All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
टान्तवर्गः · टतृतीयम्
॥ इति टद्वितीयम् ॥
॥ अथ टतृतीयम् ॥
अमृष्टमप्रिये प्रोक्तमस्पष्टमपि सङ्कुले ।अरिष्टमशुभे तक्रे सूतिकागार आसवे ॥
11.2.1 · p. 87
अनुष्टुप्
अशुभे मृत्युचिह्ने चाप्यादितेये तु कुत्रचित् ।अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः ॥
11.2.2 · p. 87
अनुष्टुप्
अभीष्टमीप्सिते दैवे त्वदृष्टमिति गद्यते ।अधृष्टं भीरुणि प्राहुरपटुं मूर्खरोगिणोः ॥
11.2.3 · p. 87
अनुष्टुप्
अवटस्तु खिले गर्ते कूपे कुहकजीविनि ।आदेशिते स्यादादिष्टमाज्ञप्तोच्छिष्टयोरपि ॥
11.2.4 · p. 87
अनुष्टुप्
प्रेतादिभिर्गृहीतो यः स आविष्ट इतीरितः ।उत्कटं त्रिषु शून्येऽथाप्युत्कटस्तीव्रमत्तयोः ॥
11.2.5 · p. 87
अनुष्टुप्
उद्भटः कच्छपे सूर्येऽप्युच्चटा वीरुधान्तरे ।उद्भटः स्यादतिप्रौढेऽप्युत्सटो मृगनायके ॥
11.2.6 · p. 87
अनुष्टुप्
कर्कटो राशिभेदे स्यात्कुलीरे विहगान्तरे ।करटस्त्विभगण्डे स्यात्कुसुम्भे निन्द्यजीविनि ॥
11.2.7 · p. 87
अनुष्टुप्
एकादशाहश्राद्धे च दुर्दुरूटेऽपि वायसे ।करटो वाद्यभेदे स्यात्कर्कटी तु फलान्तरे ॥
11.2.8 · p. 88
अनुष्टुप्
शिरोस्थिनि करोटिः स्यात्कर्पटं त्वथ वाससि ।कलाटी तु प्रकोष्ठे स्यादित्याहुः पण्डिता जनाः ॥
11.2.9 · p. 88
अनुष्टुप्
कपटं स्यात्कैतवेऽथ कार्प्पटो जतुकार्यिणोः ।कवाटं च कुवाटं च कपाटे कथितं बुधैः ॥
11.2.10 · p. 88
अनुष्टुप्
किलाटः शोषितक्षीरपिण्डे सूरिभिरिष्यते ।कीकटो देशभेदे स्यान्निःस्वकृपणयोरपि ॥
11.2.11 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 स्व (wrong syllable)
कुरुण्टी दारुपुत्र्यां स्याज्झिण्ट्यम्लानप्रभेदयोः ।कुक्कुट्यनृतचर्यायां कुक्कुटश्चरणायुधे ॥
11.2.12 · p. 88
अनुष्टुप्
निषादशूद्रयोः पुत्रे तृणोल्कायां च कुक्कुभे ।मनःशिलायां कुलटी नैपाल्यामथ योषिति ॥
11.2.13 · p. 88
अनुष्टुप्
स्वैरिण्यां, च कृपीटं तु मतं जठरतोययोः ।कृकाटोऽवयवे क्वापि केशटो हर्यजौ कणे ॥
11.2.14 · p. 88
अनुष्टुप्
कोयष्टिः कथितः शब्दवेदिभिर्जलकुक्कुभे ।अकेशमूर्ध्नि खल्वाटः खर्वटः कण्टकावृते ॥
11.2.15 · p. 88
अनुष्टुप्
खर्वटो ग्रामभेदेऽपि घरट्टश्चाश्मयन्त्रके ।चर्पटः स्फारविपुले चपेटेऽपि च पर्पटे ॥
11.2.16 · p. 88
अनुष्टुप्
चक्राटो विषवैद्ये च धूर्तदीनारयोरपि ।चिपिटः स्यात्खाद्यभेदे तथा पिट्टिकविस्तृते ॥
11.2.17 · p. 88
अनुष्टुप्
चर्वटा व्रीहिभेदे स्याच्चर्वटी पण्ययोषिति ।चिरण्टी तु सुवासिन्यां स्याद्द्वितीयवयःस्त्रियाम् ॥
