कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

कान्तवर्गः · कतृतीयम् (1/3)

॥ इति कद्वितीयम् ॥

॥ अथ कतृतीयम् ॥

अशोको वञ्जुले नीपे माने द्रुमविशोकयोः ।अशोका कटुरोहिण्यामशोकं पारदे स्मृतम् ॥
1.3.1 · p. 6
अनुष्टुप्
अभीकः कामुके क्रूरे कवौ च भयवर्जिते ।अलकः कुन्तले पुर्यामलका स्याद्धनेशितुः ॥
1.3.2 · p. 6
अनुष्टुप्
अनूकं तु कुले शीलेऽप्यनूको गतजन्मनि ।अलीकमप्रिये प्रोक्तमसत्ये दिवि चामृते ॥
1.3.3 · p. 6
अनुष्टुप्
अनीकं स्याद्रणे सैन्येऽथाणुको निपुणाल्पयोः ।अभ्रकं स्वच्छपत्रे चाथानेकं बहुले मतम् ॥
1.3.4 · p. 7
अनुष्टुप्
अर्भकस्तु कृशे बाले मूर्खेऽपि च निगद्यते ।अन्तिकं निकटे चुल्यामन्तिका शातलौषधौ ॥
1.3.5 · p. 7
अनुष्टुप्
अन्तिका भगिनी ज्येष्ठा नाट्योक्तौ परिकीर्तिता ।अलर्को धवलाश्वे (र्के ?) स्याद्योगोन्मादितकुक्कुरे ॥
1.3.6 · p. 7
अनुष्टुप्
अम्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च ।ध्वान्तेऽन्धकमविज्ञानेऽन्धकः स्यादसुरान्तरे ॥
1.3.7 · p. 7
अनुष्टुप्
अन्धिका कैतवे सिद्धे शर्वर्यामपि गद्यते ।अम्बिका पार्वतीमात्रोर्धृतराष्ट्रस्य मातरि ॥
1.3.8 · p. 7
अनुष्टुप्
अम्बको जङ्गमेऽपि स्यादम्बकं तु विलोचने ।अंशुकं स्यात्सूक्ष्मवस्त्रे वस्त्रमात्रोत्तरीययोः ॥
1.3.9 · p. 7
अनुष्टुप्
अक्षिका द्यूतभेदे स्यादक्षकं त्विन्द्रिये मतम् ।अन्तकः शमने प्रोक्तो रोगसन्तापयोरपि ॥
1.3.10 · p. 7
अनुष्टुप्
अन्दुकः कन्दुके प्रोक्तो निगडे च मतोऽस्त्रियाम् ।अन्यूने त्वधिकं प्राहुरधिकं चाधिमूर्धनि ॥
1.3.11 · p. 7
अनुष्टुप्
आढकः स्यान्मानभेदे तुवर्यामाढकी मता ।आह्निकं दिननिर्वर्त्ये त्रिलिङ्गमथ न द्वयोः ॥
1.3.12 · p. 7
अनुष्टुप्
नित्यक्रियाभोजनयोर्वृन्दे प्रकरणस्य च ।आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ ॥
1.3.13 · p. 7
अनुष्टुप्
आनकः पटहे भेर्यां राहावाहक ईरितः ।आविकं त्वचि सन्दोहे शृङ्गबेरे तथार्द्रकम् ॥
1.3.14 · p. 8
अनुष्टुप्
आस्तिको मुनिभेदे स्यादास्तिको वेदवादिनि ।आर्थिकः स्यादर्थविदि स्यात्प्रासङ्गिकमार्थिकम् ॥
1.3.15 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
आलोकः स्यात्प्रकाशेऽपि तथोक्तो बन्दिभाषणे ।आशङ्का स्यादथाक्षेपे संशये च निगद्यते ॥
1.3.16 · p. 8
अनुष्टुप्
