कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

नान्तवर्गः · नचतुर्थम्

॥ इति नतृतीयम्‌ ॥

॥ अथ नचतुर्थम् ॥

ख्यातौ कुलध्वजे जन्मभूम्यामभिजनो मतः ।सेनाविशेषे सामान्ये स्त्रियामुक्ता त्वनीकिनी ॥
20.4.1 · p. 202
अनुष्टुप्
अनूचानः साङ्गवेदविज्ञेऽपि विनयान्विते ।अवागर्थे त्वपाचीनं विपर्यस्ते तु वाच्यवत् ॥
20.4.2 · p. 202
अनुष्टुप्
अभिपन्नोऽपराद्धेऽभिग्रस्ते चापद्गते त्रिषु ।अन्वासनं वस्तुभेदेऽप्युपास्तावनुशोचने ॥
20.4.3 · p. 202
अनुष्टुप्
अवलग्नोऽस्त्रियां मध्ये लग्नमात्रे त्रिलिङ्गकः ।अतिवृत्ते कर्मणि स्यादवदानं च खण्डने ॥
20.4.4 · p. 202
अनुष्टुप्
पराक्रमेऽपि गदितमनुमानं वितर्कणोः ? ।अभिमानो भवेद्दर्पे ज्ञाने प्रणयहिंसयोः ॥
20.4.5 · p. 202
अनुष्टुप्
अधिष्ठानं पुरे चक्रे प्रभावेऽध्यासनेऽपि च ।आवर्जनं प्रदाने स्याच्चैत्ये त्वायतनं मतम् ॥
20.4.6 · p. 202
अनुष्टुप्
आवर्त्तनं परावृत्तौ लास्ये त्वा(व)र्त्तनं मतम् ।आयोधनं वधे युद्धे त्वात्मयोनिर्विधौ स्मरे ॥
20.4.7 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आवेशनं स्यादावेशे प्रवेशे शिल्पिमन्दिरे ।आस्कन्दनं रणे संशोषणेऽपि स्यात्तिरस्कृतौ ॥
20.4.8 · p. 202
अनुष्टुप्
आच्छादनमपावृत्तौ तिरोधाने तथांशुके ।आराधनं सेवने स्यात्प्राप्तौ सन्तोषनिर्मिते ॥
20.4.9 · p. 203
अनुष्टुप्
आकाङ्क्षायामाकलनं विबन्धपरिसङ्ख्ययोः ।आतञ्चनं प्रतीवापजवनाप्यायनेषु च ॥
20.4.10 · p. 203
अनुष्टुप्
सम्भाषणे त्वालपनं लेपे चास्रपनं यथा ।उपधानं विशेषे च गण्डूषे प्रणयेऽपि च ॥
20.4.11 · p. 203
अनुष्टुप्
उत्सादनं समुल्लेखोद्वासनोद्वर्तनेषु च ।उद्वर्तनं चो(त्प)तनेऽप्यपावृत्तौ विलेपने ॥
20.4.12 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चो (syllables merged)
स्यादुत्पतनमुत्पत्तौ तथोर्ध्वगमनेऽपि च ।उदये स्यादुदयनं वत्सेशागस्त्ययोरपि ॥
20.4.13 · p. 203
अनुष्टुप्
उद्वाहनं द्विसीत्ये स्याद्रज्ज्वामुद्वाहनी मता ।उपासनं शराभ्यासेऽप्युपास्तावासनेऽपि च ॥
20.4.14 · p. 203
अनुष्टुप्
कञ्चुक्यन्तःपुराध्यक्षे षिड्गेऽहौ जोङ्गकद्रुमे ।कपीतनो गर्दभाण्डशिरीषाम्रातकेषु च ॥
20.4.15 · p. 203
अनुष्टुप्
अश्वत्थेऽथ पुमान्पारावतकेकिपिकेष्वपि ।कलध्वनिरथो कात्यायनो वररुचावपि ॥
20.4.16 · p. 203
अनुष्टुप्
काषायवस्त्रे विधवाऽर्धजरत्युमयोः स्त्रियाम् ।कात्यायनी च दुर्गायां कुम्भयोनिस्त्वगस्त्यके ॥
20.4.17 · p. 203
अनुष्टुप्
