All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
यान्तवर्गः · यद्वितीयम्
॥ इति यैकम् ॥
॥ अथ यद्वितीयम् ॥
अयः शुभावहविधावयो लोहे नपुंसकम् ।अर्थ्यं शिलाजतुन्यार्थ्ये बुधे न्याय्ये तु वाच्यवत् ॥
26.2.1 · p. 232
अनुष्टुप्
अर्थ्यः स्यादर्थसंयुक्तेऽप्यर्थनीयेऽपि वाच्यवत् ।अन्त्योऽधमे पुल्कसे च मुस्तायां च निगद्यते ॥
26.2.2 · p. 232
अनुष्टुप्
अर्घ्यमर्घस्य योग्ये स्यादर्घार्थेऽपि च वाच्यवत् ।अन्यः स्यादितरस्मिंस्तु वाच्यवन्ना तु वैरिणि ॥
26.2.3 · p. 232
अनुष्टुप्
आयस्त्वलब्धयोगे स्यादार्यस्तु स्वामिवैश्ययोः ।आद्यस्तु प्रथमे मुख्ये स्यादाज्यं तिलसर्पिषोः ॥
26.2.4 · p. 232
अनुष्टुप्
आस्यं मुखे च तन्मध्ये स्यादाप्यं जलजेऽम्मये ।आख्याऽभिधाने योषायामाढ्यो धनवति त्रिषु ॥
26.2.5 · p. 232
अनुष्टुप्
इज्या दानेऽध्वरेऽर्चायां सङ्गे चेज्यो गुरौ मतः ।इभ्या करेणुशल्लक्योः स्त्रियामाढ्ये तु वाच्यवत् ॥
26.2.6 · p. 233
अनुष्टुप्
ईक्ष्योऽवलोकनीये तु वाच्यलिङ्ग उदीरितः ।विचार्यधार्ययोरूह्यं कव्यं पित्र्ये तु वाच्यवत् ॥
26.2.7 · p. 233
अनुष्टुप्
कन्या कुमार्यां नार्यां च तथा स्यादौषधान्तरे ।क्रव्यं तु पलले कण्ठ्यं योग्ये कण्ठपरिष्कृतौ ॥
26.2.8 · p. 233
अनुष्टुप्
कथ्यं तु कथनीये स्यात्प्रभाते कल्यमुच्यते ।कश्यं कशार्हे मद्ये च कल्यो वाक्श्रुतिवर्जिते ॥
26.2.9 · p. 233
अनुष्टुप्
सज्जनीरोगदक्षेषु कल्याणवचनेऽपि च ।उपायवचनेऽपि स्यात्त्रिषु मद्ये तु योषिति ॥
26.2.10 · p. 233
अनुष्टुप्
कक्ष्या बृहतिकायां स्यात्काञ्च्यां मध्येभबन्धने ।हर्म्यादीनां प्रकोष्ठे च कायस्तु स्यात्कदैवते ॥
26.2.11 · p. 233
अनुष्टुप्
कायं मनुष्यतीर्थेऽपि मूर्तौ सङ्घस्वभावयोः ।काव्यं ग्रन्थविशेषे स्यात्क्लीबे पुंसि तु भार्गवे ॥
26.2.12 · p. 233
अनुष्टुप्
- - - - - - - - - काव्या पूतना बुधैः ।कार्श्यं शरीरशोषेऽपि काम्यं स्यात्कामनाभवे ॥
26.2.13 · p. 233
अनुष्टुप्metre not read in every line
क्वाथ्यं क्वथनयोग्येऽपि कार्यं हेतौ प्रयोजने ।कांस्यं वाद्यान्तरे पानपात्रे स्यात्तैजसान्तरे ॥
26.2.14 · p. 233
अनुष्टुप्
कीर्त्यं तु भाषणार्हे स्यात्क्रिया तूपायचेष्टयोः ।आरम्भे निष्कृतौ पूजासम्प्रधारणकर्मसु ॥
26.2.15 · p. 234
अनुष्टुप्
शिक्षाचिकित्साकरणे कुड्यं भित्तौ नपुंसकम् ।विलेपने कौतुके च कुल्या जीवन्तिकौषधौ ॥
