All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
पान्तवर्गः · पद्वितीयम्
॥ अथ पद्वितीयम् ॥
-वल्पमप्युक्तं स्वल्पेऽप्यापस्तु भूम्नि च ।कल्पो न्याये विधौ शास्त्रे संवर्ते ब्रह्मणो दिने ॥
21.2.1 · p. 210
अनुष्टुप्metre not read in every line
कपिस्तु सिल्हके विष्णावपि शाखामृगे पुमान् ।कूपस्तु गुणवृक्षे स्यान्मृन्माने च विदारके ॥
21.2.2 · p. 210
अनुष्टुप्
कृपस्तु पाण्डवाचार्ये द्रोणपत्न्यां कृपी मता ।कृपा दयायामथ च खष्पः क्रोधे बलात्कृतौ ॥
21.2.3 · p. 210
अनुष्टुप्
गोपो नृपे दिक्पतौ च गोष्ठाध्यक्षे च गोपके ।ग्रामाध्यक्षे भास्करेऽपि सारिव्याख्यौषधे स्त्रियाम् ॥
21.2.4 · p. 210
अनुष्टुप्
छुपः क्षुपस्पर्शनयोस्त्रपु सीसकरङ्गयोः ।तपश्चान्द्रायणादौ स्यात्साधुधर्मे च गद्यते ॥
21.2.5 · p. 210
अनुष्टुप्
योगे चरेऽपि च तपस्तथा शिशिरमाघयोः ।तल्पं स्याच्छयनीयेऽपि कलत्रेऽट्टेऽपि न द्वयोः ॥
21.2.6 · p. 210
अनुष्टुप्
त्रपा व्रीडाकुलटयोस्तापः सन्तापकृच्छ्रयोः ।तापी नद्यन्तरे दर्पः कस्तुर्यामप्यहङ्कृतौ ॥
21.2.7 · p. 210
अनुष्टुप्
नीपः कदम्बबन्धूकनीलाशोकद्रुमेष्वपि ।पुष्पं विकासिकुसुमस्त्रीरजःस्वपि कीर्त्तितम् ॥
21.2.8 · p. 211
अनुष्टुप्
रूपं स्वभावसौन्दर्याऽऽलोकेषु पशुशब्दयोः ।ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥
21.2.9 · p. 211
अनुष्टुप्
रेपस्तु निन्दिते क्रूरे रोपो बाणे च रोपणे ।लेपो जग्धौ प्रलेपेऽपि वपा विवरमेदसोः ॥
21.2.10 · p. 211
अनुष्टुप्
बाष्प उष्मणि चास्रे ना शष्पं बालतृणे स्मृतम् ।पुंसि स्यात्प्रतिभाहानौ शापस्त्वाक्रोशदिव्ययोः ॥
21.2.11 · p. 211
अनुष्टुप्
शिल्पी तु वाच्यवत्कारौ स्त्रियां कोलदलौषधौ ।शिल्पं श्रुवे क्रियायोगे स्वापः शयननिद्रयोः ॥
21.2.12 · p. 211
अनुष्टुप्
स्पर्शाज्ञतायामज्ञाने सूपो व्यञ्जनसूदयोः ।सर्पः स्यात्सर्पणे व्याले नक्षत्रे नागकेसरे ॥
21.2.13 · p. 211
अनुष्टुप्
भवेद्ध्रेपस्तु लज्जायां क्षपा रात्रौ निगद्यते ।क्षुपस्तु स्यात्क्षुद्रवृक्षे क्षेपो निर्हरणेऽपि च ॥
21.2.14 · p. 211
अनुष्टुप्