कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

कान्तवर्गः · कतृतीयम् (2/3)

बैडालिके दाम्भिकः स्याद्दात्रकं काष्ठदारणे ।दीपकं वागलङ्कारे वाच्यवद्दीप्तिकारके ॥
1.3.121 · p. 18
अनुष्टुप्
दीप्यकञ्चाजमोदायां यवानीबर्हिचूडयोः ।दीर्घिकाऽऽख्या पुष्करिण्यां तूलिकायां तु दूषिका ॥
1.3.122 · p. 18
अनुष्टुप्
तथा स्याल्लोचनमले गन्धकुट्यां तु दुच्छकः ।विहाराद्यवकाशेऽपि दूषकस्तु विदूषके ॥
1.3.123 · p. 19
अनुष्टुप्
देवको भूपभेदेऽपि देवकी कृष्णमातरि ।दैहिकं देहसम्बद्धे देशिकस्तूपदेष्टरि ॥
1.3.124 · p. 19
अनुष्टुप्
दोलिका डोलिकायां स्याद्दोरकः सूत्रमात्रके ।धनिका स्यात्तु धन्याके धनिको धनवत्यपि ॥
1.3.125 · p. 19
अनुष्टुप्
धान्यकं धान्यमात्रे स्याद्धार्मिको धर्मचारिणि ।धातकी तरुभेदे स्याद्धानुष्कस्तु धनुर्धरे ॥
1.3.126 · p. 19
अनुष्टुप्
ध्रुवकस्तु मतः स्थाणौ गणिताङ्गे क्वचिन्मतः ।धेनुका तु करिण्यां स्याद्धेनुको दानवान्तरे ॥
1.3.127 · p. 19
अनुष्टुप्
धेनुकं करणे स्त्रीणां धेनुसङ्घेऽपि तन्मतम् ।नर्तकः स्यात्पोटगले केलके चारणे नटे ॥
1.3.128 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पो (wrong syllable)
नर्तकी तु करेण्वां स्याल्लासिकायां च योषिति ।नग्नकः क्षपणे नग्ने बाले नग्नक ईरितः ॥
1.3.129 · p. 19
अनुष्टुप्
नग्निका च कुमार्यां स्यान्नक्तकः कर्पटे मतः ।नन्दकः स्याद्विष्णुखड्गे हर्षके कुलपालके ॥
1.3.130 · p. 19
अनुष्टुप्
नरको निरयेऽपि स्यादसुरेऽपि क्वचिन्मतः ।नगौकाः पक्षिमात्रेऽपि नलिका सान्तरेऽस्थिनि ॥
1.3.131 · p. 19
अनुष्टुप्
निरये नारकोऽपि स्यान्नारको निरयस्थिते ।नारकं निरयोद्भूते नास्तिको वेदनिन्दके ॥
1.3.132 · p. 19
अनुष्टुप्
नालीकमब्जे बाणे ना तथा शल्याज्ञयोरपि ।नाशकस्त्वन्तके रोगे शाकभेदे तु नालिका ॥
1.3.133 · p. 20
अनुष्टुप्
नाडिका कालमानेऽपि कण्डरायां च नाडिका ।नायको नेतरि प्रोक्तो हारमध्यमणावपि ॥
1.3.134 · p. 20
अनुष्टुप्
नीलिका नीलिनीक्षुद्ररोगसेफालिकासु च ।निर्मोको मोचने व्योम्नि तथा च फणिकञ्चुके ॥
1.3.135 · p. 20
अनुष्टुप्
निरोका भिक्षुमात्रेऽपि निन्दकस्त्वपवादके ।रूप्याध्यक्षो नैष्किकः स्यान्नोदकः प्रेरके मतः ॥
1.3.136 · p. 20
अनुष्टुप्
पराकस्तु व्रते खड्गे प्रसेकः सेचने च्युतौ ।पद्मकं पद्मकाष्ठेभबिन्दुजालकयोर्मतम् ॥
1.3.137 · p. 20
