कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

लान्तवर्गः · लचतुर्थम्

॥ इति लतृतीयम्‌ ॥

॥ अथ लचतुर्थम्‌ ॥

मुनेर्भेदे त्वपिशलो यथा चाऽऽपिशलिर्मतः ।अक्षमालाऽक्षसूत्रे स्यादरुन्धत्यामपीष्यते ॥
28.4.1 · p. 311
अनुष्टुप्
प्रबले स्यादतिबलः स्त्रियामोषधिभिद्यपि ।अङ्कपाली परीरम्भे धात्रीवेदिकयोः स्त्रियाम् ॥
28.4.2 · p. 311
अनुष्टुप्
उदूखलं (गु)ग्गुलौ स्यादुलूखलेऽपि न द्वयोः ।एकाष्ठीलो बुकपुष्पे वनतिक्तौषधौ स्त्रियाम् ॥
28.4.3 · p. 311
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 क (wrong syllable)
कोलाहले कलकलस्तथा सर्जरसेऽपि च ।मतं कर्मफलं कर्मविपाके कर्मरङ्गके ॥
28.4.4 · p. 311
अनुष्टुप्
कन्दरालः (प्लक्ष)तरौ गर्दभाण्डेऽपि सम्मतः ।कमण्डलुस्तु करके पर्कटीपादपेऽपि च ॥
28.4.5 · p. 312
अनुष्टुप्metre not read in every line
कुजम्भलो निगदितस्तस्करे शब्दवेदिभिः ।तथा क्रोशध्वनौ क्रोशतालोऽपि गदितो बुधैः ॥
28.4.6 · p. 312
अनुष्टुप्
कुतूहलं कौतुके स्यात्प्रशस्तेऽपि तु वाच्यवत् ।खतमालस्तु मेघे स्यादपि धूमे निगद्यते ॥
28.4.7 · p. 312
अनुष्टुप्
गन्धफल्यपि गुन्द्रायां चम्पकस्य च कोरके ।गण्डशैलो ललाटे स्याच्च्युते स्थूलोपले गिरेः ॥
28.4.8 · p. 312
अनुष्टुप्
घनवल्ली निगदिता सौदामिन्यां विशारदैः ।चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले ॥
28.4.9 · p. 312
अनुष्टुप्
चतुःशालं सभागेहे प्रवदन्ति मनीषिणः ।जलाञ्चलं स्वतोवारिनिर्गमे शैवलेऽपि च ॥
28.4.10 · p. 312
अनुष्टुप्
जयज्वाली निगदितो दीपे शब्दज्ञशेखरैः ।त्वक्शाल्मली तु रम्भायां तृणसारा यथा भवेत् ॥
28.4.11 · p. 312
अनुष्टुप्
दलामलं मरुबके दमनेऽपि नपुंसकम् ।ध्वनिनाला तु वीणायां वेणुकाहलयोरपि ॥
28.4.12 · p. 312
अनुष्टुप्
परिमलो विमर्देऽपि स्यान्मनोहरगन्धवत् ।(सु)रतोपमर्द्दविकसद्देहरागादिसौरभे ॥
28.4.13 · p. 312
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
भवेत्पोटगलश्चापि नले च काशमीनयोः ।भवेद्बहुफलाभिख्या मलयूनिपवृक्षयोः ॥
28.4.14 · p. 312
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
भस्मतूलं ग्रामकूटे पांशुवर्षे हिमेऽपि च ।भद्रकाली तु गन्धोलीकात्यायन्योरपि स्त्रियाम् ॥
28.4.15 · p. 313
अनुष्टुप्
भम्भराली मक्षिकायामित्याहुः शब्दकोविदाः ।महाकालो महादेवे किम्पाके प्रमथान्तरे ॥
28.4.16 · p. 313
अनुष्टुप्
मदकलो भवेन्मत्तेभम(दा)व्यक्तवाचिनोः ।महाबला बलायां स्यात्सीसके तु नपुंसकम् ॥
28.4.17 · p. 313
अनुष्टुप्metre not read in every line
बलोत्कटे वाच्यलिङ्गो मणिमाला निगद्यते ।दन्तक्षतान्तरे हारे महानीलो मणेर्भिदि ॥
28.4.18 · p. 313
अनुष्टुप्
तथैव स्याद्भृङ्गराजे क्वचिन्नागेऽपि गद्यते ।मुक्ताफलं तु कर्पूरे मौक्तिके लवलीफले ॥
28.4.19 · p. 313
अनुष्टुप्
कदल्यां स्यान्मृत्युफला महाकालफले पुमान् ।भवेद्यवफलो वेणौ मांसीकुटजयोरपि ॥
28.4.20 · p. 313
अनुष्टुप्
रक्तोपलं गैरिके तु वदन्ति मतिमज्जनाः ।रजस्वला पुष्पवत्यां सौरभे तु रजस्वलः ॥
28.4.21 · p. 313
अनुष्टुप्
लोकपालो महेन्द्रेऽपि मतो भूमिपतावपि ।लम्बनालस्तु जलजे वनमाली तु शार्ङ्गिणि ॥
28.4.22 · p. 313
अनुष्टुप्
वातकेलिः कलालापे षिड्गदन्तक्षते पुमान् ।शक्रचापे वातफलं तथैव जलदोपले ॥
28.4.23 · p. 313
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
भवेद्विचकिलो मल्लीद्रुभेदे मदनेऽपि च ।वृहन्नला गुडाकेशे महापोटगले पुमान् ॥
28.4.24 · p. 313
अनुष्टुप्
सदाफलः स्कन्दफले नारिकेलेऽप्युदुम्बरे ।यः शिवायतनोत्सृष्टो मतः सन्ध्याबलिर्वृषः ॥
28.4.25 · p. 314
अनुष्टुप्
सिनीवाली तु दृष्टेन्दुकलाऽमादुर्गयोः स्त्रियाम् ।अवन्तिसोमे गदितं बुधैः सिद्धजलं त्विति ॥
28.4.26 · p. 314
अनुष्टुप्
अथ सौवर्चलं सर्जक्षारे च लवणान्तरे ।हस्तिमल्लोऽभ्रमातङ्गे शङ्खनागे विनायके ॥
28.4.27 · p. 314
अनुष्टुप्
हरितालं धातुभेदे स्त्री दूर्वाकाशरेखयोः ।हलाहलो ब्रह्मसर्पे ज्येष्ठिकायां विषेऽस्त्रियाम् ॥
28.4.28 · p. 314
अनुष्टुप्
हालाहलो विषे कीटे हयलाला हयोरगे ॥
28.4.29 · p. 314