कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

तान्तवर्गः · तद्वितीयम्

॥ अथ तद्वितीयम्‌ ॥

अस्तं क्षिप्ते व्यवसिते त्रिषु ना पश्चिमाचले ।अन्तं स्वरूपे नाशे ना नस्त्री शेषेऽन्तिके त्रिषु ॥
16.2.1 · p. 124
अनुष्टुप्
आर्तिः पीडाधनुष्कोट्योरतो हेत्वर्थमव्ययम् ।आप्तिः स्त्री योगसम्प्राप्त्योराप्तो लब्धे स्वसत्ययोः ॥
16.2.2 · p. 124
अनुष्टुप्
अथ स्यादात्तमादानेऽप्याप्तो मित्रे निगद्यते ।ईतिर्डिम्बेऽतिवृष्ट्यादावितं स्मृते गतेऽपि च ॥
16.2.3 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्मृ (wrong syllable)
इत्यव्ययं समाप्तौ स्याद्वितर्के स्यादुताव्ययम् ।उक्ता त्वेकाक्षरे छन्दस्युक्तिः स्याद्भाषितेऽपि च ॥
16.2.4 · p. 125
अनुष्टुप्
बीजावापे भवेदुप्तं स्यादूतं तन्तुसन्तते ।ऊतिः स्त्री रक्षणेऽप्यूतावृतिः कल्याणवर्त्मनोः ॥
16.2.5 · p. 125
अनुष्टुप्
जुगुप्सास्पर्धयोः स्त्री स्यादृतमुञ्च्छशीले जले ।दीप्ते सुपूजिते सत्ये वसन्तादावृतुः स्मृतः ॥
16.2.6 · p. 125
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 शी (wrong syllable)
आर्तवे भासि च पुमानेतः कर्बूर आगते ।विस्तारे तु भवेदोतं बिडाले त्वोतुरुच्यते ॥
16.2.7 · p. 125
अनुष्टुप्
परमेष्ठिनि कर्ता स्याद्वाच्यलिङ्गस्तु कारके ।क्रतुर्मखे मुनौ पुंसि कन्तुः स्यात्पञ्चमायके ॥
16.2.8 · p. 125
अनुष्टुप्
कान्तिरिच्छाशोभयोः स्यात्कान्तो भर्तरि शोभने ।कान्ता स्त्रियां प्रियङ्गौ च स्यादश्मनिग्रहे तथा ॥
16.2.9 · p. 125
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श्म (wrong syllable)
कान्तं च चन्द्रसूर्यायःपर्यायान्तं निगद्यते ।कीर्तिः प्रसादे यशसि विस्तारे कर्दमेऽपि च ॥
16.2.10 · p. 125
अनुष्टुप्
कुन्तः प्रासे क्षुद्रजन्तौ दण्डभावे गवेधुके ।कुन्ती पाण्डुप्रियायां स्थाच्छल्लक्यां गुग्गुलावपि ॥
16.2.11 · p. 125
अनुष्टुप्
चर्मनिर्मितसस्नेहपात्रे तु स्यात्कुतूः स्त्रियाम् ।कृतं युगेऽलमर्थे च विहिते हिंसिते त्रिषु ॥
16.2.12 · p. 125
अनुष्टुप्
कृतिः क्रियायां कृत्तिस्तु भूर्जे चर्मत्वचोरपि ।कृत्तं तु चेष्टिते छिन्ने क्लीबे केतं तु सद्मनि ॥
16.2.13 · p. 125
अनुष्टुप्
केतुर्ना रुक्पताकाविग्रहोत्पातेषु लक्ष्मणि ।खातं गर्तेऽथ गर्तः स्यादवटे च कुकुन्दरे ॥
16.2.14 · p. 126
अनुष्टुप्