26.2.16 · p. 234
अनुष्टुप्
पयःप्रणाल्यां नद्यां च कुल्यः स्यात्कुलसम्भवे ।मान्ये कुलहिते चापि त्रिषु स्याद्वाच्यलिङ्गतः ॥
26.2.17 · p. 234
अनुष्टुप्
कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च ।कृत्या क्रियादेवतयोस्त्रिषु विद्विष्टकार्ययोः ॥
26.2.18 · p. 234
अनुष्टुप्
क्लेश्यं तु क्लेशनीये स्यात् क्लेद्यं क्लेदसहे मतम् ।कैश्यं तु केशसम्बद्धे कौप्यं कूपभवे त्रिषु ॥
26.2.19 · p. 234
अनुष्टुप्
खाद्यं भक्ष्यविशेषे स्यात्खेद्यं खेदयुते त्रिषु ।गयः स्यात्पशुराजर्ष्योस्तीर्थभेदे गया मता ॥
26.2.20 · p. 234
अनुष्टुप्
गव्यं तु गोहिते ज्यायां रागद्रव्येऽप्यथ स्त्रियाम् ।गोसमूहे च दुग्धादौ नृलिङ्गो गलितायुधे ? ॥
26.2.21 · p. 234
अनुष्टुप्
गण्यं तु गणनीये स्याद्गम्यं गमनयोग्यके ।गर्ह्यं तु निन्दिते गद्यमनिबद्धे वचस्यपि ॥
26.2.22 · p. 234
अनुष्टुप्
गार्ग्यः स्यान्मुनिभेदेऽपि गार्ह्यं गृहसमन्विते ।ग्राम्यं स्त्रीकरणेऽश्लीले ग्राव्यं पाषाणनिर्मिते ॥
26.2.23 · p. 234
अनुष्टुप्
गुह्यं रहस्युपस्थेऽत्र गुह्यः कमठदम्भयोः ।गृह्यं गुदे ग्रन्थभेदे क्लीबं शाखापुरे स्त्रियाम् ॥
26.2.24 · p. 234
अनुष्टुप्
गृहासक्तमृगादौ ना त्रिषु चास्वैरिपक्षयोः ।गृह्यं च गृहकृत्यादौ सूत्रभेदे च कीर्तितम् ॥
26.2.25 · p. 235
अनुष्टुप्
गेयं तु गीते गेयः स्याद्गातव्ये गायने त्रिषु ।गोप्यो दासीसुते पुंसि रक्षणीयेऽभिधेयवत् ॥
26.2.26 · p. 235
अनुष्टुप्
घर्म्यं घर्मसमुद्भूते वाच्यलिङ्गमुदीरितम् ।चव्यं तु चविके क्लीबं वचायां स्यात्तु योषिति ॥
26.2.27 · p. 235
अनुष्टुप्
चयः समूहे प्राकारे मूलबन्धे समाहृतौ ।चित्यं मृतकचैत्ये स्याच्चित्या मृतचितौ स्त्रियाम् ॥
26.2.28 · p. 235
अनुष्टुप्
चिन्त्यं विचारणीये स्याच्चेयं चेतुं तथार्हति ।चैत्यमायतने बुद्धबिम्बे नोद्देशपादपे ॥
26.2.29 · p. 235
अनुष्टुप्
चोद्यं स्यादद्भुते प्रश्ने चोदनार्हे तु वाच्यवत् ।छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः ॥
26.2.30 · p. 235
अनुष्टुप्
पालनोत्कोचयोर्द्दीप्तिसच्छोभापङ्क्तिषु स्त्रियाम् ।छाद्यमाच्छादनार्हे स्याच्छेद्यं छेदार्ह ईरितम् ॥
26.2.31 · p. 235
अनुष्टुप्
जया जयन्तीतिथिभित्पथ्योमातत्सखीष्वपि ।जयन्ते नाऽग्निमन्थे च विजये च युधिष्ठिरे ॥
26.2.32 · p. 235
अनुष्टुप्
जन्यं हट्टे परीवादे सङ्ग्रामे च नपुंसकम् ।जन्या मातृवयस्यायां जन्यः स्याज्जनकेऽपि च ॥
