कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

ठान्तवर्गः · ठतृतीयम्

॥ इति ठद्वितीयम्‌ ॥

॥ अथ ठतृतीयम्‌ ॥

अम्बष्ठो देशभेदे च विप्राद्वैश्यासुतेऽपि च ।स्त्रियां तु स्यादम्ललोण्यां पाठायूथिकयोरपि ॥
12.3.1 · p. 94
अनुष्टुप्
अपष्ठुस्तु भवेत्काले वामे स्यादन्यलिङ्गकः ।कमठः कच्छपे भाण्डभेदे तु कमठं मतम् ॥
12.3.2 · p. 94
अनुष्टुप्
कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा दुर्बलाङ्गुलौ ।जरठः कर्कशे पाण्डौ कठिने त्वभिधेयवत् ॥
12.3.3 · p. 94
अनुष्टुप्
नर्मठश्चुबुके षिड्गे प्रतिष्ठा गौरवे क्षितौ ।स्थाने च यागनिष्पत्तिचतुरक्षरपद्ययोः ॥
12.3.4 · p. 94
अनुष्टुप्
प्रकोष्ठो मणिबन्धस्य कुर्परस्यान्तरेऽपि च ।भूपकक्षान्तरेऽपि स्याल्लघिष्ठो बालकल्पके ॥
12.3.5 · p. 94
अनुष्टुप्
वसिष्ठो मुनिभेदे स्याद्वरिष्ठं मरिचे मतम् ।वरिष्ठः स्यादुरुतरे प्रवरे तित्तिरावपि ॥
12.3.6 · p. 94
अनुष्टुप्
ताम्रे चाथ मकुष्ठस्तु व्रीहिभेदेऽपि मन्थरे ।वैकुण्ठः स्याद्विष्णुलोके तथा विष्णौ शतक्रतौ ॥
12.3.7 · p. 94
अनुष्टुप्
श्रीकण्ठो देशभिद्युग्रे साधिष्ठोऽतिदृढार्ययोः ।
12.3.8 · p. 94