इक्ष्वाकुः कटुतुम्ब्यां स्त्री सूर्यवंशनृपे पुमान् ।इन्द्रकं त्वास्थानगृहे तथाकाशे मतेषिका ॥
1.3.17 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्था (wrong syllable)
उदर्क एष्यत्काले तत्फले मदनकण्टके ।स्यादुल्मुकं तथाऽऽलाते सोत्कण्ठे तूल्मुको मतः ॥
1.3.18 · p. 8
अनुष्टुप्
उलूको वायसारातौ तथेन्द्रे च नृपे क्वचित् ।उष्णको रोगभेदे स्यादातुरे क्षिप्रकारिणि ॥
1.3.19 · p. 8
अनुष्टुप्
उष्णकस्तु निदाघे स्याद्यवाग्वामुष्णिका मता ।उष्ट्रकः करभे प्रोक्तस्तत्स्त्रियामुष्ट्रिका मता ॥
1.3.20 · p. 8
अनुष्टुप्
मृत्तिकानिर्मिते भाण्डविशेषेऽप्युष्ट्रिकां विदुः ।ऊर्मिका त्वङ्गुलीये स्याद्वस्त्रभङ्गतरङ्गयोः ॥
1.3.21 · p. 8
अनुष्टुप्
ऊर्ध्वकः स्याद्दृग्विशेषे सलिले तूदकं मतम् ।एडकः शृङ्गवन्मेषे तृणभिद्येरका मता ॥
1.3.22 · p. 8
अनुष्टुप्
एधकः स्याद्वर्धकेऽपि त्वेजकः स्याद्विकम्पने ।कनकं तु सुवर्णे स्याच्चम्पके नागकेसरे ॥
1.3.23 · p. 8
अनुष्टुप्
किंशुके काञ्चनारे च धत्तूरे कनकः स्मृतः ।करको दाडिमे प्रोक्तः करकं च कमण्डलौ ॥
1.3.24 · p. 9
अनुष्टुप्
करे पक्षिविशेषे ना करका स्याद्घनोपले ।क्रमुकः स्याद्भद्रमुस्ते क्रमुकः पूगलोध्रयोः ॥
1.3.25 · p. 9
अनुष्टुप्
फले कार्पासिकायां च पट्टिकाब्रह्मदारुणोः ।कटकं लवणे राजधानीगिरिनितम्बयोः ॥
1.3.26 · p. 9
अनुष्टुप्
कटकं वलये दन्तमण्डने दन्तिनामपि ।कटुका कटुरोहिण्यां व्योषे तु स्यान्नपुंसकम् ॥
1.3.27 · p. 9
अनुष्टुप्
रसान्तरे तु कटुकः कठने (पटोले ?) कटुकः स्मृतः ।कण्टको न स्त्रियां क्षुद्रशत्रौ मत्स्यादिकीकसे ॥
1.3.28 · p. 9
अनुष्टुप्
नैयायिकादिदोषोक्तौ स्याद्रोमाञ्चद्रुमाङ्गयोः ।करङ्कः शीर्ष्णि सस्ये च नारिकेलफलास्थिनि ॥
1.3.29 · p. 9
अनुष्टुप्
कलङ्कस्त्वपवादे स्यात् कालायसमलेऽपि च ।कर्णिका करिहस्ताग्रे बीजकोशेऽम्बुजस्य च ॥
1.3.30 · p. 9
अनुष्टुप्
क्रमुकादिछटांशे च करमध्याङ्गुलावपि ।कर्णिका कर्णभूषायां कुट्टिन्यामपि कुत्रचित् ॥
1.3.31 · p. 9
अनुष्टुप्
कचाकुस्तु दुराधर्षे तथाध्वनि विपर्यये ।बिलेशये च दुःशीले कञ्चुको वारबाणके ॥
1.3.32 · p. 9
अनुष्टुप्
वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके ।निर्मोके फणिनां चापि कञ्चुकी त्वौषधान्तरे ॥
1.3.33 · p. 9
अनुष्टुप्
