कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

रान्तवर्गः · रचतुर्थम्

॥ इति रतृतीयम्‌ ॥

॥ अथ रचतुर्थम्‌ ॥

अरुष्करो व्रणकृति त्रिषु भल्लातके पुमान् ।अभिमरो वधे युद्धे तथा स्वबलसाध्वसोः ॥
27.4.1 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
अलङ्कारस्तूपमादौ हारकेयूरकादिषु ।अवतारोऽवतरणे पुष्करिण्यादितीर्थयोः ॥
27.4.2 · p. 284
अनुष्टुप्
अनुत्तरस्त्रिषु श्रेष्ठे प्रतिजल्पासमर्थके ।अवस्करस्तु वर्चस्के गुह्येऽथावसरः पुमान् ॥
27.4.3 · p. 284
अनुष्टुप्
प्रस्तावे मन्त्रभेदे च वर्षणे चापि कीर्तितः ।उपलादावकूपारः कूर्मराजे महोदधौ ॥
27.4.4 · p. 284
अनुष्टुप्
असिपत्रस्तु निरये कोषकारे च कीर्त्यते ।अश्वतरो वेगसरे कर्कोटे पन्नगान्तरे ॥
27.4.5 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 श्व (wrong syllable)
अभिहारोऽभियोगे स्याच्चौर्ये सन्नहनेऽपि च ।अग्निहोत्रः पुमानग्नौ क्लीबं हविषि कर्मणि ॥
27.4.6 · p. 284
अनुष्टुप्
अग्निहोत्री त्वाहिताग्नौ पुंसि स्रुचि तु योषिति ।अर्द्धचन्द्रस्तु खण्डेन्दौ मतश्च करजक्षते ॥
27.4.7 · p. 284
अनुष्टुप्
गलहस्ते बाणभेदे कृष्णत्रिवृत्ति तु स्त्रियाम् ।दिनरात्रे त्वहोरात्रस्त्वन्धकारस्त्वभास्करे ॥
27.4.8 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रि (wrong syllable)
अङ्गहारोऽङ्गविक्षेपेऽहिभेदेऽजगरः स्मृतः ।अभिमाने त्वहङ्कारस्त्वतिमात्रं तु पुष्कले ॥
27.4.9 · p. 285
अनुष्टुप्
अङ्गीकारोऽभ्युपगमेऽप्यध्याहारो वितर्कणे ।अन्तःपुरं राजवेश्मन्यवाच्ये स्यादनक्षरम् ॥
27.4.10 · p. 285
अनुष्टुप्
अभ्यन्तरं त्वन्तराले मणिके स्यादलिञ्जरः ।अग्रेसरः पुरोगे स्यादहङ्कारी त्वहंयुजि ॥
27.4.11 · p. 285
अनुष्टुप्
असिपुत्री छुरिकायां त्वचि तु स्यादसृग्धरा ।अतिचरा पद्मतरावभ्याहारस्त्वभिग्रहे ॥
27.4.12 · p. 285
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable); pāda 3, syllable 2 ति (wrong syllable)
अपहारश्चापचयेऽवहारः स्यात्तु तस्करे ।अधश्चरस्तथा चोरे गदितः सुकुमालवत् ? ॥
27.4.13 · p. 285
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
अश्मसारस्तु लोहे स्यात्सहायेऽभिसरो मतः ।अतिहारस्तु चौर्ये स्यादपवित्रं तु किल्विषे ॥
27.4.14 · p. 285
अनुष्टुप्
आडम्बरो रथे तूर्ये संरम्भे गजगर्जिते ।आत्मपुत्रे चात्मवीरः श्यालके च विदूषके ॥
27.4.15 · p. 285
अनुष्टुप्
बलवत्यप्यौदरिकेऽप्यात्मम्भरिरितीरितः ।इन्दिदिरश्चञ्चरीकेऽप्यथ नीलोत्पले मतम् ॥
27.4.16 · p. 285
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प्यौ (wrong syllable); pāda 3, syllable 3 दि (wrong syllable)