वसिष्ठद्रोणयोश्चापि भवेत्क्लीबे कुचन्दनम् ।रक्तचन्दनपत्राङ्गद्रुभेदेषु नपुंसकम् ॥
20.4.18 · p. 204
अनुष्टुप्
क्रौञ्चादनस्तु पिप्पल्यां चिञ्चोटकमृणालयोः ।खड्गधेनुः खड्गपुत्र्यां फेने गण्डकयोषिति ॥
20.4.19 · p. 204
अनुष्टुप्
गवादिनीन्द्रवारुण्यां गवां घासादनाश्रये ।घनाघनो मत्तगजे तथा वर्षुकतोयदे ॥
20.4.20 · p. 204
अनुष्टुप्
शक्रे च घोषयित्नुस्तु विप्रकोकिलयोः समः ।वह्न्यर्कयोश्चित्रभानुर्जलौकायां जलाटनी ॥
20.4.21 · p. 204
अनुष्टुप्
जलाटनो लोहपृष्ठखगे पाठीनसेऽपि च ।तपोधनस्तापसे स्यान्मुण्डीर्यां तु तपोधना ॥
20.4.22 · p. 204
अनुष्टुप्
दशेन्धनस्तु दीपे स्याद्दिप्त्याहुः शब्दवेदिनः ।देवसेनेन्द्रकन्यायां सेनायामपि तस्य वै ॥
20.4.23 · p. 204
अनुष्टुप्
नक्तं निर्गत्य यत्किञ्चि(च्छुभा)शुभकरं वचः ।श्रूयते तद्विदुर्धीरा दैवप्रश्नमुपश्रुतिम् ॥
20.4.24 · p. 204
अनुष्टुप्metre not read in every line
नागाञ्जना नागयष्टौ द्विरदस्यापि मुद्गरे ।भवेन्निधुवनं कम्पे पञ्चसायकसङ्गरे ॥
20.4.25 · p. 204
अनुष्टुप्
निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च ।निशामनं दर्शने स्यात्तथैवालोचनेऽपि च ॥
20.4.26 · p. 204
अनुष्टुप्
श्रुतौ दृष्टौ निशमनं तथा निरसनं वधे ।प्रतिक्षेपे च निष्ठीवे जनौ प्रजननं तथा ॥
20.4.27 · p. 204
अनुष्टुप्
योनौ चापि प्रहसनं रूपके हसने पुमान् ।प्रणिधानं प्रयत्ने स्यात्समाधौ च प्रवेशने ॥
20.4.28 · p. 205
अनुष्टुप्
प्रयोजनं कार्यहेत्वोः सिंहे पञ्चाननः शिवे ।अथ प्रवचनं वेदे प्रकृष्टवचनेऽपि च ॥
20.4.29 · p. 205
अनुष्टुप्
प्रतिपन्नोऽङ्गीकृते च विज्ञातेऽप्यन्यलिङ्गकः ।प्रस्फोटनं विकसने सूर्ये स्यात्ताडनेऽपि च ॥
20.4.30 · p. 205
अनुष्टुप्
प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ।प्रसाधनी तु कङ्कत्यां सिद्धौ वेशे प्रसाधनम् ॥
20.4.31 · p. 205
अनुष्टुप्
पयस्विनी नदीधेन्वोर्विभावर्यां च योषिति ।प्रतिपन्नश्च संस्कारलिप्सोपग्रहणेष्वपि ॥
20.4.32 · p. 205
अनुष्टुप्
अथ पुण्यजनो यक्षे राक्षसे सज्जनेऽपि च ।मृणालिन्यां पुटकिनीं प्रवदन्ति मनीषिणः ॥
20.4.33 · p. 205
अनुष्टुप्
पृथक्जनस्तु मूर्खे स्यात्तथा नीचजनेऽपि च ।महाधनं महामूल्ये सुवाससि च सिल्हके ॥
20.4.34 · p. 205
अनुष्टुप्
महासेनो बाहुलेये महासैन्यपतावपि ।मदयित्नुः पञ्चबाणे मद्ये तु स्यान्नपुंसकम् ॥
20.4.35 · p. 205
अनुष्टुप्
महामुनिरगस्त्ये ना कुस्तुम्बुरुणि न द्वयोः ।मालुधानो मातुलाहौ मालुधानी लतान्तरे ॥