रसेन्द्रे कञ्चुकी प्रोक्तः व्याले वर्षधरेऽपि च ।कणिका कथ्यतेऽत्यन्तसूक्ष्मवस्त्वग्निमन्थयोः ॥
1.3.34 · p. 10
अनुष्टुप्
कन्दुकः क्रीडनीये स्यात् कण्ठिका कण्ठसूत्रके ।कवको ग्रासमात्रे स्याद्भूस्फोटे कतकं विदुः ॥
1.3.35 · p. 10
अनुष्टुप्
क्रयकस्तूदितो वैश्ये कर्तको नापिते मतः ।कम्पाङ्कः पवने प्रोक्तः कलिका कोरके मता ॥
1.3.36 · p. 10
अनुष्टुप्
कारिका यातनायां स्यान्नवयोषिति च स्मृता ।स्मृतौ विवरणश्लोके कारिका नटयोषिति ॥
1.3.37 · p. 10
अनुष्टुप्
नपुंसकं तु कर्मादौ कारकं कर्तरि त्रिषु ।कालिका योगिनीभेदे धूमरीनवमेघयोः ॥
1.3.38 · p. 10
अनुष्टुप्
कार्ष्ण्ये गौर्यां मेघपङ्क्तौ क्रमदेये च वस्तुनि ।पटोलशाखारोमालीमांसीकाकीशिवासु च ॥
1.3.39 · p. 10
अनुष्टुप्
तथा वृश्चिकपत्रेऽपि वैवर्ण्येऽपि निगद्यते ।पिप्लौ तु कालकः प्रोक्तो रोगभेदे तु काचकः ॥
1.3.40 · p. 10
अनुष्टुप्
कार्मिकः शिल्पिनि प्रोक्तः तथैव च कृषीवले ।काशिका तु पुरीभेदे चषकेऽपि निगद्यते ॥
1.3.41 · p. 10
अनुष्टुप्
कालकं त्वन्धकारे स्यात् कालकं यकृति स्मृतम् ।कामुकी तु वृषस्यन्त्यामिच्छावत्यां तु कामुका ॥
1.3.42 · p. 10
अनुष्टुप्
कार्मुकं धनुषि स्यान्ना वेणौ कर्मक्षमेऽन्यवत् ।कामुकः कमनेऽशोकपादपे चातिमुक्तके ॥
1.3.43 · p. 10
अनुष्टुप्
काठकः कठशाखीये कालकस्तिलकालके ।कार्तिकः स्यादूर्जमासि तत्पूर्णायां तु कार्तिकी ॥
1.3.44 · p. 11
अनुष्टुप्
काञ्चिकं काञ्जिकं तुल्ये द्वे तुषोदकवाचके ।क्लितकं मधुयष्टौ स्यात् कीलकं द्वारबन्धने ॥
1.3.45 · p. 11
अनुष्टुप्
कीचकः छिद्रवद्वेणौ दैत्यभेदे द्रुमान्तरे ।क्रिमिजातौ कीटकः स्यान्निष्कुरे वाच्यलिङ्गकः ॥
1.3.46 · p. 11
अनुष्टुप्
किम्पाकस्तु फलाज्ञेऽपि महाकाले च कुड्मले ।किंशुकः स्यात्पलाशद्रौ किञ्जल्कः केसरोऽस्त्रियाम् ॥
1.3.47 · p. 11
अनुष्टुप्
कुत्साकुः कुशवह्न्यर्कपरोत्तापनकर्तृषु ।कुलिकः कुलसंपन्ने द्रुभेदे पन्नगान्तरे ॥
1.3.48 · p. 11
अनुष्टुप्
कुहकं स्यादिन्द्रजाले कुहकः कपटान्विते ।कुशिकः स्याद्राजभेदे कुतुकं तु कुतूहले ॥
1.3.49 · p. 11
अनुष्टुप्
कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे ।उदपाने चितायां च कूपकश्च विदारके ॥
1.3.50 · p. 11
अनुष्टुप्
कूपकोऽन्धावपि प्रोक्तः कूपिकाऽम्भोगतोपले ।कुलकं तु पटोले स्याच्छ्लोकसम्बद्धगुच्छके ॥
1.3.51 · p. 11
अनुष्टुप्