इन्दीवरं शतावर्यां भवेदिन्दीवरीति च ।उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥
27.4.17 · p. 285
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
उपह्वरः समीपे स्यादेकान्ते तु नपुंसकम् ।उदुम्बरो जन्तुफले ताम्रे तु स्यादुदुम्बरम् ॥
27.4.18 · p. 285
अनुष्टुप्
उदुम्बरस्तु देहल्यां कुष्ठभेदे च षण्डके ।उद्दन्तुरस्त्रिषूत्तुङ्गे करालोत्कटदन्तयोः ॥
27.4.19 · p. 286
अनुष्टुप्
उपहारस्तूपदायां वेषवार उपस्करः ।उदाहार उपोद्घाते तूष्णसारस्तु हि तरौ ॥
27.4.20 · p. 286
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 6 हि (wrong syllable)
औदुम्बरो यमे रोगभेदेऽपि च निगद्यते ।बुसे कडङ्गरः प्रोक्तः कर्णधारस्तु नाविके ॥
27.4.21 · p. 286
अनुष्टुप्
अथ कर्मकरो भृत्ये वेतनाजीविनि त्रिषु ।कीनाशे पुंसि मूर्वायां बिम्बिकायामपि स्त्रियाम् ॥
27.4.22 · p. 286
अनुष्टुप्
करवीरः कृपाणे स्थाद्दैत्यभेदाश्वमारयोः ।करवीर्यदितिश्रेष्ठगवीपुत्रवतीष्वपि ॥
27.4.23 · p. 286
अनुष्टुप्
कटम्भरा प्रसारिण्यां रोहिण्यां गजयोषिति ।कलम्बिकायां गोलायां वर्षाभूमूर्वयोरपि ॥
27.4.24 · p. 286
अनुष्टुप्
कलिकारस्तु धूम्याटे करञ्जे पीतमुस्तके ।कर्णिकारस्तु शम्याके तथैव च द्रुमोत्पले ॥
27.4.25 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
कर्णपुरोऽवतंसे स्यान्नीलोत्पलशिरीषयोः ।कटुम्भरा कटुक्यां स्यात्कर्मशूरस्तु कर्मठे ॥
27.4.26 · p. 286
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 पु (wrong syllable)
कादम्बरस्तु दध्यग्रे मद्यभेदे नपुंसकम् ।स्त्री वारुणीपरभृताभारतीसारिकासु च ॥
27.4.27 · p. 286
अनुष्टुप्
कालिञ्चरो योगिचक्रे मेलके भैरवे गिरौ ।कारोत्तरः सुरामण्डे हेम्नि कार्त्तस्वरं मतम् ॥
27.4.28 · p. 286
अनुष्टुप्
कामचारः कामुके स्यात्स्वच्छन्दे निरवग्रहे ।कुम्भकारी कुलथ्यां स्यात्पुमांस्तु घटकारके ॥
27.4.29 · p. 287
अनुष्टुप्
कुक्षिम्भरस्त्वौदरिके कुस्तुम्ब(रु) तु धान्यके ।कृष्णसारा शिंशपायां स्नुह्यां पुंसि मृगान्तरे ॥
27.4.30 · p. 287
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्त्वौ (syllables merged)
कोविदारो वृक्षभेदे कौ(ल)टेरोऽसतीसुते ।गिरिसारः पुमाँल्लोहे वङ्गे मलयपर्वते ॥
27.4.31 · p. 287
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वृ (syllables merged)
गुडदारुर्मधुतृणे गदितः शब्दवेदिभिः ।खगेश्वरस्तु गरुडे सहस्रकिरणेऽपि च ॥
27.4.32 · p. 287
अनुष्टुप्
घनसारस्तु कर्पूरे दक्षिणावर्त्तपारदे ।चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि ॥
27.4.33 · p. 287
अनुष्टुप्