अनुष्टुप्
पक्षकः पार्श्वमात्रेऽपि पक्षद्वारे च मंमतः ।पताका वैजयन्त्यां स्यात्सौभाग्येऽङ्गध्वजेऽपि च ॥
1.3.138 · p. 20
अनुष्टुप्
पर्यङ्को मञ्चके प्रोक्तः पल्यङ्कोऽपि निगद्यते ।प्रतिकूले प्रतीकः स्यात्तथाऽवयवमात्रके ॥
1.3.139 · p. 20
अनुष्टुप्
पर्शुकस्त्वायुधभिदि पर्शुका पार्श्वकीकसे ।प्राणको जीवकतरौ पार्श्वकः सन्धिजीविनि ॥
1.3.140 · p. 20
अनुष्टुप्
पाशकः प्रासकश्चाक्षे प्रासिकः कुन्तयोधिनि ।पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके ॥
1.3.141 · p. 20
अनुष्टुप्
भल्लातके विडङ्गे च पातुको जलहस्तिनि ।पतयालौ प्रपाते च पातुकस्त्वभिधीयते ॥
1.3.142 · p. 20
अनुष्टुप्
पादुका पादरक्षिण्यां पालयित्र्यां तु पालिका ।पालङ्कः स्याच्छाकभेदे पाटको वाद्यभिद्यपि ॥
1.3.143 · p. 21
अनुष्टुप्
पाटकश्च महाकिष्कौ तथा स्यात्कटकान्तरे ।अक्षादिचालने मूलद्रव्यापचयरोधसोः ॥
1.3.144 · p. 21
अनुष्टुप्
पिण्याकस्तिलकल्के स्याद् हिङ्गुबाल्हीकसिल्हके ।पीतको वर्णभेदे स्यात् पिनाको रुद्रधन्वनि ॥
1.3.145 · p. 21
अनुष्टुप्
मञ्जूषायां तु पिटको विस्फोटे पिटको मतः ।पिण्डकः सिल्हके प्रोक्तः पिण्डिकाऽवयवान्तरे ॥
1.3.146 · p. 21
अनुष्टुप्
पिष्टको घृतपूपे स्यान्नेत्ररोगे च गद्यते ।प्रियकः पीतसाले स्यात्प्रियकश्चामिते मृगे ॥
1.3.147 · p. 21
अनुष्टुप्
पुलाकः स्यात्तुच्छधान्ये सङ्क्षेपे भक्तसिक्थके ।पुलकः कृमिभेदेऽश्मभेदे च मणिदूषणे ॥
1.3.148 · p. 21
अनुष्टुप्
गजान्नपिण्डे गन्धर्वे रोमाञ्चहरितालयोः ।पुष्पकं रीतिकानेत्ररोगयो रत्नकम्बले(ङ्कणे ?) ॥
1.3.149 · p. 21
अनुष्टुप्
कुबेरस्यापि याने स्यात्कासीसे च रसाञ्जने ।लोहकांस्यमृदङ्गारशकट्यामपि पुष्पकम् ॥
1.3.150 · p. 21
अनुष्टुप्
स्वर्णचूडे पूर्णकः स्यान्नासाछित्त्यां तु पूर्णिका ।पूलिका पूपिका चापि पोलिकायामुभौ मतौ ॥
1.3.151 · p. 21
अनुष्टुप्
पुत्रिका तु स्त्र्यपत्ये स्यात्पुत्रिका शालभञ्जिका ।पुत्रकः पुमपत्येऽपि तथा मन्थनसाधने(?) ॥
1.3.152 · p. 21
अनुष्टुप्
तथैव शरभे धूर्ते शैलवृक्षप्रभेदयोः ।रोमोद्गमे तु पुलकः पुण्यकं तु व्रतान्तरे ॥
1.3.153 · p. 22
अनुष्टुप्
पुष्पिका स्याल्लिङ्गमले पुण्ड्रकस्त्वतिमुक्तके ।पुस्तकं लेखपत्रे स्यात्पृदाकुर्वृश्चिकेऽप्यहौ ॥
1.3.154 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्लि (wrong syllable)
