All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
यान्तवर्गः · यचतुर्थम्
॥ इति यतृतीयम् ॥
॥ अथ यचतुर्थम् ॥
भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः ।अवश्यायस्तु नीहारेऽप्यभिमानेऽपि कीर्तितः ॥
26.4.1 · p. 246
अनुष्टुप्
अन्तशय्या मृतौ भूमिशय्यायां पितृकानने ।अपसव्यं वाच्यलिङ्गं दक्षिणप्रतिकूलयोः ॥
26.4.2 · p. 247
अनुष्टुप्
अन्वाहार्यममाश्राद्धे मुखदक्षिणयोरपि ।अलिप्रियं वारिजे स्याद्रसाले स्यादलिप्रियः ॥
26.4.3 · p. 247
अनुष्टुप्
अविनेयस्तु दुर्वृत्तेऽवजयस्तु पराजये ।उपकार्या राजसद्मन्युपकारोचितेऽन्यवत् ॥
26.4.5 · p. 247
अनुष्टुप्
तृणशून्यं मल्लिकायां तथा स्यात्केतकीफले ।धनञ्जयोऽर्जुने चाग्निनागभिद्देहमारुते ॥
26.4.7 · p. 247
अनुष्टुप्
निरामयस्तु नीरोगे त्रिषु स्यादिडिक्के पुमान् ।परिधायो जलस्थाने परिच्छेदनितम्बयोः ॥
26.4.8 · p. 247
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 डि (wrong syllable)
प्रतिश्रयः सभायां स्यादाश्रयेऽपि परिश्रयः ।परिसङ्ख्या तु सङ्ख्याने विधावपि निवर्तके ॥
26.4.9 · p. 247
अनुष्टुप्
प्रतिभयं भये घोरे पाञ्चजन्योऽग्निशङ्खयोः ।प्रावृड्भवे प्रावृषेण्यं नीपे तु स्यात्पुमानयम् ॥
26.4.10 · p. 247
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 भ (wrong syllable)
पूर्वकायस्तूर्ध्वदेहे गदितः शब्दवेदिभिः ।पौरुषेयो विक्रमेऽपि विकारे पुरुषस्य च ॥
26.4.11 · p. 247
अनुष्टुप्
त्रिषु ना सङ्घवधयोः पुरुषस्य पदान्तरे ।फलोदयस्तु लाभे स्यादपि स्वर्गे फलोदयः ॥
26.4.12 · p. 248
अनुष्टुप्
भागधेयं तु भाग्ये स्याद्भागप्रत्यययोरपि ।महालयो विहारे स्याद्भाद्रपक्षेऽपरेऽपि च ॥
26.4.13 · p. 248
अनुष्टुप्
महालयं तीर्थभेदे पुमांस्तु परमात्मनि ।महोदयः कान्यकुब्जे चाधिपत्यापवर्गयोः ॥
26.4.14 · p. 248
अनुष्टुप्
महामूल्यं महार्घेऽपि रत्नेऽपि च नपुंसकम् ।मार्जारीयोऽङ्गसंशुद्धौ तथा मार्जारसङ्गते ॥
26.4.15 · p. 248
अनुष्टुप्
मार्जारीयः पुमाञ्शूद्रे बिडाले कायशोधने ।रौहिणेयोऽन्यवद्वत्से ना बुधे च हलायुधे ॥
26.4.16 · p. 248
अनुष्टुप्
बिलेशयस्तु भुजगे मूषकेऽपि च कथ्यते ।वैनतेयो विष्णुरथेऽप्यरुणेऽपि प्रकीर्तितः ॥
26.4.17 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
सम्परायस्तु विपदि समीकोत्तरकालयोः ।समाह्वयस्तु पशुभिः खगैर्द्यूते च सङ्गरे ॥
26.4.18 · p. 248
अनुष्टुप्
समुदायः स्मृतः सङ्घे सङ्गरेऽपि समुद्गमे ।समुच्छ्रयस्तु गदितो विरोधोत्सेधयोरपि ॥
26.4.19 · p. 248
अनुष्टुप्
सुखोदयस्तु चामद्यभेदे पक्वेक्षुजे रसे ।स्थूलोच्चयो गण्डशैले गजानां मध्यमे गते ॥
26.4.20 · p. 248
अनुष्टुप्
असाकल्ये वरण्डेऽपि शक्रे हरिहयः स्मृतः ।हिरण्मयः सुरश्रेष्ठे हिरण्यविकृतावपि ॥
26.4.21 · p. 248
अनुष्टुप्