कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

कान्तवर्गः · कतृतीयम् (3/3)

हुडुक्को वाद्यभेदे स्यान्मत्तदात्यूहपक्षिणि ।शब्दवेदिभिरप्युक्तं हृषीकं विषयेन्द्रिये ॥
1.3.241 · p. 30
अनुष्टुप्
हेरुकः स्याद्बुद्धभेदे महाकालगणे तथा ।हेरिको गूढपुरुषे ह्रेषको ह्रीविधायके ॥
1.3.242 · p. 30
अनुष्टुप्
होलिका स्यात्कर्मभेदे स्यात्तद्विदि तु हौलिकः ।क्षणिकां विद्युति प्राहुः क्षारकः स्यात्तु जालके ॥
1.3.243 · p. 31
अनुष्टुप्
तथा मत्स्यादिपिटके नीचे तु क्षुल्लको मतः ।क्षुल्लकः शङ्खजातीयकीटपृष्ठस्थकीकसे ॥
1.3.244 · p. 31
अनुष्टुप्
क्षुरको वपनद्रव्ये गोक्षुरे तिलकद्रुमे ।क्षुरकः कोकिलाक्षे स्यात्क्षुब्धकः क्रोधमूर्च्छिते ॥
1.3.245 · p. 31
अनुष्टुप्
प्रर्वतके क्षेपकः स्यादरातौ क्षोभको मतः ।क्षोभकस्तु समुद्रेऽपि क्षोदकः शोधके मतः ॥
1.3.246 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)