पृदाकुश्चित्रकतरौ व्याघ्रेऽपि च निगद्यते ।पृषत्कस्तु खगे बाणे पृथुकश्चिपिटेऽर्भके ॥
1.3.155 · p. 22
अनुष्टुप्
प्रेरकः प्रेषकश्चोभौ कथितौ तु नियोजके ।पेचकः करिलाङ्गूले मूलोपान्ते च कौशिके ॥
1.3.156 · p. 22
अनुष्टुप्
मञ्जूषायां कदम्बे तु वस्त्राधारे च पेटकः ।पोलिकाऽपूपभेदे स्याद् बाह्यारामे तु पौरकः ॥
1.3.157 · p. 22
अनुष्टुप्
फञ्जिका स्याच्छाकभेदे फलकं काष्ठपट्टके ।फलकी मत्स्यभेदे स्याद्वाच्यवत्फलकान्विते ॥
1.3.158 · p. 22
अनुष्टुप्
बन्धूकं बन्धुजीवे स्यात्सम्बन्धिनि तु बन्धुकः ।बन्धूकः पीतशाले च स्यात्साक्षिणि तु बन्धकः ॥
1.3.159 · p. 22
अनुष्टुप्
बन्धकं स्याद्विनिमये पुंश्चल्यामपि बन्धकी ।बालिका कर्णभूषायां बालायां बालकः शिशौ ॥
1.3.160 · p. 22
अनुष्टुप्
मूर्खे च बाधकः शत्रौ प्रतिकूले तु बाधकम् ।बाष्पिका त्वौषधिभिदि नेत्रसारे च बाष्पकम् ॥
1.3.161 · p. 22
अनुष्टुप्
बहुकः कर्कटेऽर्के च दात्यूहे जलखातके ।बैजिकं शिग्रुतैले स्याद्बैम्बिको बिम्बजीविनि ॥
1.3.162 · p. 22
अनुष्टुप्
वैतालिके बोधकः स्यात्कालज्ञानिनि बोधकः ।भस्मकं स्याद्रोगभेदे भसिते भस्मकं मतम् ॥
1.3.163 · p. 23
अनुष्टुप्
वार्ताक्यां त्वथ भण्टाकी भण्डको हास्यकारिणि ।भविकं भावुकं भव्ये भावुको भगिनीपतौ ॥
1.3.164 · p. 23
अनुष्टुप्
भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते ।कच्छपे पुरुषश्रेष्ठे तथा स्मरहरेऽपि च ॥
1.3.165 · p. 23
अनुष्टुप्
सूर्यावर्ताश्मभेदेऽपि जम्बुके भ्रामको मतः ।विषे च भ्रामकं प्रोक्तं भारिको भारहारिणि ॥
1.3.166 · p. 23
अनुष्टुप्
नृपान्तरे भीमकः स्याद्भीरौ भीरुकभीलुकौ ।यतिक्षपणयोः प्रोक्तो भिक्षुको भैक्षहारिणि ॥
1.3.167 · p. 23
अनुष्टुप्
नृपान्तरे भीष्मकः स्याद्भीषको भयदर्शके ।भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे ॥
1.3.168 · p. 23
अनुष्टुप्
भूतीकमपि भूनिम्बदीप्यकर्पूरकत्तृणे ।भौरिकः कनकाध्यक्षे भौतिकं भूतनिर्मिते ॥
1.3.169 · p. 23
अनुष्टुप्
अलिञ्जरे तु मणिको महिकामिहिके हिमे ।मरकः स्यान्महामार्यां मायिकः कुहके मतः ॥
1.3.170 · p. 23
अनुष्टुप्
उदुम्बरे तु मशकी मशकः सूक्ष्मजन्तुके ।रोगभेदे च मशको मधुको विहगान्तरे ॥
1.3.171 · p. 23
अनुष्टुप्
मधुका मधुपर्ण्यां स्यान्मधुकस्तु मधुद्रुमे ।क्लीतके मधुकं प्राहुर्मधुकं त्वौषधान्तरे ॥
1.3.172 · p. 23
अनुष्टुप्