चर्मकारः पादूकृति स्त्रियां चर्म(क)षौषधौ ।अथ चक्रधरोऽजेऽहौ ना त्रिषु ग्रामजालिनि ॥
27.4.34 · p. 287
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रः (syllables merged)
चित्राटीरो विधौ भालमङ्कितं येन तत्र च ।घण्टाकर्णोपहाराय हतच्छागास्रबिन्दुषु ॥
27.4.35 · p. 287
अनुष्टुप्
चाटकैरस्तु चटकाऽपत्ये पुंसि निगद्यते ।चित्राटिरो विधौ रङ्गाजीवे चित्रकरः स्मृतः ॥
27.4.36 · p. 287
अनुष्टुप्
चार्वटीरस्तु गणिकाऽत्मजे चाथ नपुंसकम् ।हेम्नि छुच्छुन्दरी योषा गन्धमुख्यामुदीरिता ॥
27.4.37 · p. 287
अनुष्टुप्
मीनादौ स्याज्जलचरो मेघे जलधरो मतः ।जगत्करो धातरि स्याद्वृद्धे तु स्याज्जरातुरः ॥
27.4.38 · p. 287
अनुष्टुप्
जटाधरः स्मरहरे दैत्यभेदे जलन्धरः ।जलेश्वरस्तु वरुणे स्याद्राजनि जनेश्वरः ॥
27.4.39 · p. 288
अनुष्टुप्
तरवारो मतः खड्गे त्वक्क्षीरी वंशलोचना ।ताडपत्रं तु ताटङ्के रण्डायां तालपत्र्यपि ॥
27.4.40 · p. 288
अनुष्टुप्
तुङ्गभद्रा नदीभेदे स्त्रियां पुंसि मदोत्कटे ।तुण्डकेरी च कार्पास्यां बिम्बिकायामपि स्त्रियाम् ॥
27.4.41 · p. 288
अनुष्टुप्
तुलाधारस्तुलाराशौ पुंसि वाणिजके त्रिषु ।घने तोयधरो मुस्तासुनिषण्णकयोरपि ॥
27.4.42 · p. 288
अनुष्टुप्
दधिचारस्तु तक्राटे गदितः शब्दकोविदैः ।दर्वीकरो दन्दशूके भवेद्दण्डधरः पुनः ॥
27.4.43 · p. 288
अनुष्टुप्
प्रेतनाथे महीशे च तथा भैरवभिद्यपि ।दण्डयात्रा दिग्विजये संयानवरयात्रयोः ॥
27.4.44 · p. 288
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दि (wrong syllable)
दध्योदके दधिसरः दानवारिस्तु केशवे ।दामोदरश्च तत्रैव दशपुरं तु पत्तने ॥
27.4.45 · p. 288
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पु (wrong syllable)
दिनेश्वरः सवितरि क्षपणे स्याद्दिगम्बरः ।नग्ने महेश्वरे द्यूतकारे तु स्याद्दुरोदरः ॥
27.4.46 · p. 288
अनुष्टुप्
द्यूताक्षपणयोश्चापि देहयात्रा तु भोजने ।प्रेतनाथपुरीयाने पुरीं यो दिवि निर्ममे ॥
27.4.47 · p. 288
अनुष्टुप्
द्वैमातुरो गणाधीशे जरासन्धे च गद्यते ।अथ दैत्यगुरुः शुक्रे दैत्यदारो जनार्दने ॥
27.4.48 · p. 288
अनुष्टुप्
द्रोणक्षीरा द्रोणदुहि गवि शैले धराधरः ।धनुर्धरस्तु धानुष्के कुबेरे स्याद्धनेश्वरः ॥
27.4.49 · p. 289
अनुष्टुप्
धाराधरो जलधरे कृपणे च निगद्यते ।धाराङ्कुरस्तु नासीरे शीकरेऽपि घनोपले ॥
27.4.50 · p. 289
अनुष्टुप्
धार्तराष्ट्रोऽसिताऽऽस्याङ्घ्रिहंसे कौरवसर्पयोः ।धुन्धुमारस्त्विन्द्रगोपे गृहधूममहीपयोः ॥
27.4.51 · p. 289
अनुष्टुप्
धुरन्धरो धवतरौ वाच्यलिङ्गस्तु धूर्वहे ।धृतराष्ट्रो राजमात्रे पक्षिराजप्रभेदयोः ॥
27.4.52 · p. 289
