All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
वान्तवर्गः · वद्वितीयम्
॥ इति वैकम् ॥
॥ अथ वद्वितीयम् ॥
अविः सूर्ये गिरौ मेषे तथा कम्बलमूषके ।अश्वः पुञ्जातिभेदे स्यात्तुरङ्गे च पुमानयम् ॥
29.2.1 · p. 315
अनुष्टुप्
अध्वा ना पथि संस्थाने सास्रवस्कन्धकाययोः ।उर्ध्वं स्यादुच्छ्रिते तुङ्गे चोपरिष्टादपि स्मृतम् ॥
29.2.2 · p. 315
अनुष्टुप्
एवं च स्यात्प्रकारार्थेऽव्ययं कविरिति ध्वनिः ।वाल्मीकिकाव्ययोः काव्यकरे सूरौ पुमानथ ॥
29.2.3 · p. 315
अनुष्टुप्
कविः खलीने कथिता कण्वं पापे मुनौ पुमान् ।किण्वं पापे सुराबीजे खर्वो ह्रस्वन्यगर्थयोः ॥
29.2.4 · p. 315
अनुष्टुप्
गर्वोऽभिमाने ग्रावा स्यात्प्रस्तरे च महीधरे ।ग्रीवा तु कन्धरायां स्यात्तत्सिरायामपीष्यते ॥
29.2.5 · p. 315
अनुष्टुप्
मनोज्ञे चारु गदितं चार्वस्तु कलहंसके ।चार्वी तु शोभनाबुध्योर्ज्योत्स्नाधनदभार्ययोः ॥
29.2.6 · p. 316
अनुष्टुप्
छविः शोभारुचोर्योषिज्जवो वेगे च तद्वति ।औण्ड्रपुष्पे जवा योषिज्जीवस्तु स्याद्द्रुमान्तरे ॥
29.2.7 · p. 316
अनुष्टुप्
बृहस्पतौ प्राणिनि च जीवं जीवा च जीवने ।जीवा जीवन्तिकामौर्व्योर्वचासिञ्जितभूमिषु ॥
29.2.8 · p. 316
अनुष्टुप्
दवो दावश्च गदितौ वनाग्निवनयोरपि ।द्वन्द्वं रहस्ये कलहे तथा मिथुनयुग्मयोः ॥
29.2.9 · p. 316
अनुष्टुप्
द्रवः प्रद्रावरसयोर्न ना नर्मणि विद्रवे ।दर्वी स्त्रियां यज्ञपात्रे दावं क्लीबे वने मतम् ॥
29.2.10 · p. 316
अनुष्टुप्
दार्वी दारुहरिद्रायां तथा गोजिह्विकौषधौ ।दिवं स्वर्गे च गगने क्लीबं दूर्वा तृणान्तरे ॥
29.2.11 · p. 316
अनुष्टुप्
देवः सुरे नृपे चैव घने देवः प्रकीर्तितः ।देवमिन्द्रियमाख्यातं क्लीबे देवी पुनः स्त्रियाम् ॥
29.2.12 · p. 316
अनुष्टुप्
धवो वृक्षान्तरे धूर्ते पत्यावपि निगद्यते ।धन्वी धनुर्धरेऽपि स्याद्वर्जने ककुभद्रुमे ॥
29.2.14 · p. 316
अनुष्टुप्
धन्वा तु मरुदेशे ना क्लीबे चापे स्थलेऽपि च ।ध्रुवः कीले हरौ शम्भौ वसौ योगे वटे मुनौ ॥
29.2.15 · p. 316
अनुष्टुप्
ध्रुवा मूर्वाशालिपर्ण्योर्गीतिस्रुग्भेदयोरपि ।ध्रुवं स्यान्निश्चिते क्लीबे तथा तर्के च शाश्वते ॥
29.2.16 · p. 317
अनुष्टुप्
वदन्त्यपि विशेषज्ञा नवं त्रिषु चतुष्टये ? ।नवो नव्ये स्तुतौ नीवी स्त्रीकटीवस्त्रबन्धने ॥
29.2.17 · p. 317
अनुष्टुप्
मूलद्रव्ये परिपणे प्लवः प्लक्षे प्लुतौ कपौ ।शब्दे कारण्डवे भेके कुलके भेलके घने ॥
29.2.18 · p. 317