मण्डूकं बन्धभेदे च मण्डूको दर्दुरे मतः ।मण्डूकपर्ण्यां मण्डूकी मल्लिका पानभाजने ॥
1.3.173 · p. 24
अनुष्टुप्
मल्लिको हंसभेदेऽपि तृणशून्येऽपि मल्लिका ।मीने मृत्पात्रभेदेऽपि मस्तिष्कं मस्तुलुङ्गके ॥
1.3.174 · p. 24
अनुष्टुप्
मन्दार्को वृक्षभेदे स्याद्वर्षाकालेऽप्युदीरितः ।मातृका धातृकामात्रोर्देवीभिद्वर्णमालयोः ॥
1.3.175 · p. 24
अनुष्टुप्
मामकं तु मदीये स्यान्मामकः स्यात्तु मातुले ।मालिकः पक्षिणि ग्रीवालङ्कृतौ सरिदन्तरे ॥
1.3.176 · p. 24
अनुष्टुप्
सप्तलायां च मालायां पुष्पाणां मालिका मता ।मासिकं श्राद्धभेदेऽपि भृत्यर्थे मासिको मतः ॥
1.3.177 · p. 24
अनुष्टुप्
मालकः स्यादरिष्ठे तु माक्षिकं मधुनि स्मृतम् ।मुण्डकः स्यात्तु ग्रामण्यां मूलकं पर्णमूलके ॥
1.3.178 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्तु (wrong syllable)
मृद्वीका हारहूरायां मेचकः शिखिचन्द्रके ।स्रोतोऽञ्जनेऽन्धकारे च श्यामले च निगद्यते ॥
1.3.179 · p. 24
अनुष्टुप्
मेनका हिमवत्पत्न्यामपि स्यादप्सरोभिदि ।बहूनामथ सङ्घे तु मेलकः परिकीर्तितः ॥
1.3.180 · p. 24
अनुष्टुप्
मोदको हर्षजनके खाद्यभेदे तु मोदकम् ।मोचकः कदलीशिग्रुनिर्मोचकविरागिषु ॥
1.3.181 · p. 24
अनुष्टुप्
यमकं यमजे शब्दालङ्कारे संयमेऽपि च ।याजकस्तु गजे राज्ञो यज्वन्यप्यथ याज्ञिकः ॥
1.3.182 · p. 24
अनुष्टुप्
याजके च कुथे चापि शब्दवेदिभिरीरितः ।याचको मार्गणे प्रोक्तो यवान्नेऽपि तु यावकः ॥
1.3.183 · p. 25
अनुष्टुप्
याष्टीकः स्याद्यष्टिधरे युतकं संशये युगे ।यूथिकाऽम्लानके पुष्पे द्रुमभेदेऽपि यूथिका ॥
1.3.184 · p. 25
अनुष्टुप्
यौतकं युतयोर्देये स्त्रीवस्त्राञ्जलयुक्तयोः ।रजको धावके कीरे रसिको रसवत्यपि ॥
1.3.185 · p. 25
अनुष्टुप्
रसालेऽपि रसालायां काञ्चीरसनयोः स्त्रियाम् ।रक्ताङ्कोऽथ प्रवाले स्याद्रक्तिका स्वर्णमानके ॥
1.3.186 · p. 25
अनुष्टुप्
रक्तकोऽम्लानबन्धूकरक्तवस्त्रानुरागिषु ।रल्लकः कम्बले ख्यातो रसकः क्वाथधातुनि ॥
1.3.187 · p. 25
अनुष्टुप्
येन वेश्यागृहे नीतो वत्सरस्तत्र रात्रकः ।क्लीबं स्यात्पञ्चरात्रे तद्राजसङ्घे तु राजकम् ॥
1.3.188 · p. 25
अनुष्टुप्
राजिकाऽपि च केदारे राजसर्षपरेखयोः ।रीढकः पृष्ठवंशे स्याद्रीढकोऽप्यपमानकृत् ॥
1.3.189 · p. 25
अनुष्टुप्
रुचकः स्यादथैरण्डे रुचकं लवणे तथा ।रुचको बीजपूरद्रौ निष्के दन्तकपोतयोः ॥