गर्तस्त्रिगर्तभेदे स्याद्गतं विज्ञातयातयोः ।लुप्तवर्णपदे ग्रस्तं ग्रस्तं ग्रासीकृतेऽपि च ॥
16.2.15 · p. 126
अनुष्टुप्
गतिः स्त्री मार्गदशयोर्ज्ञाने यात्राभ्युपाययोः ।गातुस्तु रोषणे भृङ्गे पिकगन्धर्वयोरपि ॥
16.2.16 · p. 126
अनुष्टुप्
गीतिश्च्छन्दसि गाने स्त्री गीतं शब्दितगानयोः ।गुप्तिः स्त्री रक्षणे कारागारे चावकरस्थले ॥
16.2.17 · p. 126
अनुष्टुप्
गुप्तं च रक्षिते गूढे गोप्ता स्यादपि रक्षके ।घातो वधे मेलने च तथा काण्डप्रहारयोः ॥
16.2.18 · p. 126
अनुष्टुप्
अथ घ्रातमवघ्राते घुतं स्यादपि शब्दिते ।घृतमाज्ये च सलिले प्रदीप्ते त्वभिधेयवत् ॥
16.2.19 · p. 126
अनुष्टुप्
चित्संविदि चिता प्रोक्ता चित्यायामपि संहतौ ।चितिश्चित्यावृन्दयोश्च चितं छन्ने च चेतसि ॥
16.2.20 · p. 126
अनुष्टुप्
चिन्ताऽध्याने च्युतं पाते चूतश्चाम्रे निगद्यते ।छिन्ने छातच्छिते जन्तुर्जन्यमात्रे पुनर्जतु ॥
16.2.21 · p. 126
अनुष्टुप्
लाक्षायामव्ययं जातु कदाचिदिति भाषणे ।जातमुत्पन्नमात्रेऽपि तथा व्यक्तौघजन्मसु ॥
16.2.22 · p. 126
अनुष्टुप्
जातिर्गोत्रे जन्मनि च सामान्यच्छन्दसोरपि ।अश्मन्तिकामलक्योश्च मालत्यां च फले क्वचित् ॥
16.2.23 · p. 126
अनुष्टुप्
जूतिस्तु जवने प्रोक्ता ज्वरे जूर्तिर्निगद्यते ।ज्ञातिर्निगद्यते पुंसि तथा तातसगोत्रयोः ॥
16.2.24 · p. 127
अनुष्टुप्
आज्ञप्ते स्यान्नरि ज्ञप्तो ज्ञप्तं ज्ञाने स्त्रियामपि ।ज्ञाताविन्दौ निगदितस्त्यक्तमुत्सृष्टहीनयोः ॥
16.2.25 · p. 127
अनुष्टुप्
ततं व्याप्ते विस्तृते च ततं वीणादिवादने ।ततः सदागतावानन्तर्ये स्यादव्ययं ततः ॥
16.2.26 · p. 127
अनुष्टुप्
तन्तुर्यज्ञे च सूत्रे च लेशमात्रे निगद्यते ।त्रस्तं भीते वाच्यलिङ्गं तान्तो ग्लाने त्रिलिङ्गकः ॥
16.2.27 · p. 127
अनुष्टुप्
त्रातस्तु रक्षिते तद्वत्तातः स्याज्जनकेऽपि च ।अनुकम्प्ये शिष्यसून्वोस्तिक्तो रससुगन्धयोः ॥
16.2.28 · p. 127
अनुष्टुप्
तृप्तं तृप्तिश्च सौहित्ये त्रेता वह्नित्रये युगे ।दाने तूदीर्यते दत्तं दन्तोऽद्रिकटके द्विजे ॥
16.2.29 · p. 127
अनुष्टुप्
कुञ्जे चौषधिभेदे तु स्त्रियां दन्ती गजे पुमान् ।दत्तस्तु मुनिभेदे स्याद्दान्तस्तु दमितेऽपि च ॥
16.2.30 · p. 127
अनुष्टुप्
तपःक्लेशसहे पुंसि दान्त इत्यभिधीयते ।दातं छिन्ने दितं चापि दितिः स्याद्दैत्यमातरि ॥
16.2.31 · p. 127
अनुष्टुप्
खण्डनेऽपि स्त्रियां दीप्तं ज्चलिते भातदग्धयोः ।दीप्तिर्भासि स्त्रियां भीते दीर्णं क्लीबे निगद्यते ॥
