कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

क्षान्तवर्गः · क्षद्वितीयम्

॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये हान्तवर्गः समाप्तः ॥

॥ अथ क्षान्तवर्गः ॥

अक्षः पाशे च रुद्राक्षे सर्पे कर्षे च चक्रके ।अक्षो ज्ञातार्थशकटव्यवहारे च गद्यते ॥
34.1.1 · p. 345
अनुष्टुप्
आत्मनि च तथैवाक्षं तुत्थे सौवर्चलेन्द्रिये ।ऋक्षो महीधरे चापि भल्लूके शोणकेऽपि च ॥
34.1.2 · p. 345
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)
कृतवेधे वाच्यलिङ्गं नक्षत्रे तु नपुंसकम् ।कक्षा स्यादुत्तरीयस्य पश्चादञ्चलपल्लवे ॥
34.1.3 · p. 345
अनुष्टुप्
स्पर्द्धापदे च दोर्मूले कच्छवीरुत्तृणेऽपि च ।कक्षोऽम्राहिणिकाऽकाञ्चीप्रकोष्ठगजरज्जुषु ॥
34.1.4 · p. 345
अनुष्टुप्
रथभागेऽपि काङ्क्ष्यः स्याद्वीक्ष्यविस्मयदृश्ययोः ।काक्षी तुवरिकायां स्यात्सौराष्ट्रमृदि च स्त्रियाम् ॥
34.1.5 · p. 345
अनुष्टुप्
दक्षः पटौ हरवृषे कुक्कुटे च प्रजापतौ ।मुनिभेदे द्रुमेऽप्यग्नौ दक्षा भुवि मता स्त्रियाम् ॥
34.1.6 · p. 345
अनुष्टुप्
ध्वाङ्क्षी कक्कोलिकायां स्याद्ध्वाङ्क्षः काके बकेऽर्थिनि ।ध्वाङ्क्षं कार्त्स्न्ये तृणेऽपि स्यात्तर्कके भिक्षुके गृहे ॥
34.1.7 · p. 345
अनुष्टुप्
न्यक्षः परशुरामे स्यान्न्यूक्षः कार्त्स्न्यनिकृष्टयोः ।प्लक्षेा वृक्षे गर्दभाण्डद्वीपभित्कुञ्जराशने ॥
34.1.8 · p. 345
अनुष्टुप्metre not read in every lineimpossible sign sequence: प्लक्षेा वृक्षnearly अनुष्टुप्
पक्षो मासार्द्धके गेहपार्श्वसाध्यविरोधयोः ।केशादेः परतो वृन्दे बले सखिसहाययोः ॥
34.1.9 · p. 345
अनुष्टुप्
पतत्रे चुल्लिरन्ध्रे च तथा स्याद्राजकुञ्जरे ।प्रेक्षा नृत्येक्षणे बुद्धौ भिक्षा तु भृतिसेवयोः ॥
34.1.10 · p. 346
अनुष्टुप्
याच्ञायां भिक्षिते वस्तुन्यपि भिक्षा निगद्यते ।मोक्षस्तु मुष्कवृक्षे (स्यान्मृतौ) मुक्तावपीर्यते ॥
34.1.11 · p. 346
अनुष्टुप्metre not read in every line
यक्षो गुह्यकमात्रेऽपि गुह्यकाधीश्वरेऽपि च ।रौक्षं गीते शुचौ दक्षे तथा तीक्ष्णमनोज्ञयोः ॥
34.1.12 · p. 346
अनुष्टुप्
शरव्यव्याजयोर्लक्षं रक्षा रक्षणलाक्षयोः ।
34.1.13 · p. 346