1.3.190 · p. 25
अनुष्टुप्
न द्वयोः सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः ।सौवर्चलेऽपि माङ्गल्यद्रव्ये चाप्युत्कटेऽपि च ॥
1.3.191 · p. 25
अनुष्टुप्
रुचिकस्तु ऋषेर्भेदे रुचिकश्च नृपे क्वचित् ।रुण्डिका द्वारपिण्ड्यां च दूतिकायां रणक्षितौ ॥
1.3.192 · p. 25
अनुष्टुप्
रूपकं नाटके मूर्ते काव्यालङ्करणेऽपि च ।रेणुका च हरेणौ च जामदग्न्यस्य मातरि ॥
1.3.193 · p. 26
अनुष्टुप्
रेचकस्त्वौषधभिदि प्राणसंयमनेऽपि च ।लक्षकः स्यात्सूक्ष्मदृशि लम्बमाने तु लम्बकः ॥
1.3.194 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सू (wrong syllable)
योगान्तरे लम्बिका स्याद्धनुर्मध्ये तु लस्तकः ।लतार्कस्तु पलाण्डौ स्याद्वल्लर्यां लतिका मता ॥
1.3.195 · p. 26
अनुष्टुप्
लम्पाको लम्पटे देशे भुजिष्यायां तु लञ्जिका ।लग्नकस्तु प्रतिभुवि मतं नृत्ये तु लास्यकम् ॥
1.3.196 · p. 26
अनुष्टुप्
लासको लसके लास्यकारिण्यपि मयूरके ।पक्षिभेदे लावकः स्यात्तथा लवनकर्तरि ॥
1.3.197 · p. 26
अनुष्टुप्
लुब्धकस्तु मतो व्याधे लुञ्चकः क्षपणे स्मृतः ।लूणको भिदितपशौ लूचकं तूपनेत्रके ॥
1.3.198 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भि (wrong syllable)
लेखकः स्याल्लेखनके लेपकः परिमार्जके ।लेण्डकं तु पुरीषे स्याल्लोणिका त्वौषधान्तरे ॥
1.3.199 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्ले (wrong syllable)
लोचको मांसपिण्डेऽक्षितारकायां च कज्जले ।ललाटाभरणे स्त्रीणां कदलीनीलवस्त्रयोः ॥
1.3.200 · p. 26
अनुष्टुप्
निर्बुद्धौ कर्णपूरे च मौर्व्यां भ्रूश्लथचर्मणि ।मृगान्तरे लोहकः स्याल्लोध्रकं त्वौषधान्तरे ॥
1.3.201 · p. 26
अनुष्टुप्
वरको वनमुद्गे स्यात्कुटजे वत्सको मतः ।भक्ष्यभेदे तु वटको वीणायां वल्लकीं विदुः ॥
1.3.202 · p. 26
अनुष्टुप्
वर्चस्कं तु पुरीषे स्याद्वर्धकिः काष्ठतक्षके ।व्यलीकमप्रियाकार्यवैलक्ष्येष्वतिपीडने ॥
1.3.203 · p. 27
अनुष्टुप्
व्यलीको नागरे प्रोक्तः पुंसि शब्दार्थवेदिभिः ।वञ्चकस्तु खले धूर्ते गृहबभ्रौ च जम्बुके ॥
1.3.204 · p. 27
अनुष्टुप्
वराकः सङ्गरे शोच्ये शङ्करेऽपि निगद्यते ।व्यञ्जकः स्यादभिनये व्यञ्जकः कार्यसूचके ॥
1.3.205 · p. 27
अनुष्टुप्
वसुकं रौमके पुंसि शिवमल्ल्यर्कपर्णयोः ।वर्णकश्चारणे स्त्री तु चन्दने च विलेपने ॥
1.3.206 · p. 27
अनुष्टुप्
