कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

सान्तवर्गः · सचतुर्थम्

॥ इति सतृतीयम्‌ ॥

॥ अथ सचतुर्थम्‌ ॥

अन्तेवासी तु शिष्येऽपि चाण्डाले शान्तगेऽपि ? च ।अवध्वंसः परित्यागे निन्दनेऽप्यवचूर्णने ॥
32.3.1 · p. 338
अनुष्टुप्
अवतंसः कर्णपूरे शेखरेऽपि निगद्यते ।कलहंसस्तु कादम्बे राजहंसे च कीर्त्यते ॥
32.3.2 · p. 338
अनुष्टुप्
कुम्भीनसः सर्पभेदे लवणासुरमातरि ।कर्पूरे स्याद्घनरसः सान्द्रे सिद्धरसे जले ॥
32.3.3 · p. 338
अनुष्टुप्
मोरटे पीलुपर्ण्यां च चन्द्रहासेऽसिमात्रके ।दशग्रीवस्य खड्गेऽपि स्वेदे तनुरसं विदुः ॥
32.3.4 · p. 339
अनुष्टुप्
तथैव शाब्दिकजनैः पद्मे तामरसं मतम् ।ताम्रकाञ्चनयोश्चापि शिवे निःश्रेयसो मतः ॥
32.3.5 · p. 339
अनुष्टुप्
कल्या(ण)मोक्षयोश्चापि तथा निःश्रेयसं मतम् ।नीलाञ्जसा(ऽप्स)रोभेदे सरिद्भेदेऽपि विद्युति ॥
32.3.6 · p. 339
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 1 क (syllables merged); pāda 3, syllable 4 सा (syllables merged)
पुनर्वसुर्ऋक्षभेदे कात्यायनमुनावपि ।पौर्णमासो यज्ञभेदे पौर्णमासी स्त्रियां तिथौ ॥
32.3.7 · p. 339
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 सु (wrong syllable)
महारसः स्यात्खर्जूरे कोशकारे कसेरुणि ।चुल्ल्यां महानसं प्राहुः पाकागारे च तद्विदः ॥
32.3.8 · p. 339
अनुष्टुप्
मलीमसः स्यान्मलिने पुष्पकासीसलोहयोः ।मूर्विकायां मधुरसा द्राक्षादुग्धिकयोरपि ॥
32.3.9 · p. 339
अनुष्टुप्
यमस्वसा स्याद्दूर्गायां यमुनायामपि स्त्रियाम् ।रासेरसस्तु रासे स्याच्छृङ्गारपरिहासयोः ॥
32.3.10 · p. 339
अनुष्टुप्
षष्ठीजागरके गोष्ठ्यां रससिद्धिवलावपि ।राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥
32.3.11 · p. 339
अनुष्टुप्
वाराणसी वारणसी वारणास्यपि पूर्भिदि ।विभावसुर्दिनमणौ हारभेदे च पावके ॥
32.3.12 · p. 339
अनुष्टुप्
श्वःश्रेयसं च कल्याणे परमात्मनि शर्मणि ।भवेत्सर्वरसो वाद्यभाण्डभेदे च धूनके ॥
32.3.13 · p. 340
अनुष्टुप्
पारदे स्यात्सिद्धरसः सिद्धवासस्तथाऽऽश्रमे ।
32.3.14 · p. 340