11.2.18 · p. 89
अनुष्टुप्
वार्ताकुपुष्पे जकुटं पुंसि स्यान्मलये शुनि ।त्र्यङ्गटं स्याच्छिक्यभेदे धौताञ्जन्यां च योषिति ॥
11.2.19 · p. 89
अनुष्टुप्
त्रिकूटः शैलभेदे स्यात्त्रिकूटं लवणेऽब्धिजे ।त्रिपुटा स्यान्मल्लिकायां सूक्ष्मैलात्रिवृतोरपि ॥
11.2.20 · p. 89
अनुष्टुप्
सतीलके तथा तीरे त्रिपुटः समुदाहृतः ।दार्वटं तु मन्त्रवेश्मन्याहुर्वृद्धतरा नराः ॥
11.2.21 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
द्रोहाटो मृगलुब्धे स्याद्गाथाभेदे च कथ्यते ।तथा बैडालव्रतिके धाराटश्चातकाश्वयोः ॥
11.2.22 · p. 89
अनुष्टुप्
निष्कुटः स्याद्गृहोद्याने केदारे च कवाटके ।निर्द्दटः स्याद्दयाशून्ये निर्दिष्टो निष्प्रयोजने ॥
11.2.23 · p. 89
अनुष्टुप्
परापवादरक्ते च वाच्यलिङ्गोऽयमिष्यते ।बहुमानुषसङ्कीर्णे स्थले निर्मुटमुच्यते ॥
11.2.24 · p. 89
अनुष्टुप्
पुरोटिः पुरसंस्कारे गदिता तत्त्ववेदिभिः ।पर्पटः स्याद्भक्ष्यभेदे तथोक्तो भेषजान्तरे ॥
11.2.25 · p. 89
अनुष्टुप्
प्रवेष्टमन्तश्चेभानां दन्तमांसं विदुर्बुधाः ।पर्कटी नूतनफले तथा च प्लक्षपादपे ॥
11.2.26 · p. 89
अनुष्टुप्
परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणेऽपि च ।पात्रटः कर्पटे पुंसि कृशे स्यादभिधेयवत् ॥
11.2.27 · p. 89
अनुष्टुप्
पिच्चटः स्यान्नेत्ररोगे क्लीबं सीसकरङ्गयोः ।भावाटः कामुके साधौ निवेशे भावके नटे ॥
11.2.28 · p. 90
अनुष्टुप्
भाकूटः स्याच्छैलभेदे तथैव च झषान्तरे ।मर्कटी स्यात्तु चक्राङ्ग्यां मर्कटस्य च योषिति ॥
11.2.29 · p. 90
अनुष्टुप्
करञ्जे शूकशिम्ब्यां च तथा वानरलूतयोः ।मोरटं तु भवेदिक्षुमूलाङ्कोटप्रसूनयोः ॥
11.2.30 · p. 90
अनुष्टुप्
मोरटं सप्तरात्रोर्ध्वक्षीरे मूर्व्यां तु मोरटा ।वरटी हंसयोषायां गन्धोल्यामपि गद्यते ॥
11.2.31 · p. 90
अनुष्टुप्
वर्णाटो गायने चित्रकरे स्त्रीकृतजीवने ।विकटा वज्रवाराह्यां त्रिषूरुविकरालयोः ॥
11.2.32 · p. 90
अनुष्टुप्
शब्दविज्ञैर्निगदितो विपाटस्तु पतत्रिणि ।वेकटः स्यान्मत्स्यभेदे यूनि वैकटिकेऽपि च ॥
11.2.33 · p. 90
अनुष्टुप्
शकटं रथभेदे स्याच्छाकटस्तस्य वोढरि ।शाकटं धववृक्षेऽपि निगदन्ति च पूस्यपि ॥
11.2.34 · p. 90
अनुष्टुप्
शैलाटो देवले सिंहे शुक्लकाचकिरातयोः ।समष्टिर्मेलने प्रोक्ता संसृष्टमपि सङ्गते ॥
11.2.35 · p. 90
अनुष्टुप्
वमनादिविशुद्धेऽपि स्वादिष्टं स्वनियोजिते ।स्वादिष्टं चापि गदितं यत्स्यात्स्वादुरसाचितम् ॥
11.2.36 · p. 90
अनुष्टुप्