कुलिकोऽहौ कुलश्रेष्ठे वल्मिके काकतिन्दुके ।कूर्चिका तूलिकायां स्यात् सूचिकायां च कुड्मले ॥
1.3.52 · p. 11
अनुष्टुप्
कपाटोद्घाटने क्षीरविकृतावपि योषिति ।कुम्भिका वृक्षभेदे स्यात् कुण्डिका तु कमण्डलौ ॥
1.3.53 · p. 11
अनुष्टुप्
कूलिका चित्रलेखन्यां कूञ्चिकायां तु कूचिका ।कूलकं तु मतं तूर्ये (स्तूपे ?) कुलकस्तु द्रुमान्तरे ॥
1.3.54 · p. 12
अनुष्टुप्
काले तु कृषकः प्रोक्तः कृत्तिका तारकान्तरे ।आसुर्यां कालिकायां च कृष्णिकेत्यभिधीयते ॥
1.3.55 · p. 12
अनुष्टुप्
केशिकः केशसम्पन्ने केतकस्तु द्रुमान्तरे ।केणिका पटकुट्यां स्यात्क्रीडायां केलिका मता ॥
1.3.56 · p. 12
अनुष्टुप्
कैशिकी वृत्तिभेदे स्यात्कैतकं केतकीरजः ।कैशिकं केशसंबद्धे कोलिकः शबरे मतः ॥
1.3.57 · p. 12
अनुष्टुप्
कोरकः कुड्मले च स्यात्कक्कोलकमृणालयोः ।कोणको गृहभागे स्याद्वीणाङ्गे कोणिका मता ॥
1.3.58 · p. 12
अनुष्टुप्
मरीचे कोलकं प्रोक्तं कोलकं बदरीफले ।कौशिको गुग्गुलौ व्यालग्राहे नकुलशक्रयोः ॥
1.3.59 · p. 12
अनुष्टुप्
विश्वामित्रे च कोशज्ञोलूकयोरपि कौशिकः ।कौशिकी चण्डिकायां स्यान्नदीभेदे च कीर्तिता ॥
1.3.60 · p. 12
अनुष्टुप्
कौण्डिकः कुण्डकर्मज्ञे कौन्तिकः कुन्तयोधिनि ।कुतूहले कौतुकं स्यादभिलाषे महोत्सवे ॥
1.3.61 · p. 12
अनुष्टुप्
तथा परम्परायाते मङ्गले हर्षनर्मणोः ।विवाहसूत्रगीतादिभोगयोरपि कौतुकम् ॥
1.3.62 · p. 12
अनुष्टुप्
खड्गिको महिषीक्षीरे फेनसैनिकयोर्मतः ।खटिका लेखनद्रव्ये कर्णरन्ध्रे च वीरणे ॥
1.3.63 · p. 12
अनुष्टुप्
खटकः स्यादर्धमुष्टौ दोर्मूले खण्डिकं मतम् ।खनकश्चित्ततत्त्वज्ञे सन्धिचौरे च मूषके ॥
1.3.64 · p. 13
अनुष्टुप्
मन्थाने खजकः प्रोक्तः खण्डिकश्चणके मतः ।खजाका तु भवेद्दर्व्यां खुल्लकः स्वल्पनीचयोः ॥
1.3.65 · p. 13
अनुष्टुप्
खेटकं तु लघुग्रामे युद्धसाधनचर्मणि ।खोलकः पाकवल्मीकपूगकोशे शिरस्त्रके ॥
1.3.66 · p. 13
अनुष्टुप्
ग्रन्थिकं पिप्पलीमूले दैवज्ञे गुग्गलौ तु ना ।ग्रन्थिपर्णे करीरे च सहदेवाख्यपाण्डवे ॥
1.3.67 · p. 13
अनुष्टुप्
गडुकः पात्रभेदे स्याद्गण्डूकः कन्दुके मतः ।क्रूरकर्मणि गण्डूकः कथितः शब्दवेदिभिः ॥
1.3.68 · p. 13
अनुष्टुप्
गण्डकी तु नदीभेदे गण्डकः शकुलार्भके ।गण्डकः खड्गिनि ख्यातः सङ्ख्याविद्याप्रभेदयोः ॥
1.3.69 · p. 13
अनुष्टुप्