16.2.32 · p. 127
अनुष्टुप्
अथ द्रुतं विलीनेऽपि विद्राणेऽपि च सत्वरे ।दृप्तो मत्ते दृतिः कृत्तौ द्युतिः स्त्री रश्मिशोभयोः ॥
16.2.33 · p. 127
अनुष्टुप्
धर्ता धातरि च प्रोक्तः स्कन्ने ध्वस्तं निगद्यते ।धातुः श्लेष्मादिषु तथा गैरिकादिषु कीकसे ॥
16.2.34 · p. 128
अनुष्टुप्
इन्द्रियेषु महाभूततद्गुणेषु रसादिषु ।धाता हिरण्यगर्भे ना पालके तु त्रिलिङ्गकः ॥
16.2.35 · p. 128
अनुष्टुप्
ध्वान्तं गाढेऽन्धतमसि ध्मातं शब्दे च दीपिते ।ध्यातं चित्तैकविषये वाच्यलिङ्गं धितं धृते ॥
16.2.36 · p. 128
अनुष्टुप्
धीतं पीतेऽप्यथ धुतं त्यक्ते धूतं तु कम्पिते ।भर्त्सितेऽपि तथा धूतिः स्त्रियां स्यात्कम्पनेऽप्यथ ॥
16.2.37 · p. 128
अनुष्टुप्
धूर्त्तं तु खण्डलवणे धत्तूरे ना विटेऽपि च ।वञ्चकेऽपि च धूर्तः स्यात्तथा धूर्तो मतो विटे ॥
16.2.38 · p. 128
अनुष्टुप्
धृतिर्नेष्टौ स्त्रियां तुष्टौ योगभिद्धैर्यधारणे ।धृतं गृहीते धौतं तु शोधिते वाच्यलिङ्गकम् ॥
16.2.39 · p. 128
अनुष्टुप्
नतं स्यात्तगरे क्लीबं नतः कुटिलनम्रयोः ।नक्तं रात्रौ भवेन्नप्ता पौत्रेऽपि प्रणतौ नतिः ॥
16.2.40 · p. 128
अनुष्टुप्
नमस्कर्तरि नन्ता स्यान्नीतिस्तु प्रापणे नये ।नीतं त्वपहृतेऽपि स्यान्नुतिनूते मते स्तुतौ ॥
16.2.41 · p. 128
अनुष्टुप्
नुत्तं क्षिप्तेऽथ नृत्ये तु नृत्तं नृत्तिश्च गद्यते ।नेता तु नायकेऽपि स्यादपहर्तरि तु स्मृतः ॥
16.2.42 · p. 128
अनुष्टुप्
पक्तिः स्त्री गौरवे पाके पत्तिर्ना पदगे स्त्रियाम् ।गतावैकरथैकेभत्र्यश्वपञ्चपदातिके ॥
16.2.43 · p. 129
अनुष्टुप्
पङ्क्तिर्दशाक्षरवृत्तदशसङ्ख्याऽऽलिषु स्त्रियाम् ।पतिर्धवे ना त्रिष्वीशे प्राप्तं लब्धे समञ्जसे ॥
16.2.44 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
पातो ना पतने त्राते त्रिषु प्राप्तिर्महोदये ।लाभेऽपि च मता प्रातिः स्त्रियां पूर्तिप्रदेशयोः ॥
16.2.45 · p. 129
अनुष्टुप्
पाता रक्षितरि प्राप्तं लब्धेऽथ जनके पिता ।पित्तं दोषविशेषे स्यात्पीतं तु गिलिते मतम् ॥
16.2.46 · p. 129
अनुष्टुप्
हरिद्रायां तु पीता स्याद्गौरे पीतं तु वाच्यवत् ।पीतिर्नाऽश्वे स्त्रियां पाने प्रीतं हृषितनर्मणोः ॥
16.2.47 · p. 129
अनुष्टुप्
प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीमुदोः स्त्रियाम् ।पूतं त्रिषु पवित्रे च शोधिते बहुलीकृते ॥
