जुने ॥
27.2.56 · p. 256
अनुष्टुप्
क्लीबं तु रामकर्पूरे नक्रं नासाग्रदारुणोः ।नक्रः कुम्भीरके पुंसि नारस्तर्णकनीरयोः ॥
27.2.57 · p. 256
अनुष्टुप्
नध्री तु स्याद्वरत्रायां नारं स्यान्नरसंहतौ ।निद्रा स्वापे च संवेशे नीरं तु सलिले मतम् ॥
27.2.58 · p. 256
अनुष्टुप्
नीध्रं नेमौ वलीके च रेवतीभे च कानने ।नेत्रं मथिगुणे वस्त्रभेदे मूले तरोरपि ॥
27.2.59 · p. 256
अनुष्टुप्
रथे चक्षुषि नद्यां च नेत्री नाड्यां च योषिति ।परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले ॥
27.2.60 · p. 256
अनुष्टुप्
पत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षिणोः ।पारं परतटे यात्रामात्रे स्याद्राजनं त्रिणि ? ॥
27.2.61 · p. 256
अनुष्टुप्
प्रान्तेऽस्त्रियां नदीभेदे पारी पूरेऽन्वगद्यते ।दन्तिनः पादबन्धे च कर्कर्यां च स्रुवादिके ॥
27.2.62 · p. 256
अनुष्टुप्
तीरद्वयान्तरे योग्ये पुरुः प्राज्येऽभिधेयवत् ।भूपभेदे परागे च देवलोके च पुंस्ययम् ॥
27.2.63 · p. 257
अनुष्टुप्
पुरं गृहोपरिगृहे शरीरे च नपुंसकम् ।तथा पाटलिपुत्रेऽपि गेहमात्रे पुरं विदुः ॥
27.2.64 · p. 257
अनुष्टुप्
पुष्पादीनां दलावृत्तौ गुग्गुलौ ना न ना पुरि ।पुण्ड्रोऽतिमुक्तके चित्रे कृमौ दैत्येक्षुभेदयोः ॥
27.2.65 · p. 257
अनुष्टुप्
पुंभूम्नि देशभेदे स्यात्पुण्डरीके नपुंसकम् ।पूरो जलसमूहेऽपि व्रणसंशुद्धिखाद्ययोः ॥
27.2.66 · p. 257
अनुष्टुप्
पोत्रं वज्रे मुखाग्रे च सूकरस्य हलस्य च ।पौरं त्रिषु पुरोद्भूते कत्तृणे तु नपुंसकम् ॥
27.2.67 · p. 257
अनुष्टुप्
बभ्रुस्तु गरुडे वह्नौ नकुले च महेश्वरे ।पिङ्गले वाच्यलिङ्गः स्याज्जम्बूके फेरुरुच्यते ॥
27.2.68 · p. 257
अनुष्टुप्
भस्त्रा तु चर्मपेश्यां स्याद्भरोऽतिशयभारयोः ।भरुः स्वर्णे हरे पुंसि भद्रस्तु वृषभे शिवे ॥
27.2.69 · p. 257
अनुष्टुप्
खञ्जरीटे कदम्बे च भद्र इत्यभिधीयते ।करिभेदे तथा क्लीबं मतं मङ्गलमुस्तयोः ॥
27.2.70 · p. 257
अनुष्टुप्
काञ्चने च स्त्रियां रास्नाकृष्णाव्योमनदीषु च ।तिथिभेदे प्रसारिण्यां कट्फलाऽनन्तयोरपि ॥
27.2.71 · p. 257
अनुष्टुप्
त्रिषु श्रेष्ठे तथा साधौ न पुंसि करणान्तरे ।भारः स्याद्वीवधे विष्णौ पलानां द्विसहस्रके ॥
27.2.72 · p. 257
अनुष्टुप्
भाद्रस्तु मासभेदे स्याद्भाद्रं तत्प्रभवे मतम् ।भीरुरार्ते च योषायां वरयोषिति च स्त्रियाम् ॥
27.2.73 · p. 258
अनुष्टुप्
भूरिर्ना वासुदेवेऽपि हरेऽपि परमेष्ठिनि ।क्लीबं सुवर्णे प्राज्ये तु वाच्यलिङ्गमुदीरितम् ॥
27.2.74 · p. 258
अनुष्टुप्
भेरी वाद्यप्रभेदे स्याद्भौमस्वर्णमयेऽखिले ।मन्त्रस्तु गुह्यवादे स्याद्देवादीनां च साधने ॥
27.2.75 · p. 258
अनुष्टुप्
वेदभागविशेषे च मन्त्री तद्वि(द)मात्यके ।मन्द्रः स्वरविशेषेऽपि माद्री पाण्डोश्च योषिति ॥
27.2.76 · p. 258
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मात्रा कर्णविभूषायां माने वित्ते परिच्छदे ।अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे ॥
27.2.77 · p. 258
अनुष्टुप्