अवच्छेदेऽन्तरायेऽपि गण्डकः समुदाहृतः ।गणकाख्या तु दैवज्ञे सङ्ख्याविदि निगद्यते ॥
1.3.70 · p. 13
अनुष्टुप्
गणिका यूथिकावेश्यातर्कारीतरुणीष्वपि ।गल्वर्कोऽर्काश्मचषके गर्त्तकं भूमिनिम्नके ॥
1.3.71 · p. 13
अनुष्टुप्
गर्तिका तन्तुशालायां गर्भकं रजनीयुगे ।गन्धकः स्याद्धातुभेदे गन्त्रिकं शकटे मतम् ॥
1.3.72 · p. 13
अनुष्टुप्
केशमध्यगते माल्ये गर्तकः परिकीर्तितः ।ग्रान्थिकः पण्डितजने गान्धिकः स्याच्च लेखके ॥
1.3.73 · p. 13
अनुष्टुप्
गान्धिकश्चापि गदितः सुगन्धद्रव्यहारिणि ।ग्राहको घातिविहगे व्याधानां च ग्रहीतरि ॥
1.3.74 · p. 14
अनुष्टुप्
गिरिका बालमूषायां कथ्यते शब्दवेदिभिः ।गुणकः स्याज्ज्योतिषिके गुच्छकः स्तबके मतः ॥
1.3.75 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ज्ज्यो (wrong syllable)
गुह्यको देवभेदेऽपि गुह्यकः स्यात्तु गोपिते ।गृह्यको निघ्नके प्रोक्तस्तथा स्वच्छन्दचारिणि ॥
1.3.76 · p. 14
अनुष्टुप्
गुण्डको मलिने धूलौ कलोक्तिस्नेहपात्रयोः ।गेन्दुकं कन्दुके प्राहुर्गैरिकं धातुरुक्मयोः ॥
1.3.77 · p. 14
अनुष्टुप्
गोलको विधवापुत्रे जाराच्च मणिके गुडे ।गोरङ्कुः पक्षिजातौ स्यात्तथा नग्नकबन्दिनोः ॥
1.3.78 · p. 14
अनुष्टुप्
गोणिका वृषवाह्ये स्याद्गौणिकस्तत्सहे वृषे ।घटिका स्यात्कालमाने तथा क्षुद्रघटेऽपि च ॥
1.3.79 · p. 14
अनुष्टुप्
कृकाटिकायां च तथा घण्टिका कांस्यवादने ।घाण्टिकः स्याद्बोधकरे घार्तिकः पिष्टपूरके ॥
1.3.80 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्बो (wrong syllable)
घातुको मारके ख्यातो घुण्टकः पादगेऽस्थिनि ।घोलकस्तु समूहे स्याद्घोलिका शाकभिद्यपि ॥
1.3.81 · p. 14
अनुष्टुप्
धामार्गवे घोषकः स्याद्घोटकोऽश्वे निगद्यते ।चषकस्तु सुरापात्रे मधुमद्यप्रभेदयोः ॥
1.3.82 · p. 14
अनुष्टुप्
चटकः कलविङ्के स्याच्चटका स्त्री स्त्र्यपत्ययोः ।चलुकः प्रसृतौ भाण्डभेदे चुलुकवत्पुमान् ॥
1.3.83 · p. 14
अनुष्टुप्
चतुष्की मशकाहर्यां चतुष्की यष्टिकान्तरे ।चतुष्की मत्स्यहार्यां स्यात् पुष्करिण्यन्तरेऽपि च ॥
1.3.84 · p. 15
अनुष्टुप्
चण्डिका तु भवेद्गौर्यां कोपनायां च योषिति ।चरको ग्रन्थभेदे स्याच्चरकः स्थावरेतरे ॥
1.3.85 · p. 15
अनुष्टुप्
चणको धान्यभेदे च चर्चिको वाक्पटौ मतः ।चन्द्रकः केकिपिच्छाङ्के कर्पूरेऽपि च चन्द्रकः ॥
1.3.86 · p. 15