16.2.48 · p. 129
अनुष्टुप्
पूर्तं खातादिके क्लीबं पूरिते तु त्रिलिङ्गकम् ।पुस्तं क्लीबं पुस्तकेऽपि लेप्यादिशिल्पकर्मणि ॥
16.2.49 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दि (wrong syllable)
प्लुतमश्वगतौ क्लीबं पुंसि त्रिमात्रके स्वरे ।प्लुतिरुत्प्लवने पृक्तिः स्पृष्टौ तु गमने प्लुतम् ॥
16.2.50 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रि (wrong syllable)
प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः ।प्रोतं वाससि क्लीबे स्यात्पोतो बाले पुमानयम् ॥
16.2.51 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सि (wrong syllable)
गृहस्थाने वहित्रे च वासस्यपि नपुंसकम् ।दशवर्षगजे पोतः कथितः शब्दवेदिभिः ॥
16.2.52 · p. 129
अनुष्टुप्
बत इत्यव्ययं खेदे बन्तुः ? स्यात्पञ्चसायके ।भर्ता पोष्टरि नाथेऽपि धातर्यपि च गद्यते ॥
16.2.53 · p. 130
अनुष्टुप्
भक्तिर्विभागे सेवायां भङ्क्ता स्यान्नरि भञ्जके ।भक्तो भृत्ये भक्तमन्ने स्याद्भ्रान्तिरनवस्थितौ ॥
16.2.54 · p. 130
अनुष्टुप्
मिथ्यामतौ च भ्रमणे भ्रान्तं च भ्रमणे मतम् ।भातं तु स्फुरिते भाक्तं गौणेऽर्थे वाच्यलिङ्गकम् ॥
16.2.55 · p. 130
अनुष्टुप्
भित्तिः प्रदेशाश्रययोः कुड्ये चाप्यथ साध्वसे ।भीतं भीतिश्च भूतं तु क्ष्मादौ जन्तौ पिशाचके ॥
16.2.56 · p. 130
अनुष्टुप्
प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तु ना ।कुमारेऽपि भृतिः स्त्री स्यान्मूल्येऽपि भरणेऽपि च ॥
16.2.57 · p. 130
अनुष्टुप्
भूतिर्भस्मनि सम्पत्तिहस्तिशृङ्गारयोः स्त्रियाम् ।भृतिस्तु भरणे स्त्री स्याद्भृतः स्यात्सेवके पुमान् ॥
16.2.58 · p. 130
अनुष्टुप्
मन्तुः स्यादपराधेऽपि मनुष्ये च विधातरि ।मतं तु सम्मते ज्ञाते मतिः स्त्रीच्छाधियोः स्मृता ॥
16.2.59 · p. 130
अनुष्टुप्
मङ्क्ता तु मज्जके मत्तः शौण्डे मङ्क्तिस्तु मज्जने ।मानकर्तरि माता ना जनन्यां तु मता स्त्रियाम् ॥
16.2.60 · p. 130
अनुष्टुप्
माता गौर्यादिषु तथा गोब्राह्मण्यादिभूमिषु ।मार्तं स्यान्मृतसम्बद्धेऽथाभ्यस्ते म्लानमुच्यते ? ॥
16.2.61 · p. 130
अनुष्टुप्
मितिर्मानेऽप्यवच्छेदे मितं चापि तदर्थकम् ।मितः पुमान् हिंसिते तु मुक्तिर्मोक्षे च मोचने ॥
16.2.62 · p. 130
अनुष्टुप्
मुक्तस्तु प्राप्तमोक्षे स्यान्मुक्तः स्यान्मोचितोऽपि यः ।स्त्रियां तु मौक्तिके मूतं बद्धे हर्षे तु मुत् स्त्रियाम् ॥
