All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
बान्तवर्गः · बतृतीयम्
॥ इति बद्वितीयम् ॥
॥ अथ बतृतीयम् ॥
अक्षीबं वशिरे शिग्रौ नाऽमत्ते पुनरन्यवत् ।अलाबुश्चाप्यलाबूश्चाप्यालाबुस्तुम्बिकौषधौ ॥
23.2.1 · p. 216
अनुष्टुप्
अचुम्बस्त्वतिदीर्घे ? स्यादलम्बो नीचखर्वयोः ।कदम्बो निकुरम्बेस्यान्नीपसर्षपयोरपि ॥
23.2.2 · p. 216
अनुष्टुप्
कलम्बी स्याच्छाकभेदे पुमान् स्याद्दण्डबाणयोः ।कादम्बः सायके हंसे गोडुम्बः शीर्णवृन्तके ॥
23.2.3 · p. 217
अनुष्टुप्
स्त्रियामपि गवादिन्यां नितम्बः स्कन्धरोधसोः ।प्रलम्बा स्यात्तु शाखायां प्रलम्बो दैत्यदीर्घयोः ॥
23.2.4 · p. 217
अनुष्टुप्
हिडिम्बो दैत्यभेदेऽपि हिडिम्बाऽपि तथा मता ।हेरम्बो विघ्नराजे स्यान्महिषे शौर्यगर्विते ॥
23.2.6 · p. 217
अनुष्टुप्