द्वयोर्नील्यादिषु स्त्री स्यादुत्कर्षे काञ्चनस्य च ।वर्त्तकस्तु खुरेऽश्वस्य वर्तिका विहगान्तरे ॥
1.3.207 · p. 27
अनुष्टुप्
वातकः शणपर्ण्यां स्याद्व्याधिभेदे च वातकः ।वासुकिः सर्पराजे स्याद्वार्णिको वर्णकारके ॥
1.3.208 · p. 27
अनुष्टुप्
अटरूषे वासकः स्याद्देशभेदे तु वाहिकः ।वारकोऽश्वगतावश्वविशेषे च निषेधके ॥
1.3.209 · p. 27
अनुष्टुप्
वार्द्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्मणि ।अङ्गुलीयकह्रीबेरपारिहार्येषु वालकम् ॥
1.3.210 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
वाल्हीकस्तुरगे देशभेदे स्याद्धीरहिङ्गुनोः ।अनयोरपि वाल्हीकं वाल्हिकं च निगद्यते ॥
1.3.211 · p. 27
अनुष्टुप्
त्रायमाणे वार्षिकं स्याद्वर्षाकालभवेऽन्यवत् ।सन्देशवाग्वाचिकं स्याद्वालुकं त्वेलवालुके ॥
1.3.212 · p. 27
अनुष्टुप्
वालुका सिकतायां स्याद्वालकं भूषणान्तरे ।विपाकः पचने खेदेऽप्यसत्कर्मफलेऽपि च ॥
1.3.213 · p. 28
अनुष्टुप्
कपोतपालिकायां तु विटङ्क इति गद्यते ।वितर्कः संशये चोहे विवेकस्तु पृथक्कृतौ ॥
1.3.214 · p. 28
अनुष्टुप्
विवेकः सलिलद्रोण्यां विचारेऽपि च कथ्यते ।विरोकस्तु प्रकाशे स्याद्विरेकः स्यात्प्रवाहणे ॥
1.3.215 · p. 28
अनुष्टुप्
विव्वोकः स्त्रीविलासे स्याद्वीजकस्तत्क्रियावति ।वृश्चिकः शूककीटे स्याद्राश्यौषधद्रुणेष्वपि ॥
1.3.216 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
वृषाङ्कः शङ्करे साधौ भल्लातकमहोक्षयोः ।वेदिका तु वितर्द्यां स्याद्वैदिको वेदवेत्तरि ॥
1.3.217 · p. 28
अनुष्टुप्
वैणुकं तु गजालाने वैणिको वेणुवादके ।वैणिको वैणविके स्याच्छशाङ्कश्च कलाधिपे ॥
1.3.218 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
कर्पूरस्य तथा पिण्डे शम्पाकश्चतुरङ्गुले ।शस्त्रिका छुरिकायां स्याच्छङ्खः शम्बुकशब्दभाक् ॥
1.3.219 · p. 28
अनुष्टुप्
शङ्खकं कङ्कणभिदि शम्बूका जलशुक्तिषु ।शल्लकी स्यात्तरुभिदि शम्बुकः शूद्रतापसे ॥
1.3.220 · p. 28
अनुष्टुप्
घोङ्गे च गजकुम्भान्ते शलाका कामशल्ययोः ।शारिकायां च शल्लक्यां शल्लकी पशुवृक्षयोः ॥
1.3.221 · p. 28
अनुष्टुप्
छत्रादिकाष्टीशरयोः शालूकं पद्मकन्दके ।शालिका स्त्रीभगिन्यां स्याच्छाक्तिकस्तु तदायुधे ॥
1.3.222 · p. 28
अनुष्टुप्
शारिका पक्षिभेदे स्याच्छाब्दिकः शब्दवेदिनि ।श्यामाकस्तृणधान्ये स्याद्रोगभेदे तु शीतिकः ॥
