All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
फान्तवर्गः · फद्वितीयम्
॥ अथ फद्वितीयम् ॥
- कफो दोषे तृतीयके ॥
22.2.1 · p. 215
गुम्फस्तु गुम्फने हस्तालङ्कारेऽपि निगद्यते ।रेफो रवर्णे गदितः कुत्सिते वाच्यलिङ्गकः ॥
22.2.2 · p. 215
अनुष्टुप्
शफः पशूनां च खुरे तरुमूले शफं मतम् ।शिफा जटायां सरिति मांसिकायां च मातरि ॥
22.2.3 · p. 215
अनुष्टुप्