अनुष्टुप्
चम्पकं चाम्पके पुष्पे पीते गौरे तु वाच्यवत् ।चारकः पालकेऽश्वादेः स्यात्सञ्चारकबन्धयोः ॥
1.3.87 · p. 15
अनुष्टुप्
चाक्रिकः कुम्भकारे स्याच्चाक्रिकश्चक्रवर्तिनि ।चित्रकः स्यादग्नितरौ चित्रकं तिलके मतम् ॥
1.3.88 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
चीनको देशभेदेऽपि चीनाकं स्यात्फलान्तरे ।चीरको विक्रियालेखे शिखायां चूडिका मता ॥
1.3.89 · p. 15
अनुष्टुप्
झिल्लिकायां चीरिका स्याच्चुबुकं त्वसिकाधरे ।चुम्बकश्चुम्बनपरे धूर्तायस्कान्तकामुके ॥
1.3.90 · p. 15
अनुष्टुप्
बहुग्रन्थैकदेशज्ञे घटस्योर्ध्वावलम्बके ।चूतकः कूपकेऽथाम्रे चूचुकं तु कुचाग्रके ॥
1.3.91 · p. 15
अनुष्टुप्
चुलुकः प्रसृतौ भाण्डभेदे चलुकवन्मतः ।चूलिका नाटकस्याङ्गे कर्णमूले च दन्तिनाम् ॥
1.3.92 · p. 15
अनुष्टुप्
चुल्लकी शिशुमारे च कुण्डीभेदे कुलान्तरे ।गण्डूषे चुलकं प्राहुर्मधुमासे तु चैत्रकः ॥
1.3.93 · p. 15
अनुष्टुप्
चोलकी तु करीरे स्यान्नारङ्गे किष्कुपर्वणि ।कञ्चुक्यां चोलिका ख्याता चोरकर्मणि चौरिका ॥
1.3.94 · p. 16
अनुष्टुप्
छत्रिका स्याद्भुजङ्गाक्ष्यामातपत्रे तु छत्रकम् ।छत्राकं धरणीस्फोटे व्याजे छद्मकमीरितम् ॥
1.3.95 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
छलकः कुहके प्रोक्तश्च्छादकस्तु निगूहके ।घातुके तक्षके चापि छेदकच्छेदिकावुभौ ॥
1.3.96 · p. 16
अनुष्टुप्
जनको नृपभेदे स्यात्तातेऽपि जनको मतः ।जतुकाऽजिनपत्र्यां स्याज्जतुकं हिङ्गुलाक्षयोः ॥
1.3.97 · p. 16
अनुष्टुप्
जल्पाकस्त्वतिवाचाले वावदूकेऽपि जल्पकः ।जम्बुकः पश्चिमाशायाः पत्यौ नीचे च गद्यते ॥
1.3.98 · p. 16
अनुष्टुप्
वृक्षान्तरे फेरवे च जम्बूक इति गद्यते ।जाहको घोङ्खमार्जारखजाकातुण्डिकासु च ॥
1.3.99 · p. 16
अनुष्टुप्
जालकं कोरके प्रोक्तं कुलाये जालिनीफले ।आनाये दम्भभेदे च वस्त्रभेदे च जालिका ॥
1.3.100 · p. 16
अनुष्टुप्
जालिकाऽप्यङ्गरक्षिण्यां विधवाजालजीविनोः ।जालिकस्तूर्णनाभे स्याद् ग्रामकूटे च धीवरे ॥
1.3.101 · p. 16
अनुष्टुप्
जानकी रामभार्यायां जङ्घाले स्यात्तु जाङ्घिकः ।जीवन्त्यां जीविकामाहुस्तथा जीवनसाधने ॥
1.3.102 · p. 16
अनुष्टुप्
जीवकः प्राणकेऽपि स्याच्छीर्षे स्यात्पीतसारके ।जीरकं जरणाख्ये स्यात्सुगते जिनको मतः ॥
1.3.103 · p. 16
अनुष्टुप्
