All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
वान्तवर्गः · वैकम्
॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये लान्तवर्गः ॥
॥ अथ वान्तवर्गः ॥
वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् ।स्वं ज्ञातावात्मधनयोरात्मीये च प्रचक्षते ॥
29.1.1 · p. 315
अनुष्टुप्
गन्धने वं तु सन्ताने पुंसि वः पवने मतः ।वा समुच्चय उद्दिष्टं विकल्पोत्प्रेक्षयोरपि ॥
29.1.2 · p. 315
अनुष्टुप्