अनुष्टुप्
प्लवं गन्धतृणे प्रोक्तं चण्डालजलकाकयोः ।कैवर्तीमुस्तके चैव हंससारसकादिषु ॥
29.2.19 · p. 317
अनुष्टुप्
क्रमनिम्नमहीभागे पक्वं परिणते तथा ।विनाशाभिमुखे चापि प्रह्वः प्रणतनम्रयोः ॥
29.2.20 · p. 317
अनुष्टुप्
पर्व क्लीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे ।दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि ॥
29.2.21 · p. 317
अनुष्टुप्
पार्श्वं स्यादन्तिके कक्षाधरे पर्शुगणेऽपि च ।चक्रोपान्ते च पार्श्वं स्यात्प्राध्वं तु प्रणते मतम् ॥
29.2.22 · p. 317
अनुष्टुप्
तथैव प्राध्वमुदितं दूरवर्त्मनि बन्धने ।पूर्वं तु पूर्वजे प्राच्यां प्रथमे श्रुतिभेदके ॥
29.2.23 · p. 317
अनुष्टुप्
पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके ।भवः क्षेमेशसंसारसत्तासम्प्राप्तिजन्मसु ॥
29.2.24 · p. 317
अनुष्टुप्
भावः स्वभावेऽभिप्राये चेष्टासत्तात्मजन्मसु ।क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु ॥
29.2.25 · p. 317
अनुष्टुप्
रत्यादौ चाथ रेवा स्यान्नद्यां नील्यां स्मरस्त्रियाम् ।लवो विलासे लेशे च छेदे काले च रामजे ॥
29.2.26 · p. 318
अनुष्टुप्
लट्वा करञ्जभेदे स्यात्फले वाद्ये खगान्तरे ।लध्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च ॥
29.2.27 · p. 318
अनुष्टुप्
विश्वं तु भुवने कृत्स्ने विश्वे देवेषु नागरे ।विश्वाऽप्यतिविषायां स्याद्विश्वो भूम्नि वसौ मतः ॥
29.2.28 · p. 318
अनुष्टुप्
बिल्वो ना श्रीफले प्रोक्तः शवः स्यात्प्राणवर्जिते ।शावं तु स्याच्छवाऽऽशौचे शिवा तु स्यान्मृगान्तरे ॥
29.2.29 · p. 318
अनुष्टुप्
शिवं मोक्षे सुखे भद्रे सलिले च शिवो हरे ।वेदे योगान्तरे कीले वालुके गुग्गुलावपि ॥
29.2.30 · p. 318
अनुष्टुप्
पुण्डरीकद्रुमे चापि शिवा झाटामलौषधौ ।सत्त्वं द्रव्ये गुणे वित्ते व्यवसायस्वभावयोः ॥
29.2.31 · p. 318
अनुष्टुप्
पिशाचादा(वा)त्मभावे बले प्राणेषु जन्तुषु ।सवो यज्ञे सुसन्धाने समग्रे सर्वमीरितम् ॥
29.2.32 · p. 318
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सान्त्वं साम्नि च दाक्षिण्ये स्रुवो होमस्य पात्रके ।शल्लकीमूर्वयोश्चापि सेवा स्यात्परिचारणे ॥
29.2.33 · p. 318
अनुष्टुप्
हव आज्ञाध्वराह्वाने कथितः शब्दवेदिभिः ।हावः प्रोक्तस्तु नाट्याङ्गे ह्रस्वः खर्वे स्वरान्तरे ॥
29.2.34 · p. 318
अनुष्टुप्
क्षवः क्षुते पुमानुक्तो राजिकायां क्षवा मता ॥
29.2.35 · p. 318