जूर्णको धान्यभेदे स्याज्जोङ्गकं कृमिजे मतम् ।ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः ॥
1.3.104 · p. 17
अनुष्टुप्
झरकः क्षरणे प्रोक्तो झरकस्तोयनिर्झरे ।झावुकः पिचुले प्रोक्तो द्योतदीप्तौ च झल्लिका ॥
1.3.105 · p. 17
अनुष्टुप्
झल्लिकोद्वर्तनमले झिण्ट्यामुद्वर्तनांशुके ।भृङ्गारिकायां झिल्लीका झिल्लिकाऽपि मता समा ॥
1.3.106 · p. 17
अनुष्टुप्
कट्वङ्गे टुण्टुकः प्रोक्तष्टुण्टुकः शोणकाल्पयोः ।डिम्बिका जलबिम्बे च कोणके कामुकस्त्रियाम् ॥
1.3.107 · p. 17
अनुष्टुप्
तर्जको भीषकनरे तक्षकः पन्नगान्तरे ।तक्षको वर्धकौ च स्यात्तर्कुकस्तु मतोऽर्थिनि ॥
1.3.108 · p. 17
अनुष्टुप्
तण्डकः खञ्जने फेने समासप्रायवाचि च ।गृहदारुतरुस्कन्धमायाबहुलकेष्वपि ॥
1.3.109 · p. 17
अनुष्टुप्
तन्त्रकं त्वहते वस्त्रे गुडूच्यां तन्त्रिका मता ।तर्णकस्तु मतो वत्से त्र्यम्बकस्तु महेश्वरे ॥
1.3.110 · p. 17
अनुष्टुप्
तारको दैत्यभित्कर्णधारयोर्न द्वयोर्दृशि ।कनीनिकायामृक्षेऽपि न पुमान् त्रातरि त्रिषु ॥
1.3.111 · p. 17
अनुष्टुप्
तान्त्रिको ज्ञातसिद्धान्ते प्रहस्ते तालिका मता ।तिक्तकस्तु पटोले स्याद्रसभेदेऽपि तिक्तकः ॥
1.3.112 · p. 17
अनुष्टुप्
तिलकं क्लोम्नि तिलकस्तुरङ्गे तिलकालके ।सौवर्चले पुनः क्लीबे ना तु रोगद्रुभेदयोः ॥
1.3.113 · p. 17
अनुष्टुप्
त्रिशङ्कुर्नृपभेदेऽपि शलभे वृषदंशके ।तिन्दुको वृक्षभेदे स्तात्त्रिलोकी विष्टपत्रये ॥
1.3.114 · p. 18
अनुष्टुप्
तुरुष्को देशभेदे स्यादपि जात्यन्तरे मतः ।तुरुष्कः सिल्हके ताम्रे तथा स्यात्पिण्डके क्वचित् ॥
1.3.115 · p. 18
अनुष्टुप्
तृषितेऽर्थिनि तृष्णक् स्यात्तोटकं वृत्तभिद्यपि ।तूलिका शयनीयोपकरणे लेखसाधने ॥
1.3.116 · p. 18
अनुष्टुप्
तूष्णीको निष्क्रिये प्रोक्तस्तोदकः प्रेरके मतः ।दर्शकः स्यात्प्रतीहारे दर्शयितृप्रवीणयोः ॥
1.3.117 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 यि (wrong syllable)
दर्पकः पञ्चबाणे स्याद्दन्तको दन्तरुग्भिदि ।दग्धिकाभिःसटायां स्याद्द्राढायां दंष्ट्रिका मता ॥
1.3.118 · p. 18
अनुष्टुप्
दलिकं तु मतं काष्ठे दमकस्तु नृपान्तरे ।द्रावको ग्रावभेदेऽपि विदग्धे घोषकेऽपि च ॥
1.3.119 · p. 18
अनुष्टुप्
दारको बालकेऽपि स्याद्भेदके त्वभिधेयव ।दाधिकं दधिसम्पन्ने दारुकः कृष्णसारथौ ॥
1.3.120 · p. 18
अनुष्टुप्