अनुष्टुप्
नागभेदे च कथितो हंसपत्न्यां तु योषिति ।नभश्चरो घने विद्याधरे चापि विहङ्गमे ॥
27.4.53 · p. 289
अनुष्टुप्
नमस्कारी लताभेदे राजनि स्यान्नरेश्वरः ।नागोदरमुरस्त्राणे रोमान्त - - - - - ॥
27.4.54 · p. 289
अनुष्टुप्metre not read in every line
निषद्वरस्तु जम्बाले सुधांशौ च निशाकरः ।नीलाम्बरो रौहिणेये राक्षसे च शनैश्चरे ॥
27.4.55 · p. 289
अनुष्टुप्
निशाचरो राक्षसे स्यात्फेरौ पेचकसर्पयोः ।निशाचरी पांसुलायां साङ्गे क्लीबे निरन्तरम् ॥
27.4.56 · p. 289
अनुष्टुप्
भवेत्परिकरः सङ्घे पर्यङ्कपरिवारयोः ।प्रगाढगात्रिकाबन्धे समारम्भविवेकयोः ॥
27.4.57 · p. 289
अनुष्टुप्
भवेत्पक्षचरश्चन्द्रे पृथक्चारिगजेऽपि च ।अथ प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे ॥
27.4.58 · p. 289
अनुष्टुप्
व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डने ।आरक्षे करसूत्रे च नियोज्ये त्वन्यलिङ्गकः ॥
27.4.59 · p. 290
अनुष्टुप्
परम्परः प्रपौत्रादौ मृगभेदेऽपि कथ्यते ।परम्परा परिपाट्यां सन्तानेऽपि वधे क्वचित् ॥
27.4.60 · p. 290
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
मयाऽस्योपकृतं पूर्वमयं चोपकरिष्यति ।इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥
27.4.61 · p. 290
अनुष्टुप्
पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वे च पुष्पितः ।पयोधरो नालिकेरे कोशकारे कुचेऽपि च ॥
27.4.62 · p. 290
अनुष्टुप्
कसेरुमेघयोः पुंसि प्रभाकरोऽग्निसूर्ययोः ।प्रतिहारो द्वारि तत्स्थे जीर्णवस्त्रे पटच्चरम् ॥
27.4.63 · p. 290
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
परिष्कारस्त्वाभरणे कामे पञ्चशरः स्मृतः ।परिवारः परिजने वज्रकोशे परिच्छदे ॥
27.4.64 · p. 290
अनुष्टुप्
भवेत्परिसरः प्रान्तभूमौ दैवे तथा मृतौ ।प्रतीकारो वैरशुद्धौ वरार्थिन्यां पतिम्वरा ॥
27.4.65 · p. 290
अनुष्टुप्
पद्माकरस्तडागे प्रतिसीरा जवनिकायां स्यात् ।परिसर्या परिमारः स्यात्प्रत्याहार उपादाने ॥
27.4.66 · p. 290
metre not recognised
परिचरः परिधिस्थे प्रत्यासारो व्यूहपार्ष्णौ च ।पटच्चरस्तु चौरे पारावारः सरित्पतावुक्तः ॥
27.4.67 · p. 290
metre not recognised
निम्बे स्यात्पारिभद्रस्तु चोरे पाटच्चरो मतः ।पारावारं परार्वाचोस्तीरयो (र्ना सरित्पतौ) ॥
27.4.68 · p. 290
अनुष्टुप्metre not read in every line
पात्रटीरः समुद्दिष्टो मुक्तव्यसनमन्त्रिणि ।पीताम्बरस्तु शैलूषे पुंसि कैटभसूदने ॥
27.4.69 · p. 291
अनुष्टुप्
पीतसारो मलयजे गोमेदकमणावपि ।पीतसारं च कनके पीतदारु च चन्दने ॥
27.4.70 · p. 291
अनुष्टुप्
