All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
थान्तवर्गः · थचतुर्थम्
॥ इति थतृतीयम् ॥
॥ अथ थचतुर्थम् ॥
भवेदितिकथा नष्टधर्मेऽपार्थवचस्यपि ।अश्रद्धेयेऽप्युदरथिः समुद्रे च वियन्मणौ ॥
17.4.2 · p. 171
अनुष्टुप्
चतुष्पथं चतुर्मार्गे सङ्गमे ब्राह्मणे पुमान् ।अथ चित्ररथः सूर्यगन्धर्वान्तरयोरपि ॥
17.4.3 · p. 171
अनुष्टुप्
दीनानाथस्त्वभिज्ञैश्च मूषिकेऽप्यभिधीयते ।मणिग्रन्थिस्तु मुण्डायां यथार्थे तु यथातथम् ॥
17.4.5 · p. 171
अनुष्टुप्
वानप्रस्थो मधुष्टीले स्यात्तृतीयाश्रमेऽपि च ।
17.4.6 · p. 171