मारः स्मरे मृतौ विघ्ने मारी देव्यां जनक्षये ।मारिः स्त्री मारणे वर्षे मित्रं सख्यौ च भेषजे ॥
27.2.78 · p. 258
अनुष्टुप्
लग्नाच्चतुर्थराशौ च पुंसि सूर्ये प्रकीर्तितः ।मुरा गन्धौषधौ मूत्रं मलभेदे निगद्यते ॥
27.2.79 · p. 258
अनुष्टुप्
मेरुः सुराद्रौ मेढ्रं तु शेफसि क्लीबमीरितम् ।मैत्रं तु जातकृत्ये स्यान्मित्रसम्बन्धवत्यपि ॥
27.2.80 · p. 258
अनुष्टुप्
यस्मिन्नर्थे तु यत्रेति यन्त्रं तु स्यान्नियन्त्रणे ।देवतायतने चापि तथा युद्धादिसाधने ॥
27.2.81 · p. 258
अनुष्टुप्
यात्रोत्सवे च गमने यात्रा स्याद्यापनेऽपि च ।योक्त्रं तु रज्जुभेदे स्यात्तथैवावयवान्तरे ॥
27.2.82 · p. 258
अनुष्टुप्
रन्ध्रं स्याद्दूषणे छिद्रे राष्ट्री स्यादौषधेऽप्यथ ।राष्ट्रस्तूपद्रवे क्लीबं तथा स्यादुपवर्तने ॥
27.2.83 · p. 259
अनुष्टुप्
रात्रिर्हरिद्रायामिन्यो रुरुर्दैत्ये मृगेऽपि च ।रुद्रस्तूग्रे महादेवे रेत्रं क्लीबे तु रेतसि ॥
27.2.84 · p. 259
अनुष्टुप्
पीयूषे पटवासेऽपि सूतके परिकीर्तितम् ।रौद्रो रसान्तरे रौद्रमुग्रे रुद्रोद्भवेऽपि च ॥
27.2.85 · p. 259
अनुष्टुप्
रौद्री चण्ड्यामपि ख्याता लोध्रं स्यादौषधान्तरे ।वरो जामातरि वृते देवतादेरभीप्सिते ॥
27.2.86 · p. 259
अनुष्टुप्
षिड्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् ।वरी प्रोक्ता शतावर्यां वरा तु स्यात्फलत्रिके ॥
27.2.87 · p. 259
अनुष्टुप्
मनागिष्टे वरं क्लीबे केचिदाहुस्तदव्ययम् ।वक्रः शनैश्चरे पुंसि पुटभेदे नपुंसकम् ॥
27.2.88 · p. 259
अनुष्टुप्
त्रिषु क्रूरे च कुटिले वज्रो योगान्तरे तथा ।वज्रः कृष्णस्य दायादे वज्रं धात्र्यां च वालके ॥
27.2.89 · p. 259
अनुष्टुप्
वज्रा गुडूच्यां कुलिशे मतं क्लीबे च पुंसि च ।वज्री महेन्द्रे पुंसि स्यात्स्नुह्यां वज्री मता स्त्रियाम् ॥
27.2.90 · p. 259
अनुष्टुप्
वज्रोऽस्त्री हीरके वध्रं क्लीबं त्रपुवरत्रयोः ।वप्रः सानौ पुमानस्त्री रेणौ क्षेत्रे चये तटे ॥
27.2.91 · p. 259
अनुष्टुप्
वक्त्रं मुखे वृत्तभेदे व्यग्रो व्यासक्त आकुले ।वध्री प्रोक्ता वरत्रायां वास्रो ना दिवसे मतः ॥
27.2.92 · p. 259
अनुष्टुप्
वास्रं तु मन्दिरे क्लीबं तथैव च चतुष्पथे ।व्याघ्रः स्यादपि शार्दूले रक्तैरण्डे करञ्जके ॥
27.2.93 · p. 260
अनुष्टुप्
व्याघ्रः पराक्रमयुते कण्टकार्यां तु योषिति ।व्याघ्रं व्याघ्रनखे क्लीबं वारी स्याद्गजबन्धने ॥
27.2.94 · p. 260
अनुष्टुप्
वारः सूर्यादिदिवसे वृन्दावसरयोः क्षणे ।द्वारे हरे कुब्जवृक्षे वारं स्याद्बालकेऽम्बुनि ॥
27.2.95 · p. 260
अनुष्टुप्
वीरो रसविशेषे स्याद्वीरः शूरे निगद्यते ।स्त्री सुराक्षीरकाकोलीतामलक्येलवालुके ॥
27.2.96 · p. 260
अनुष्टुप्
पतिपुत्रवतीरम्भाविदारीदुग्धिकासु च ।मलपूक्षीरविदार्योः क्लीबं शृङ्ग्यां नलेऽपि च ॥
27.2.97 · p. 260
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
वीध्रं तु विमले प्रोक्तं विग्रः स्याद्गतनासिके ।वृत्रो रिपौ घने ध्वान्ते शैलभेदे च दानवे ॥
27.2.98 · p. 260
अनुष्टुप्
वेरं कलेवरे नेत्रे वार्ताकौ कुङ्कुमेऽपि च ।वैरं विरोधे वैरी तु पुमाँस्तद्वति कीर्तितः ॥
