कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

थान्तवर्गः · थतृतीयम्

॥ इति थद्वितीयम्‌ ॥

॥ अथ थतृतीयम्‌ ॥

अव्यथो निर्व्यथे सर्पे चारटीपथ्ययोरपि ।अतिथिर्नृपभेदे स्यादागन्तावतिथिर्मतः ॥
17.3.1 · p. 169
अनुष्टुप्
अश्वत्थः पिप्पलतरावश्वत्था पूर्णिमातिथौ ।अन्यथा वैपरीत्ये स्यादपथं कुपथे मतम् ॥
17.3.2 · p. 170
अनुष्टुप्
आसन्दी लघुखट्वायां मता शाब्दिकमण्डनैः ।उन्माथो घातके कूटयन्त्रे चाप्यथ सारथौ ॥
17.3.3 · p. 170
अनुष्टुप्
उपस्थः शेफसि क्रोडे मतो मदनमन्दिरे ।उद्रथः स्यात्ताम्रचूडे रथकीलेऽपि कीर्तितः ॥
17.3.4 · p. 170
अनुष्टुप्
कायस्थो जातिभेदे स्यात्कायस्थः परमात्मनि ।कायस्था तु हरीतक्यां कायस्थं देहसंश्रिते ॥
17.3.5 · p. 170
अनुष्टुप्
गोग्रन्थिर्ना करीषे स्याद्गोष्ठे गोजिह्विकौषधौ ।दमथस्तु दमे दण्डे निशीथो रात्रिमात्रके ॥
17.3.6 · p. 170
अनुष्टुप्
अर्धरात्रेऽपि निर्ग्रन्थो नग्ने बालिशनिःस्वयोः ।प्रत्यर्थी वाच्यलिङ्गः स्याच्छत्रौ च प्रतिवादिनि ॥
17.3.7 · p. 170
अनुष्टुप्
मन्मथः कामचिन्तायां कुपित्थे कुसुमायुधे ।वरूथो रथगुप्तौ स्याद्वरूथं चर्मवेश्मनोः ॥
17.3.8 · p. 170
अनुष्टुप्
वमथुः पुंसि वमने हिक्कायां गजसीकरे ।वयस्थो वाच्यवद्यूनि वयस्था शाल्मलीद्रुमे ॥
17.3.9 · p. 170
अनुष्टुप्
ब्राह्मीगडूचीकाकोलीसूक्ष्मैलाऽऽमलकीषु च ।विदथो योगिकृतिनोर्वैय्यर्थ्ये वितथं मतम् ॥
17.3.10 · p. 170
अनुष्टुप्
शमथः सचिवे शान्तौ षड्ग्रन्थस्तु करञ्जके ।वचायामपि षड्ग्रन्था समर्थोऽपि हितेऽपि च ॥
17.3.11 · p. 171
अनुष्टुप्
सम्बन्धार्थेऽपि शक्तेऽपि गदितो वाच्यलिङ्गकः ।सिद्धार्थो मुनिसिंहे स्यात्सिद्धार्था सितसर्षपे ॥
17.3.12 · p. 171
अनुष्टुप्
क्षवथुर्ना क्षुते कासे क्षुण्णार्थः शास्त्रवेत्तरि ।
17.3.13 · p. 171