कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

मान्तवर्गः · मतृतीयम्

॥ इति मद्वितीयम्‌ ॥

॥ अथ मतृतीयम्‌ ॥

अधमः स्याद्गर्ह्यजनेऽप्यवमोऽप्यधमे क्षये ।अवमः स्यादसहनेऽप्यङ्गहीन उदीरितः ॥
25.3.1 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्ग (wrong syllable)
अनुमा स्यादनुमितावप्रमा त्वयथार्थके ।अभ्रमुर्गजयोषायामर्यमा पुंसि भास्करे ॥
25.3.2 · p. 227
अनुष्टुप्
अक्रमस्तूत्क्रमे प्रोक्तोऽप्यागमः शास्त्र आयतौ ।आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे ॥
25.3.3 · p. 228
अनुष्टुप्
आचामः स्यादाचमितावायामो दैर्घ्य उच्यते ।आरामः स्यादुपवनेऽथ क्षामं मेदुरोऽन्यवत् ? ॥
25.3.4 · p. 228
अनुष्टुप्
उत्तमा दुग्धिकायां स्यादुत्कृष्टेऽपि च वाच्यवत् ।उद्गमः स्यात्तथोत्पत्तावुत्तमः श्रैष्ठ्यभागिनि ॥
25.3.5 · p. 228
अनुष्टुप्
उद्यमः स्यात्समुद्योगेऽप्युपमोपमितौ मता ।उद्दामो बन्धरहिते स्वतन्त्रे च प्रचेतसि ॥
25.3.6 · p. 228
अनुष्टुप्
कलमो लेखिनीचोरशालिलाक्षारसेषु च ।कलमः स्यात्तु सङ्ख्याने श्यामिकायां तु कालिमा ॥
25.3.7 · p. 228
अनुष्टुप्
कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ।कृत्रिमं रचिते प्रोक्तं सिल्हके लवणान्तरे ॥
25.3.8 · p. 228
अनुष्टुप्
गृहाश्मा गदितः शब्दवेदिभिर्गृहकच्छपे ।गोलोमी श्वेतदूर्वायां षड्ग्रन्थावारयोषितोः ॥
25.3.9 · p. 228
अनुष्टुप्
गोधूमो नागरङ्गे स्यादोषधिव्रीहिभेदयोः ।गौतमस्तु मुनौ शाक्ये रोचन्यम्बिकयोः स्त्रियाम् ॥
25.3.10 · p. 228
अनुष्टुप्
नदीभेदेऽपि तलिमं विताने कुट्टिमेऽपि च ।चन्द्रहासे च तल्पे च दाडिमः करकैलयोः ॥
25.3.11 · p. 228
अनुष्टुप्
निष्क्रमो बुद्धिसम्पत्तौ निर्गमे दुष्कुले तथा ।निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथे ॥
25.3.12 · p. 228
अनुष्टुप्
कुलीरस्य प्रसूत्यां तु निगमा इति योषिति ।नियमो मन्त्रणायां च प्रतिज्ञानिश्चये व्रते ॥
25.3.13 · p. 229
अनुष्टुप्
नैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि च ।परमं स्यादनुज्ञायामव्ययं परमं परे ॥
25.3.14 · p. 229
अनुष्टुप्
प्रथमस्तु प्रधाने स्यादादावपि च वाच्यवत् ।पञ्चमो रागभेदे स्यात्पञ्चानां पूरणेऽपि च ॥
25.3.15 · p. 229
अनुष्टुप्
पञ्चमी स्वरभेदेऽपि पाण्डवानां च योषिति ।प्रतिमा गजदन्तस्य बन्धे चानुकृतावपि ॥
25.3.16 · p. 229
अनुष्टुप्
प्रक्रमः स्यान्नरश्रेष्ठे गोत्रेऽपि प्रक्रमः पुनः ।क्रमावसरयोरुक्तो भूतात्मा चात्मदेहयोः ॥
25.3.17 · p. 229
अनुष्टुप्
मध्यमो मध्यगेऽपि स्यात्स्वरभेदे च कथ्यते ।मध्यदेशेऽवलग्ने तु न स्त्रियामिति तद्विदः ॥
25.3.18 · p. 229
अनुष्टुप्
राकादृष्टरजोनार्योः कर्णिकाऽङ्गुलिभेदयोः ।त्र्यक्षरे छन्दसि तथा ललामं लाञ्च्छने ध्वजे ॥
25.3.19 · p. 229
अनुष्टुप्
ललामः स्यात्प्रभावेऽश्वे शृङ्गे भूषाप्रधानयोः ।अपि स्याद्वालधौ पुण्ड्रे व्यायामः पौरुषे श्रमे ॥
25.3.20 · p. 229
अनुष्टुप्
विषमे दुर्गसञ्चारे विभ्रमो भ्रान्तिहावयोः ।विद्रुमो रत्नवृक्षेऽपि प्रवालेऽपि पुमानयम् ॥
25.3.21 · p. 229
अनुष्टुप्
विलोमस्तु प्रतीपेऽपि वरुणे शुनि पन्नगे ।आमलक्यां विलोमी च विलोमं चारघट्टके ॥
25.3.22 · p. 230
अनुष्टुप्
विक्रमः क्रान्तिमात्रे स्यादपि स्याच्छक्तिसम्पदि ।सङ्क्रमः क्रमणे सम्यग्वारिसञ्चारयन्त्रके ॥
25.3.23 · p. 230
अनुष्टुप्
सम्भ्रमः साध्वसे वेगे तथा स्यादादरे भये ।सत्तमः स्यात्पूज्यतमे साधीयस्युत्तमे त्रिषु ॥
25.3.24 · p. 230
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पू (wrong syllable)
सरमा कुक्कुरीदेवशुन्योः स्याद्राक्षसीभिदि ।सुषमाऽत्यन्तशोभायां स्त्री चारौ च समे त्रिषु ॥
25.3.25 · p. 230
अनुष्टुप्
सुषीमः शिशिरे चारौ त्रिषु ना पन्नगान्तरे ।सुकर्मा तु पुमान्योगभेदे स्याद्देवशिल्पिनि ॥
25.3.26 · p. 230
अनुष्टुप्