16.2.63 · p. 131
अनुष्टुप्
मूर्तिः काये च काठिन्ये मूर्तः स्यान्मूर्तिमत्यपि ।मूर्त्तं स्यात्त्रिषु मूर्च्छाले मृतं तु याचिते मृते ॥
16.2.64 · p. 131
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
यतिः स्त्री पाठविच्छेदे निकारयतिनोः पुमान् ।यन्ता मेडे च सूते च यत्तः स्याद्यत्नवत्यपि ॥
16.2.65 · p. 131
अनुष्टुप्
यतो बद्धे गते यातं याता गन्तरि गद्यते ।क्लीबे तु राक्षसे यातु युतं हस्तचतुष्टये ॥
16.2.66 · p. 131
अनुष्टुप्
स्त्री न्याययोषितोर्युक्तिर्युतो युक्तेऽपृथग्गते ।योगकर्तरि योक्ता स्याद्रतः स्यादनुरागिणि ॥
16.2.67 · p. 131
अनुष्टुप्
नील्यादिरञ्जिते रक्तं रक्तं स्याल्लौहिते त्रिषु ।रक्तं तु कुङ्कुमे ताम्रे प्राचीनामलकेऽसृजि ॥
16.2.68 · p. 131
अनुष्टुप्
रतिर्मदनयोषायां रागे सुरतगुह्ययोः ।रतूर्वत्मनि नद्यां स्त्री रतं सुरतगुह्ययोः ॥
16.2.69 · p. 131
अनुष्टुप्
रन्ता तु क्रीडके पुंसि रातः स्यात्परिरक्षिते ।रिक्तं शून्ये वनेऽपि स्याद्रीतिः स्यन्दप्रचारयोः ॥
16.2.70 · p. 131
अनुष्टुप्
पित्तले लोहकिट्टे च रुतं शब्द ऋतुः पुनः ।वसन्तादौ स्त्रीरजसि रेतः शुक्रे निगद्यते ॥
16.2.71 · p. 131
अनुष्टुप्
लता वीरुत्स्त्रियोः स्पृक्कामाधव्योश्च प्रियङ्गुनि ।कस्तूरिकायां शाखायां दूर्वाज्योतिष्मतीद्वयोः ॥
16.2.72 · p. 131
अनुष्टुप्
लत्ता पादहतौ लातं गृहीते वाच्यलिङ्गवत् ।लिप्तो विषाक्ते बाणे स्याल्लिप्तं त्रिषु विलिप्तके ॥
16.2.73 · p. 132
अनुष्टुप्
लुप्तं प्रलोपिते लूता गदभेदे मता स्त्रियाम् ।पिपीलिकायां च तथा मता लूतोर्णनाभके ॥
16.2.74 · p. 132
अनुष्टुप्
लूतिस्त्वौषधभेदे स्यान्मतो लेप्ता तु लेपके ।लोतिः स्त्रियां पिष्टपिण्डे ? लेाप्ता स्यात्पुंसि लोपके ॥
16.2.75 · p. 132
अनुष्टुप्metre not read in every lineimpossible sign sequence: पिण्डे ? लेाप्ता सnearly अनुष्टुप्
लोतस्त्वश्रुणि वक्ता तु वाग्मिन्यथ च पण्डिते ।व्यस्तं तु व्याकुले व्याप्ते व्यक्तः स्फुटमनीषिणोः ॥
16.2.76 · p. 132
अनुष्टुप्
वप्ता तु जनके पुंसि व्यक्तिः स्यात्पृथगात्मता ।वस्तिर्द्वयोर्निरूहे नाभ्यधोभूम्नि दशासु च ॥
16.2.77 · p. 132
अनुष्टुप्
वर्तिर्भेषजनिर्माणे नयनाञ्जनलेखयोः ।गात्रानुलेपनीदीपदशादीपेषु योषिति ॥
16.2.78 · p. 132
अनुष्टुप्
वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः ।निःसारारोग्ययोः क्लीबं वृत्तिमन्नीरुजोस्त्रिषु ॥
