All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
धान्तवर्गः · धतृतीयम्
॥ इति धद्वितीयम् ॥
॥ अथ धतृतीयम् ॥
अवधिः सीम्नि काले स्यादवधाने बिले पुमान् ।समेऽंशकेस्यादर्धार्धमबद्धं स्यादनर्थके ॥
19.2.1 · p. 182
अनुष्टुप्
अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम् ।आनद्धं स्याद्बद्धमात्रे तथैव मुरजादिके ॥
19.2.2 · p. 183
अनुष्टुप्
आविद्धं वाच्यवज्ज्ञेयं कुटिले च पराहते ।आबन्धो दृढबन्धे स्यात्प्रेमालङ्कारयोरपि ॥
19.2.3 · p. 183
अनुष्टुप्
उत्सेधस्तूच्छ्रये काये क्लीबं संहननेऽपि च ।उपाधिर्धर्मचिन्तायां विभवेऽपि विशेषणे ॥
19.2.4 · p. 183
अनुष्टुप्
कुटुम्बव्यापृतेऽपि स्याद्दुपधिर्व्याजचक्रयोः ।कबन्धोऽस्त्री क्रियायुक्तेऽप्यपमूर्धकलेवरे ॥
19.2.5 · p. 183
अनुष्टुप्
क्लीबं जले पुंस्युदरे राहुरक्षोविशेषयोः ।दुर्विधस्तु खलेऽपि स्याद्दुर्गते वाच्यलिङ्गकः ॥
19.2.6 · p. 183
अनुष्टुप्
न्यग्रोधो व्यामवटयोः स्त्रियां शम्युपचित्रयोः ।मोहनाख्यौषधे चापि निरोधो नाशरोधयोः ॥
19.2.7 · p. 183
अनुष्टुप्
प्रसिद्धो भूषिते ख्याते प्रणिधिर्ना चरेऽर्थने ।मगधः स्याद्देशभेदे वाच्यवन्मगधोद्भवे ॥
19.2.9 · p. 183
अनुष्टुप्
मागधी तु कणायूथ्योः पुंसि जीरकबन्दिनोः ।तथा वैश्यात्क्षत्रियाजे विबुधो ज्ञे सुरेऽपि च ॥
19.2.10 · p. 183
अनुष्टुप्
वीवधो विवधश्चोभौ पर्याहारेऽध्वभारयोः ।विस्रब्धोऽनुत्कटेऽपि स्याद्गाढविश्वस्तयोरपि ॥
19.2.11 · p. 184
अनुष्टुप्
सन्नद्धो वर्मिते व्यूढे सम्बाधः सङ्कटे भगे ।सन्निधिस्तु पुमान्सन्निधानेऽपीन्द्रियगोचरे ॥
19.2.12 · p. 184
अनुष्टुप्
संसिद्धिः प्रकृतौ सिद्धौ मदोग्रायां स्त्रियामपि ।संरोधो रोधने क्षेपे समाधिर्ना समर्थने ॥
19.2.13 · p. 184
अनुष्टुप्
ध्याने वैरस्य नियमे काव्यस्य च गुणान्तरे ।सुगन्धिः स्यादिष्टगन्धे त्रिषु क्षीरे नपुंसकम् ॥
19.2.14 · p. 184
अनुष्टुप्