1.3.223 · p. 29
अनुष्टुप्
शीतकः शीतकाले च सुस्थिते दीर्घसूत्रिणि ।शिरस्कं स्याच्छिरस्त्राणे शिशुकः शिशुमारके ॥
1.3.224 · p. 29
अनुष्टुप्
बालकोलूपिनोश्चापि शिबिका नरवाह्यके ।शूककः क्षारभेदे स्यात् किंशारौ शूककं मतम् ॥
1.3.225 · p. 29
अनुष्टुप्
शूककः प्रावटे प्रोक्तो रसेऽपि परिकीर्तितः ।रक्तप्रियङ्गौ गदिता शोधिका शोणकः पुनः ॥
1.3.226 · p. 29
अनुष्टुप्
टुण्टुके शौण्डिको मद्यकर्तर्यपि च हारके ।सस्यको मणिभेदे स्याद्धान्यमात्रे तु सस्यकम् ॥
1.3.227 · p. 29
अनुष्टुप्
स्यमीको वृक्षभेदे स्यात्स्यमीका नीलिकौषधौ ।सम्पाकस्तार्किके धृष्टे सम्पर्को मेलके रतौ ॥
1.3.228 · p. 29
अनुष्टुप्
स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः ।मरकः सीधुपाने स्यात्सीधुपात्रेक्षुसीधुनोः ॥
1.3.229 · p. 29
अनुष्टुप्
अच्छिन्नाध्वगपङ्क्तौ च सरकः समुदीरितः ।सभिकः स्याद्द्यूतकारे रशनायां तु सप्तकी ॥
1.3.230 · p. 29
अनुष्टुप्
युद्धे समीकं निर्दिष्टं स्फटीकः स्फटिके मतः ।सायकस्तु शरे खड्गे स्थासको जलबुद्बुदे ॥
1.3.231 · p. 29
अनुष्टुप्
स्थानिकः स्थायिनि मतः सार्पिष्कं घृतनिर्मिते ।स्थायिको ग्रामरक्षार्थे स्नातकस्तु समावृते ॥
1.3.232 · p. 29
अनुष्टुप्
स्थायुकोऽपि ग्रामपाले स्फूर्जकस्तिन्दुके मतः ।सूचकः सीवनद्रव्ये बोधके पिशुने शुनि ॥
1.3.233 · p. 30
अनुष्टुप्
ओतौ काके सूतकस्तु पारदे सूतकं जनौ ।सृदाकुर्ज्वलने चक्रे(वज्रे ?) पवने प्रतिसूर्यके ॥
1.3.234 · p. 30
अनुष्टुप्
सृणिका त्वोष्ठयोः प्रान्तभागे निगदिता बुधैः ।सेचकस्तु भवेन्मेघे वाच्यलिङ्गस्तु सेक्तरि ॥
1.3.235 · p. 30
अनुष्टुप्
सेवकस्तु प्रसेवे स्याद्वाच्यलिङ्गोऽनुजीविनि ।सैन्यकः सैनिके प्रोक्तः सैन्यरक्षे तु सैनिकः ॥
1.3.236 · p. 30
अनुष्टुप्
सौप्तिकं युद्धरात्रौ स्यात्सोमाङ्गे सौमिकं मतम् ।सौचिकः स्यात्सीवनके सौनिको वधभूमिगे ॥
1.3.237 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सी (wrong syllable)
हंसकं पादकटके हंसको मानसौकसि ।यतौ सदाशिवेऽपि स्याद्धल्लकं रक्तसन्ध्यके ॥
1.3.238 · p. 30
अनुष्टुप्
हाटकं तु सुवर्णे स्याद्धस्तिसङ्घे तु हास्तिकम् ।हालिकः कर्षके मूर्खे भवेद्धास्ये तु हासिका ॥
1.3.239 · p. 30
अनुष्टुप्
हारकः कितवे चोरे गद्यविज्ञानभेदयोः ।हीरकं तु भवेद्वज्रे हिण्डकोऽजस्रगामिनि ॥
1.3.240 · p. 30
अनुष्टुप्