16.2.79 · p. 132
अनुष्टुप्
व्याप्तं ख्याते समाक्रान्ते व्याप्तिर्व्यापनलम्भयोः ।व्याप्तं वीणादिवाद्ये स्यादथ वातः समीरणे ॥
16.2.80 · p. 132
अनुष्टुप्
वार्तमुक्तं तथाऽरोग्ये व्रातः सङ्घेऽभिधीयते ।उद्गीर्णे तु भवेद्वान्तः भवेद्वित्तिर्विचारणे ॥
16.2.81 · p. 132
अनुष्टुप्
लाभसम्भवयोर्वित्तिर्वित्तं ख्याते विचारिते ।धनेऽथ वीतिस्तु गतौ धावने प्रजनेऽशने ॥
16.2.82 · p. 133
अनुष्टुप्
दीप्तौ वीतं त्वसारे तु गजे च तुरगे तथा ।शान्ते वीतमपि क्लीबे तथैवाङ्कुशकर्मणि ॥
16.2.83 · p. 133
अनुष्टुप्
वृत्तमाचरणे छन्दस्यपि वृत्तिस्तु वर्तने ।जीवनेऽपि भवेद्वृत्तिः कौशिक्यादिप्रवर्तने ॥
16.2.84 · p. 133
अनुष्टुप्
वृतिस्तु वरणे वृन्तमुक्तं प्रसवबन्धने ।कुचाग्रे घटीधारायां वृत्तमित्यभिधीयते ॥
16.2.85 · p. 133
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 टी (wrong syllable)
वृत्तोऽधीतेऽप्यतीते च वर्तुलेऽपि मृते वृते ।दृढेऽन्यलिङ्गवान् क्लीबं छन्दश्चारित्रवृत्तिषु ॥
16.2.86 · p. 133
अनुष्टुप्
वेत्ता स्याज्ज्ञातरि नरे वेदितं ज्ञापितेऽपि च ।शतं सङ्ख्यान्तरे शस्तमुक्तं क्षेमप्रशस्तयोः ॥
16.2.87 · p. 133
अनुष्टुप्
शक्तिरस्त्रान्तरे शौर्य उत्साहादौ बले स्त्रियाम् ।अथाकृष्टे भवेच्छप्तं शान्तिः स्त्री मङ्गले शमे ॥
16.2.88 · p. 133
अनुष्टुप्
शान्तोऽतिमुक्तरसयोर्वारणे शान्तमव्ययम् ।श्रान्तिः कृशे शमे शान्तं शास्ता स्याद्देवताभिदि ॥
16.2.89 · p. 133
अनुष्टुप्
शासकेऽपि महीपाले शितं स्यादपि दुर्बले ।निशिते च शितिर्भूर्जे ना सिताऽसितयोस्त्रिषु ॥
16.2.90 · p. 133
अनुष्टुप्
शीतं हिमगुणे प्रोक्तं शीतलालसयोस्त्रिषु ।वानीरे बहुवारे ना श्रितः स्यादाश्रयीकृते ॥
16.2.91 · p. 133
अनुष्टुप्
श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः स्त्रियाम् ।शुक्तिः कपालशकले शङ्खे शङ्खनखेऽपि च ॥
16.2.92 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
नख्यश्वावर्तदुर्नाममुक्तास्फोटेषु च स्त्रियाम् ।शुक्तमम्लीकृते पूते निष्ठुरे च निगद्यते ॥
16.2.93 · p. 134
अनुष्टुप्
श्रुतमाकर्णिते शास्त्रे श्वेतो द्वीपाद्रिभेदयोः ।श्वेता वराटिकाकाष्ठपाटलाशङ्खिनीषु च ॥
16.2.94 · p. 134
अनुष्टुप्
श्वेतं रूप्ये तु सन् मान्ये साधौ च धीरशस्तयोः ।विद्यमाने तथा सत्ये सती साध्व्युमयोः स्त्रियाम् ॥
