All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
ठान्तवर्गः · ठचतुर्थम्
॥ इति ठतृतीयम् ॥
॥ अथ ठचतुर्थम् ॥
कालपृष्ठस्तु सारङ्गविशेषे कङ्कपक्षिणि ।कलविङ्के चित्रपृष्ठो निर्दिष्टः शब्दवेदिभिः ॥
12.4.3 · p. 95
अनुष्टुप्
जम्बीरे स्याद्दन्तशठः कपित्थे कर्मरङ्गके ।नागरङ्गेऽपि चाङ्गेर्यां भवेद्दन्तशठाऽपि च ॥
12.4.4 · p. 95
अनुष्टुप्
नीलकण्ठः शिवे केकिदात्यूहे खञ्जनेऽपि च ।पूतिकाष्ठं तु सरले मतं तद्देवदारुणि ॥
12.4.5 · p. 95
अनुष्टुप्
क्षीरकण्ठो बालके च तथैव च निरक्षरे ।
12.4.7 · p. 95