All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
चान्तवर्गः · चतृतीयम्
॥ इति चद्वितीयम् ॥
॥ अथ चतृतीयम् ॥
अवाची तु प्रतीच्यां स्यादरुचिः स्याद्गदान्तरे ।अरुचस्तु बिडाले स्यादवीचिर्नरकान्तरे ॥
6.3.1 · p. 72
अनुष्टुप्
आनर्चिः स्याद्देशभेदे स्यादुदर्चिर्हुताशने ।उदीची दिग्विभेदे स्यादौदीच्यं तद्भवे त्रिषु ॥
6.3.2 · p. 72
अनुष्टुप्
क्रकचः करपत्रेऽपि ग्रन्थिलाख्यतरावपि ।नमुचिस्तु स्मृतो दैत्यभेदे कुसुमकामुके ॥
6.3.4 · p. 72
अनुष्टुप्
नाराच्येषणिकायां स्याल्लोहबाणाम्बुहस्तिनोः ।प्रपञ्चः स्यात्तु विस्तारे संश(च)येऽपि प्रतारणे ॥
6.3.5 · p. 73
अनुष्टुप्
मरीचं तत्प्रसूने स्यान्मरीचं तूषणे मतम् ।मरीचिर्मुनिभेदे ना गभस्तावनपुंसकम् ॥
6.3.6 · p. 73
अनुष्टुप्
मारीचः स्यात्तु कल्लोले राक्षसे याजकद्विजे ।मारीची देवताभेदे विपञ्ची केलिवीणयोः ॥
6.3.7 · p. 73
अनुष्टुप्
विरिञ्चश्च विरिञ्चिश्च वैकुण्ठे परमेष्ठिनि ।विकचः क्षपणे केतौ नाऽकेशे स्फुटितेऽपि च ॥
6.3.8 · p. 73
अनुष्टुप्
सङ्कोचः स्यान्मीनभेदे बन्धे क्लीबं तु कुङ्कुमे ।सप्तार्चिर्भास्करे वह्नौ सप्तार्चिस्तु शनैश्चरे ॥
6.3.9 · p. 73
अनुष्टुप्