26.2.33 · p. 235
अनुष्टुप्
त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः ।वरस्निग्धे च जन्युः स्यात्पुंसि प्राण्यग्निधातृषु ॥
26.2.34 · p. 236
अनुष्टुप्
तक्ष्यं तु तक्षणीये स्यात्तर्प्यं तर्पणयोग्यके ।तथ्यं यथार्थवचसि तर्क्यमूह्येऽपि च त्रिषु ॥
26.2.35 · p. 236
अनुष्टुप्
त्रयी त्रिवेद्यां त्रितये तार्क्ष्यं क्लीबे रसाञ्जने ।तार्क्ष्यः स्यादश्वकर्णाख्यवृक्षे रथतुरङ्गयोः ॥
26.2.36 · p. 236
अनुष्टुप्
तार्क्ष्यः स्यात्पुंसि गरुडे तथैव गरुडाग्रजे ।तार्यं नौकादिसाध्ये स्यात्ताड्यं तु ताडसंस्कृते ॥
26.2.37 · p. 236
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
तिष्यस्तु ऋक्षभेदे स्यात्कलौ धात्र्यां तु योषिति ।तीर्थ्यः स्यादपि तीर्थार्हे तिथ्यं तिथिसमुद्भवे ॥
26.2.38 · p. 236
अनुष्टुप्
द्रव्यं वित्ते पृथिव्यादौ पित्तले च विलेपने ।क्लीबेऽथ भेषजे भव्ये द्रुविकारे च वाच्यवत् ॥
26.2.39 · p. 236
अनुष्टुप्
दस्युश्चोरेऽप्यरातौ स्याद्दायः स्यात्क्रूरभाषणे ।विभक्तव्यपितृद्रव्ये तथा हरणदानयोः ॥
26.2.40 · p. 236
अनुष्टुप्
दर्वीसंस्थे तु दार्व्यं स्याद्दाप्यं स्याद्दापनीयके ।दमनीये तु दाम्यं स्यान्नाम्यं स्यान्नमनीयके ॥
26.2.41 · p. 236
अनुष्टुप्
दिव्यं सत्यपरीक्षायां कथितं शब्दवेदिभिः ।दिव्यं लवङ्गे धात्र्यां च वल्गौ दिवि भवे त्रिषु ॥
26.2.42 · p. 236
अनुष्टुप्
दूष्यं तु दूषणीये स्यात्क्लीबं वस्त्रे च तद्गृहे ।दूत्यं दूतस्य भावे स्यात्तथा तत्कर्मणि स्मृतम् ॥
26.2.43 · p. 237
अनुष्टुप्
दैत्योऽसुरे सुरायां च दैत्या चण्डौषधावपि ।धन्या धात्र्यामलक्योः स्याद्धन्यः पुण्यवति त्रिषु ॥
26.2.44 · p. 237
अनुष्टुप्
धान्यं व्रीहिषु धान्याके धाय्या स्यादृग्विशेषके ।धिष्ण्यं स्थानाग्निगेहेषु कथयन्ति मनीषिणः ॥
26.2.45 · p. 237
अनुष्टुप्
स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति गद्यते ।नयो नीतौ तथा नाव्यं नौतार्ये कथितं बुधैः ॥
26.2.46 · p. 237
अनुष्टुप्
नित्यं तु सततेऽपि स्याच्छाश्वतेऽपि च वाच्यवत् ।पथ्या तु स्याद्धरीतक्यां पथ्यं तु स्याद्धिते त्रिषु ॥
26.2.47 · p. 237
अनुष्टुप्
पद्यं श्लोके पुमाञ्शूद्रे पद्या स्याद्वर्त्मनि स्त्रियाम् ।पाक्यं लवणभेदे स्याद्यवक्षारे पुनः पुमान् ॥
26.2.48 · p. 237
अनुष्टुप्
