All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
छान्तवर्गः · छैकम्
॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये चान्तवर्गः ॥
॥ अथ छान्ताः ॥
॥ अथ छैकम् ॥
निर्मले छः समाख्यातः सरणिस्थः प्रकीर्तितः ।छेदने छः समाख्यातो जपसिद्धौ च कीर्तितः ॥
7.1.1 · p. 74
अनुष्टुप्
॥ अथ छद्वितीयम् ॥
अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् ।आभिमुख्ये भवेदाच्छ आयामे परिपठ्यते ॥
7.1.3 · p. 74
अनुष्टुप्
शब्दवेदिभिरिच्छा तु समीहावीप्सयोर्मता ।उञ्छस्तु मुनिवृत्तौ स्याद्विवासे तूच्छिरुच्यते ॥
7.1.4 · p. 74
अनुष्टुप्
अनूपदेशे कच्छः स्यान्नौकाङ्गे तुन्नकद्रुमे ।वाराह्यां परिधाने स्यात्पश्चादञ्चलपल्लवे ॥
7.1.5 · p. 74
अनुष्टुप्
चीरिकायां च कच्छा च स्त्रियां गुच्छः पुमान्मतः ।स्तबके हारभेदे च तथा स्तम्बकलापयोः ॥
7.1.6 · p. 74
अनुष्टुप्
पिच्छा तु शाल्मलीवेष्टे पङ्क्तावाश्रमपादपे ।मोचापूगच्छटाकोशभक्तसम्भूतमण्डके ॥
7.1.7 · p. 74
अनुष्टुप्
लाङ्गुले बर्हिचूडायां तथैवाश्वपदामये ।पिच्छं पुच्छे तु गदितं पृच्छा प्रश्ने प्रकीर्तिता ॥
7.1.8 · p. 74
अनुष्टुप्
भर्च्छा निर्भर्च्छने प्रोक्ता मृच्छा स्यात्परिमार्जने ।म्लेच्छस्तु जातिभेदे स्यान्म्लेच्छः स्यादपभाषणे ॥
7.1.9 · p. 74
अनुष्टुप्
तथा पामरभेदे च पापरक्ते च कीर्तितः ।भवेद्युच्छः प्रमादेऽपि कथ्यते त्वयलक्षणे ॥
7.1.10 · p. 75
अनुष्टुप्
लच्छलाच्छौ निगदितौ मता स्फूर्छा तु विस्तृतौ ।लज्जायां तु भवेद्धृच्छा हूर्छा कौटिल्यवाचिनि ॥
7.1.11 · p. 75
अनुष्टुप्