16.2.95 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
स्रस्तं भ्रष्टे तथा स्नातः स्नातके च कृताप्लवे ।स्फीतिर्वृद्धौ स्त्रियां सातिर्दाने चाप्यवसानके ॥
16.2.96 · p. 134
अनुष्टुप्
स्वान्तं तु गह्वरे चित्ते सीता लाङ्गलपद्धतौ ।स्वर्गङ्गायां च वैदेह्यां सञ्चाररहिते स्थितः ॥
16.2.97 · p. 134
अनुष्टुप्
स्थितिः स्त्रियां च मर्यादासीम्नोरथ सितं मतम् ।बद्धे चावसिते श्वेते शर्करायामपि स्त्रियाम् ॥
16.2.98 · p. 134
अनुष्टुप्
सुतस्तु भूपतौ पुत्रे पुत्रिकायां सुता मता ।सुतस्त्वभिषुतेऽपि स्यात्सुप्तः स्यादपि निद्रिते ॥
16.2.99 · p. 134
अनुष्टुप्
सुप्तिः स्पर्शाज्ञतातन्द्र्योः स्वापविश्रम्भयोः स्त्रियाम् ।सूतस्तु पारदे पुंसि प्रसूते प्रेरिते त्रिषु ॥
16.2.100 · p. 134
अनुष्टुप्
क्षत्रियाद्ब्राह्मणीपुत्रे सारथौ तक्ष्णि बन्दिनि ।स्यूतिः स्त्रियां सन्ततौ स्यात्स्यूतं स्यात्तन्तुसन्तते ॥
16.2.101 · p. 134
अनुष्टुप्
स्यूतः प्रसेवके ना त्रिषूतेऽथ स्यात्स्मृतिः स्त्रियाम् ।धर्मशास्त्रस्मरणयोः सृतिर्गमनमार्गयोः ॥
16.2.102 · p. 135
अनुष्टुप्
सेतुः कुमारके नालौ स्रोतः प्रवहणे मतम् ।हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च ॥
16.2.103 · p. 135
अनुष्टुप्
ऋक्षभेदे हतं नष्टे ताडितेऽपि च वाच्यवत् ।हन्ताव्ययं भवेत्खेदे हन्ता तु स्यान्निहन्तरि ॥
16.2.104 · p. 135
अनुष्टुप्
हितं घृते गते पथ्ये हितं मित्रे निगद्यते ।ह्रीतस्तु लज्जासंपन्ने हुतं होमे निगद्यते ॥
16.2.105 · p. 135
अनुष्टुप्
हुतिः स्त्रियां मताऽऽह्वाने हवने च निगद्यते ।हृतं त्वपहृते वाच्यलिङ्गं स्याद्धेतिरायुधे ॥
16.2.106 · p. 135
अनुष्टुप्
ज्वालायां च स्त्रियां सूर्ये तेजस्यपि तथा मता ।हेतुः स्यात्कारणे लिङ्गे होता त्वृत्विजि च क्वचित् ॥
16.2.107 · p. 135
अनुष्टुप्
क्षतं व्रणे भवेत्क्लीबे क्षतस्तु व्रणवत्यपि ।क्षतिर्नाशे स्त्रियां क्षन्ता सहने पुंसि गद्यते ॥
16.2.108 · p. 135
अनुष्टुप्
क्षत्ता शूद्रात्क्षत्रियाजे प्रतीहारे च सारथौ ।भुजिष्यातनयेऽपि स्यान्नियुक्तेऽपि च वेधसि ॥
16.2.109 · p. 135
अनुष्टुप्
क्षान्तं क्लीबे निगदितमपराधप्रमार्जने ।क्षिप्तं तु क्षेपिते वाच्यवद्धरण्यां क्षितिः स्त्रियाम् ॥
16.2.110 · p. 135
अनुष्टुप्
निवासेऽपि क्षये कालभेदेऽथ क्षवथौ क्षुतम् ।
16.2.111 · p. 135