प्रायो (मरणान?)शने मृत्यौ बाहुल्यतुल्ययोः ।प्रियो हृद्ये वाच्यलिङ्गः स्याद्वृद्ध्यां चौषधे धवे ॥
26.2.49 · p. 237
metre not recognised
पीयुर्घूके रवौ काले पुण्यं स्याच्छोभने त्रिषु ।क्लीबं धर्मे च सुकृते पुष्य ऋक्षे कलौ युगे ॥
26.2.50 · p. 237
अनुष्टुप्
(मासभेदेऽपि पुष्यः स्या?)त्पूज्यश्च सुरवन्द्ययोः ।पेयं पातव्यपयसोः पेया श्राणाच्छमण्डयोः ॥
26.2.51 · p. 237
अनुष्टुप्
बल्यं प्रधानधातौ स्यात्तथा बलकरे त्रिषु ।भयं कुब्जप्रसूने स्याद्घोरे प्रतिभयेऽपि च ॥
26.2.52 · p. 237
अनुष्टुप्
भव्यं भाविनि योग्ये च शुभे सत्ये च गद्यते ।कर्मरङ्गतरौ पुंसि स्त्रियां करिकणोमयोः ॥
26.2.53 · p. 238
अनुष्टुप्
क्लीबमस्थिनि भाग्यं तु स्याच्छुभाशुभकर्मणोः ।भृत्यः पोष्ये भृतौ भृत्या मयुर्ना किन्नरे मृगे ॥
26.2.54 · p. 238
अनुष्टुप्
मन्या शिरायां ग्रीवाया मन्तुं योग्येऽन्यलिङ्गकम् ।मयः शिल्पिनि दैत्यानां करभेऽश्वतरेऽपि च ॥
26.2.55 · p. 238
अनुष्टुप्
मत्स्यो मीनेऽथ पुम्भूम्नि देशे मध्यान्तरेऽधमे ।मध्यं न्याय्ये विलग्नेऽपि मन्युः क्रोधे मखेऽपि च ॥
26.2.56 · p. 238
अनुष्टुप्
दैन्ये शोके च माल्यं तु कुसुमेऽपि च तत्स्रजि ।माया तु शाम्बरीबुद्ध्योर्मायः पीताम्बरेऽसुरे ॥
26.2.57 · p. 238
अनुष्टुप्
मुख्यं प्रधाने गदितं वाच्यवच्छब्दवेदिभिः ।मृग्यं मृगस्येदमर्थे गवेष्येऽपि मतं त्रिषु ॥
26.2.58 · p. 238
अनुष्टुप्
मूल्यं तु वेतने वस्ने मृत्युर्ना मरणे यमे ।मेध्यं शुचौ त्रिषु तथा वचारोचनयोः स्त्रियाम् ॥
26.2.59 · p. 238
अनुष्टुप्
मोच्यं तु मोचनीये स्याद्यभ्यं तु यभनार्थके ।ययुः पुमानश्वमात्रे तथा यज्ञार्थवाजिनि ॥
26.2.60 · p. 238
अनुष्टुप्
याप्यं तु यापनीये स्यान्निन्द्ये याम्यं तु नारके ।याम्याऽवाच्यां भरण्यां च पुंस्यगस्त्ये च चन्दने ॥
26.2.61 · p. 238
अनुष्टुप्
योग्यः प्रवीणयोगार्होपायिशक्तेषु वाच्यवत् ।क्लीबमृध्यौषधौ पुष्पे ना स्त्र्यभ्यासार्कयोषितोः ॥
26.2.62 · p. 239
अनुष्टुप्
रम्या रात्रौ चम्पके ना मनोज्ञे वाच्यलिङ्गवत् ।रथ्या रथौघविशिखावर्तनीचत्वरेषु च ॥
26.2.63 · p. 239
अनुष्टुप्
रथवोढरि रथ्यः स्याद्रूप्यः स्यात्सुन्दरे त्रिषु ।रूप्यं स्यादाहतस्वर्णरजते रजतेऽपि च ॥
26.2.64 · p. 239
अनुष्टुप्
रयो वेगे निगदितो राज्यं राजाधिपात्मके ।लयो नाशे च संश्लेषे साम्ये तौर्यत्रिकस्य च ॥
26.2.65 · p. 239
अनुष्टुप्