पीनोदरं गजमुखे महेन्द्रे स्यात्पुरन्दरः ।पूर्णपात्रं वस्तुपूर्णपात्रे वर्धापकेऽपि च ॥
27.4.71 · p. 291
अनुष्टुप्
फलपूरो वृक्षभेदे बलात्कारो हठात्कृतौ ।बलभद्रा त्रायमाणाकुमार्योः पुंसि सीरिणि ॥
27.4.72 · p. 291
अनुष्टुप्
भयङ्करं प्रतिभये भद्रदारु तु दारुणि ।भक्षकारः सूपकारे रक्षोभेदे महोदरः ॥
27.4.73 · p. 291
अनुष्टुप्
महोदरं व्याधिभेदे महावीरौषधीभिदि ।महावीरोऽतियजने परपुष्टे जराटके ॥
27.4.74 · p. 291
अनुष्टुप्
तार्क्ष्ये कर्के पवौ शूरे सिंहे मखहुताशने ।महामात्रः समृद्धे चामात्ये हस्तिपकाधिपे ॥
27.4.75 · p. 291
अनुष्टुप्
मणिच्छिद्राऽथ मेदायामृषभाख्यौषधावपि ।मनोहरो भक्ष्यभेदे चित्तहारिणि वाच्यवत् ॥
27.4.76 · p. 291
अनुष्टुप्
भ्रमरे स्यान्मधुकरो गिरीशे तु महेश्वरः ।मधुशिग्रू रक्तशिग्रौ मदोदग्रो मदोत्कटे ॥
27.4.77 · p. 291
अनुष्टुप्
अथाभीरस्य योषायां महाशूद्री निगद्यते ।चित्ताभोगे मनस्कारो मालाकारस्तु मालिके ॥
27.4.78 · p. 291
अनुष्टुप्
माहेश्वरी शक्तिभेदे शैवे माहेश्वरस्त्रिषु ।मितोदरी तु तन्वङ्ग्यां भे स्यान्मृगशिरः क्वचित् ॥
27.4.79 · p. 292
अनुष्टुप्
रथकारस्तु माहिष्यात्करणीजे च तक्षणि ।रागसूत्रं तुलासूत्रे पट्टसूत्रे नपुंसकम् ॥
27.4.80 · p. 292
अनुष्टुप्
रात्रिञ्चरो रात्रिचरश्चोभौ स्यातां च रक्षसि ।लम्बोदरं स्यादुद्धाने गणानामधिपे नरि ॥
27.4.81 · p. 292
अनुष्टुप्
लक्ष्मीपुत्रः कामदेवे तथैव च तुरङ्गमे ।लिपिकारो लेखके स्याद्धरण्यां स्याद्वसुन्धरा ॥
27.4.82 · p. 292
अनुष्टुप्
व्यवहारो द्रुभेदे स्यान्न्यायेऽपि च धनेऽपि च ।वक्रनक्रस्तु पिशुने तथैव शुकपक्षिणि ॥
27.4.83 · p. 292
अनुष्टुप्
अथ व्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः ।वटाङ्कुरस्तु नासीरे वटस्य च नवोद्भिदि ॥
27.4.84 · p. 292
अनुष्टुप्
वनेचरः किराते स्थाद्वत्से वत्सतरो मतः ।तथा स्त्रियां वत्सतरी षण्डे वर्षधरः स्मृतः ॥
27.4.85 · p. 292
अनुष्टुप्
वामाचारः कौ - - - - - - - - - - ।- - - - - - - - - - - - - - - - - ॥
27.4.86 · p. 292
metre not recognised
स्कन्दावारस्तु कटके शब्दविद्भिर्निगद्यते ।सांवत्सरो ज्योतिषिके सिन्दुवारस्तरौ क्वचित् ॥
27.4.87 · p. 292
अनुष्टुप्
स्थेयान् स्थिरतरः प्रोक्तः स्थिरदंष्ट्रो भुजङ्गमे ।वराहाकृतिविष्णौ च सूपकारस्तु पाचके ॥
27.4.88 · p. 292
अनुष्टुप्
सुचारित्रा तु सत्यां स्यात्सुकुमारं च कोमले ।तथा पुण्ड्राभिधानेक्षौ सुकुमारः सुपुत्रके ॥
27.4.89 · p. 293
अनुष्टुप्
कल्पवृक्षे सुरतरुः सूत्रधारः शचीपतौ ।नान्द्यनन्तरसञ्चारिपात्रशिल्पिप्रभेदयोः ॥
27.4.90 · p. 293
अनुष्टुप्
सुनासीरः शचीकान्ते शुनासीरवदीरितः ॥
27.4.91 · p. 293