कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

यान्तवर्गः · यपञ्चमम्

॥ इति यचतुर्थम्‌ ॥

॥ अथ यपञ्चमम्‌ ॥

अन्तावसायी श्वपचे मुनिभेदे च नापिते ।कडङ्गरीयो बुसभुग्वृषादौ परिकीर्तितः ॥
26.5.1 · p. 249
अनुष्टुप्
कालानुसार्यं शैलेये कालीये शिंशपाद्रुमे ।क्षीरतालीयमित्युक्तं दुग्धाम्रक्षीरफेनयोः ॥
26.5.2 · p. 249
अनुष्टुप्
ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्वजम् ।अथ प्रवचनीयं तु स्यात्प्रवक्तृप्रवाच्ययोः ॥
26.5.3 · p. 249
अनुष्टुप्
वृषाकपायी श्रीगौरीवरीजीवन्तिकास्वपि ॥
26.5.4 · p. 249