All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
घान्तवर्गः · घतृतीयम्
॥ इति घद्वितीयम् ॥
॥ अथ घतृतीयम् ॥
अनघो निर्मलेऽपापे मनोज्ञे वाच्यलिङ्गवत् ।अमोघः स्यात्तु सफले स्त्रियां पथ्याविडङ्गयोः ॥
4.3.1 · p. 69
अनुष्टुप्
अनर्घं स्यान्महामूल्येऽप्युल्लाघो दक्षनीरुजोः ।तथैव च शुचौ कृच्छ्रे(ष्णे) काचिघः काञ्चने मतः ॥
4.3.2 · p. 69
अनुष्टुप्
छमण्डे मूषकेऽपि स्यान्निदाघः स्वेदवारिणि ।ग्रीष्मकाले तथैवोष्णे पलिघो गोपुरे मतः ॥
4.3.3 · p. 70
अनुष्टुप्
प्राकारे काचकलशे घटे च योगभिद्यपि ।अस्त्रे चाप्यर्गले घाते क्रोधे स्यात्प्रतिघो रुषि ॥
4.3.4 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
प्रतिघाते महार्घस्तु महामूल्ये च लावके ।सर्वौघो गुरुवेगे स्यात्सर्वसन्नहनेऽपि च ॥
4.3.5 · p. 70
अनुष्टुप्