लक्ष्यं तु लक्षणीये स्यादपदेशशरव्ययोः ।लास्यं तौर्यत्रिके नृत्ये लभ्यं लब्धव्ययुक्तयोः ॥
26.2.66 · p. 239
अनुष्टुप्
वन्ध्यस्त्वफलवृक्षादावप्रजायां च योषिति ।वर्या पतिंवरायां च वरेण्ये त्रिषु ना स्मरे ॥
26.2.67 · p. 239
अनुष्टुप्
व्रज्या पर्यटनेऽपि स्यात्प्रव्रज्यायामपि स्त्रियाम् ।वन्यं त्रिषु वनोद्भूते स्त्री वनाम्बुसमूहयोः ॥
26.2.68 · p. 239
अनुष्टुप्
वाच्यं तु कुत्सिते हीने वचनार्हे तु वाच्यवत् ।विन्ध्यः स्यात्पर्वते विन्ध्या लवल्यामपि योषिति ॥
26.2.69 · p. 239
अनुष्टुप्
वीक्ष्यं तु विस्मये दृश्ये पुंसि लासकवाजिनोः ।वीर्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि ॥
26.2.70 · p. 239
अनुष्टुप्
वेश्या तु गणिकायां स्याद्वेश्यं वेश्यागृहे मतम् ।शल्यं शङ्कौ शरे वंशकर्णिकायां च तोमरे ॥
26.2.71 · p. 239
अनुष्टुप्
शल्यश्च श्वाविधि प्रोक्तो मदनद्रुमभूपयोः ।शय्या स्थाच्छयनीयेऽपि गुम्फनीये च गुम्फने ॥
26.2.72 · p. 240
अनुष्टुप्
शल्यं तु न स्त्रियां शङ्कौ शयः शय्याऽहिपाणिषु ।शून्यं तु निभृतेनल्यामन्योभिन्नसमानयोः ? ॥
26.2.73 · p. 240
अनुष्टुप्
शौर्य्यमारभटीशक्त्योः सह्यः शैलान्तरेऽपि च ।सोढव्ये त्रिषु च क्लीबमारोग्ये समुदीरितम् ॥
26.2.74 · p. 240
अनुष्टुप्
सङ्ख्यं समिति सङ्ख्या तु सङ्ख्यानेऽपि निगद्यते ।सख्यं तु मैत्र्यां क्लीबे स्यात्सत्यं तु शपथे कृते ॥
26.2.75 · p. 240
अनुष्टुप्
सन्ध्या पितृप्रसूनद्यन्तरयोर्युगसन्धिषु ।सव्यं वामे प्रतीपे च सायः काण्डदिनान्तयोः ॥
26.2.76 · p. 240
अनुष्टुप्
स्मयो गर्वे मतं स्तन्यं क्षीरे तु स्तनसम्भवे ।साध्यो योगान्तरे देवे साधनीये तु वाच्यवत् ॥
26.2.77 · p. 240
अनुष्टुप्
सूर्योऽर्कपर्णे तपने सूर्या भार्यौषधीभिदोः ।राकामध्यगते चन्द्रे सूर्य इत्यभिधीयते ॥
26.2.78 · p. 240
अनुष्टुप्
स्थेयो विवादपादस्य निर्णेतरि पुरोहिते ।सेव्यं क्लीबमुशीरे स्यात्सेवार्हे वाच्यलिङ्गवत् ॥
26.2.79 · p. 240
अनुष्टुप्
सैन्यं क्लीबे बले सेनासमवाये तु वाच्यवत् ।सौम्यो ज्ञे ना त्रिष्वनुग्रे मनोज्ञे सोमदैवते ॥
26.2.80 · p. 240
अनुष्टुप्
हार्यो बिभीतकतरौ हर्तव्ये पुनरन्यवत् ।हृद्यं मनोज्ञे जवने हृद्भवेऽपि च वाच्यवत् ॥
26.2.81 · p. 241
अनुष्टुप्
वशकृद्वेदमन्त्रे च हृद्या वृद्ध्याख्यभेषजे ।क्षयो रोगान्तरे वेश्मकल्पान्तापचयेष्वपि ॥
26.2.82 · p. 241
अनुष्टुप्