27.2.99 · p. 260
अनुष्टुप्
वोड्री स्त्री पणपादे ना गोनसाहौ झषान्तरे ।शरस्तु तेजने बाणे दध्यग्रे ना शरं जले ॥
27.2.100 · p. 260
अनुष्टुप्
शस्त्रं लोहास्त्रयोः क्लीबं छुरिकायां तु योषिति ।शक्रो महेन्द्रे कुटजे तथैवार्जुनपादपे ॥
27.2.101 · p. 260
अनुष्टुप्
शद्रिर्नाऽम्भोधरे जिष्णौ शरुर्ना कोपवज्रयोः ।शरुश्च यूपशकले श्वश्रूश्च पतिमातरि ॥
27.2.102 · p. 260
अनुष्टुप्
शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे ।युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि च ॥
27.2.103 · p. 261
अनुष्टुप्
शारस्तु शबले वाच्यलिङ्गो ना तु समीरणे ।अक्षोपकरणे चापि क्लीबं ज्ञानेऽपि वारिणि ॥
27.2.104 · p. 261
अनुष्टुप्
शास्त्रं तु न द्वयोरागमाज्ञयोश्च निगद्यते ।शिग्रुः पुमान् वृक्षभेदे शाकमात्रे नपुंसकम् ॥
27.2.105 · p. 261
अनुष्टुप्
शिरः क्लीबे नालिकेरे मस्तकेऽपि निगद्यते ।शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति ॥
27.2.106 · p. 261
अनुष्टुप्
उशीरे चापि चक्राङ्गे शीघ्रं द्रुतगतौ त्रिषु ।शुक्रो दैत्यगुरौ मासे तथा वैश्वानरेऽपि च ॥
27.2.107 · p. 261
अनुष्टुप्
तथाऽक्षिरुग्भिदि क्लीबं शुक्रं क्लीबे तु रेतसि ।शूरो नृपतिभेदेऽपि तथा विक्रान्तयोधिनि ॥
27.2.108 · p. 261
अनुष्टुप्
शुभ्रः शुक्लोद्दीप्तयोः स्यात्तथैव क्लीबमभ्रके ।शूद्री शूद्रस्य भार्यायां शूद्रा स्याज्जातिमात्रके ॥
27.2.109 · p. 261
अनुष्टुप्
स्वरो ध्वनौ च खड्गादेस्तथा नासासमीरणे ।उदात्तादौ मध्यमादावकारादावपीष्यते ॥
27.2.110 · p. 261
अनुष्टुप्
सरः पुमान्दधिभवे सरं क्लीबे सरस्यपि ।त्सरुः पुमान् खड्गमुष्टौ यूपस्यावयवे स्वरुः ॥
27.2.111 · p. 261
अनुष्टुप्
सत्रं यागविशेषे स्यात्सत्री नित्यान्नदातरि ।सारो बले स्थिरांशे च न्याय्ये मज्जनि शम्बरे ? ॥
27.2.112 · p. 261
अनुष्टुप्
धने वायौ वने सान्द्रं वने चापि घने मृदौ ।स्फारस्तु विकटे पुंसि करकादेश्च बुद्बुदे ॥
27.2.113 · p. 262
अनुष्टुप्
सिप्रो निदाघसलिले सिप्रा नद्यन्तरे तथा ।स्थिरोऽचले शनौ मोक्षे शालपर्ण्यां स्थिरा भुवि ॥
27.2.114 · p. 262
अनुष्टुप्
सीरोऽर्कहलयोः पुंसि स्फिरं भूरिणि स्फारवत् ।सिराऽपि कण्डरायां स्यात्सुरा चषकमद्ययोः ॥
27.2.115 · p. 262
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 णि (wrong syllable)
सुरः स्यात्त्रिदशे सूत्रं क्लीबे तन्तुव्यवस्थयोः ।शास्त्रादिसूचनाग्रन्थे सूरः प्रोक्तो विवस्वति ॥
27.2.116 · p. 262
अनुष्टुप्
स्वच्छन्दमन्दयोः स्वैरो हरिश्चन्द्रार्कवायुषु ।शुकभेकयमाश्वाहिकपिसिंहहरिष्वपि ॥
27.2.117 · p. 262
अनुष्टुप्
अजेशशक्रकिरणपिङ्गलोकान्तरेष्वपि ।हरः शिवे तथा हारिः सन्तानद्यूतभङ्गयोः ॥
27.2.118 · p. 262
अनुष्टुप्
पथिकेऽपि पुमान् हारिर्हारो मुक्तासरे युधि ।हिंस्रा काकादनीमांस्योर्घातके चान्यलिङ्गवत् ॥
27.2.119 · p. 262
अनुष्टुप्
हीरा पिपीलिकालक्ष्म्योर्हीरः शङ्करवज्रयोः ।होरा तु लग्ने राश्यर्धे रेखाशास्त्रभिदोरपि ॥
27.2.120 · p. 262
अनुष्टुप्