All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
शान्तवर्गः · शतृतीयम्
॥ इति शद्वितीयम् ॥
॥ अथ शतृतीयम् ॥
आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि ।उड्डीशः स्यात्तु चण्डीशे देवताशास्त्रभेदयोः ॥
30.2.1 · p. 326
अनुष्टुप्
उपांशुः स्वरभेदे स्यादुपांशु विजनेऽव्ययम् ।कपिशा तु नदीभेदे कपिले सिल्हकेऽपि च ॥
30.2.2 · p. 327
अनुष्टुप्
कपीश इति सुग्रीवे कर्कशो निर्दये दृढे ।कर्कशः क्रूरपुरुषे कृपाणेऽपि निगद्यते ॥
30.2.3 · p. 327
अनुष्टुप्
इक्षौ साहसिके कासे मर्द्दकम्पिल्लयोरपि ।कीनाशस्तु यमे क्षुद्रे कर्षकोपांशुघातिनोः ॥
30.2.4 · p. 327
अनुष्टुप्
कुलिशो न स्त्रियां प्रोक्तो दम्भोलौ ना झषान्तरे ।गणेशः स्याद्विघ्नराजे गिरीशो गिरिशो मृडे ॥
30.2.5 · p. 327
अनुष्टुप्
गिरीशः स्यादद्रिराजे गिरीशो वाक्पतावपि ।ग्रहेशः स्यात्सवितरि गृहेशो गृहपेऽपि च ॥
30.2.6 · p. 327
अनुष्टुप्
गोपेशो नन्दगोपाले गोपीशः शम्भुकृष्णयोः ।तुङ्गीशस्तु पुमान् गौरीकान्ते च हिमदीधितौ ॥
30.2.7 · p. 327
अनुष्टुप्
दुःस्पर्शस्तु खरस्पर्शे कण्टकार्यां यवासके ।निस्त्रिंशो निर्दये खड्गे निर्वेशो मूर्च्छनेऽपि च ॥
30.2.8 · p. 327
अनुष्टुप्
भोगे च वेतने चापि निवेशस्तु निगद्यते ।शिबिरोद्वाहयोश्चापि विन्यासेऽपि तथा मतः ॥
30.2.9 · p. 327
अनुष्टुप्
निदेश उपकण्ठे स्याच्छासने परिभाषणे ।नीकाशो निश्चये तुल्ये प्रकाशः स्फुटहास्ययोः ॥
30.2.10 · p. 327
अनुष्टुप्
उद्योते च प्रसिद्धे च प्रदेशो देशमात्रके ।भित्तौ मानविशेषे च पलाशः किंशुकेऽस्रपे ॥
30.2.11 · p. 327
अनुष्टुप्
शठ्यां च हरिते पत्रे पिङ्गाशं जात्यकाञ्चने ।पिङ्गाशी नीलिकायां स्यान्मत्स्यपल्लीशयोरपि ॥
30.2.12 · p. 328
अनुष्टुप्
बालिशस्तु शिशौ मूर्खे भूकेशः शैवले वटे ।(अ)वल्गुजे तु भूकेशी लोमशो लोमवत्यपि ॥
30.2.13 · p. 328
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मेषे मुनिविशेषे च शूकशिम्ब्यां च लेामशा ।काकजङ्घाशृगाल्येलामहामेदास्वपीरिता ॥
30.2.14 · p. 328
अनुष्टुप्metre not read in every lineimpossible sign sequence: ्ब्यां च लेामशा ।nearly अनुष्टुप्
काशीसे शाकिनीभेदे विवशस्त्ववशात्मनि ।स्यादरिष्टाद्दुष्टधियि विकाशो विजनेऽन्तिके ॥
30.2.15 · p. 328
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दु (wrong syllable)
व्यक्तौ प्रकाशे सदृशं समे चैवोचितेऽपि च ।संवेशस्तु मतः स्वापे तथा स्त्रीरतबन्धने ॥
30.2.16 · p. 328
अनुष्टुप्
सुखाशो राजतिनिशे शोभनाशप्रचेतसोः ।स्नेहार्थिनि स्यात्स्नेहाशो दीपेऽपि च निगद्यते ॥
30.2.17 · p. 328
अनुष्टुप्
सुधांशुः स्यात्क्षपानाथे शुद्धांशेऽपि निगद्यते ।हताशो निर्दये चाशारहिते निष्कृपे खले ॥
30.2.18 · p. 328
अनुष्टुप्