All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
गान्तवर्गः · गचतुर्थम्
॥ इति गतृतीयम् ॥
॥ अथ गचतुर्थम् ॥
अपवर्गस्तु मोक्षे स्यात्त्यागकार्यावसानयोः ।साफल्ये चाभिषङ्गस्तु शपथाक्रोशयोरपि ॥
3.4.1 · p. 67
अनुष्टुप्
उपरागो निगदितो राहुग्रासेऽर्कचन्द्रयोः ।दुर्नये ग्रहकल्लोले व्यसनेऽपि च गद्यते ॥
3.4.4 · p. 67
अनुष्टुप्
हस्तच्छेदेऽपि सस्यानां चन्द्रभागा नदीभिदि ।चन्द्रभागी च गदिता, छत्रभङ्गस्तु गद्यते ॥
3.4.6 · p. 67
अनुष्टुप्
वैधव्ये वनितानां तु स्वातन्त्र्यनृपनाशयोः ।दीर्घाध्वगस्तु करभे तथा लेखवहेऽपि च ॥
3.4.7 · p. 67
अनुष्टुप्
पृष्ठशृङ्गी पुमान् दंशभीरौ क्लीबे पृथूदरे ।मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि ॥
3.4.8 · p. 67
अनुष्टुप्
मातुलुङ्गो बीजपूरे मातुलिङ्गश्च कथ्यते ।लोहिताङ्गो भूमिपुत्रे क्लीबे तु स्यात्प्रवालके ॥
3.4.9 · p. 67
अनुष्टुप्
समायोगस्तु संयोगे समवाये प्रयोजने ।संप्रयोगस्तु सुरते कार्मणेऽप्यन्वितेऽपि च ॥
3.4.10 · p. 68
अनुष्टुप्
संप्रयोगी क्रियाकेलौ कामुके सप्रयोजने ।
3.4.11 · p. 68