20.4.36 · p. 205
अनुष्टुप्
मातुलानी कलाये स्याद्भङ्गायां मातुलस्त्रियाम् ।योजने मार्गधेनुः स्यादित्याहुः पण्डितोत्तमाः ॥
20.4.37 · p. 205
अनुष्टुप्
रसायनं विषेऽपि स्याज्जराव्याधिहरौषधे ।पुल्लिङ्गः पक्षिराजे च विडङ्गाख्यौषधेऽपि च ॥
20.4.38 · p. 206
अनुष्टुप्
राजादनं क्षीरिकायां प्रियाले किंशुकेऽपि च ।वर्धमानः प्रश्नभेदे शरावैरण्डविष्णुषु ॥
20.4.39 · p. 206
अनुष्टुप्
विस्मापनो ना कुहके गन्धर्वनगरे स्मरे ।विसर्जनं परित्यागे दाने सम्प्रेषणेऽपि च ॥
20.4.40 · p. 206
अनुष्टुप्
विरिञ्चनो निगदितो ब्रह्मण्यपि विरिञ्चिवत् ।विरोचनोऽग्न्यर्कचन्द्रप्रह्रादतनयेषु च ॥
20.4.41 · p. 206
अनुष्टुप्
विहेठनं तु हिंसायां मर्दनेऽपि विडम्बने ।ऋणमोक्षे विगणनं कथयन्ति विचक्षणाः ॥
20.4.42 · p. 206
अनुष्टुप्
भवेद्विहननं विघ्नहिंसयोस्तूलपिञ्जने ।विलुण्ठनी तु लोटन्यां लुण्ठने तु नपुंसकम् ॥
20.4.43 · p. 206
अनुष्टुप्
विश्वक्सेनो विष्णुगणे विष्णौ च स्यादथ स्त्रियाम् ।विश्वक्सेना फलिन्यां स्यात्सुयोषायां विलेपिनी ॥
20.4.44 · p. 206
अनुष्टुप्
विलेपनी यवाग्वाञ्च विदारीकन्दकेऽपि च ।वैरोचनिस्तु सुगते बलिदैत्यार्कपुत्रयोः ॥
20.4.45 · p. 206
अनुष्टुप्
शिखण्डिनी तु गुञ्जायां यूथिकायां च योषिति ।अथ श्लेश्मघना मल्ल्यां केतक्यां च निगद्यते ॥
20.4.46 · p. 206
अनुष्टुप्
सम्मूर्छनमभिव्याप्तावुत्साहमोहयोरपि ।समुत्थानं निर्णये स्याद्व्याधीनां च समुद्गमे ॥
20.4.47 · p. 206
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
गन्धहस्तिनि हेरम्बे सदादानोऽभ्रहस्तिनि ।अथ संवदनं क्लीबमालोचे च वशीकृतौ ॥
20.4.48 · p. 207
अनुष्टुप्
चतुःशाले सञ्जवनं प्रवदन्ति मनीषिणः ।समादानं समीचीनग्रहणे सौगताह्निके ॥
20.4.49 · p. 207
अनुष्टुप्
संवाहनं त्वङ्गमर्दे वाहनेऽपि नपुंसकम् ।समापनं परिच्छेदे समाप्तिवधयोरपि ॥
20.4.50 · p. 207
अनुष्टुप्
सनातनः पित्रतिथ्यन्तरेऽजे शाश्वते हरे ।स्तनयित्नुस्तु जीमूते स्तनितेऽपि निगद्यते ॥
20.4.51 · p. 207
अनुष्टुप्
सरोजिनी तु पद्मिन्यां तथैव कमलाकरे ।बन्धे व्रते संयमनं यमपुर्यामपि स्त्रियाम् ॥
20.4.52 · p. 207
अनुष्टुप्
मेखलायां सारसनमप्युरस्त्रे नपुंसकम् ।सामिधेनी तु धाय्यायां समिध्यपि च योषिति ॥
20.4.53 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
सामयोनिस्तु सामोत्थे ब्रह्मकुञ्जरयोरपि ।सांयुगीनस्तु सङ्ग्रामे यः साधुः सोऽभिधीयते ॥
20.4.54 · p. 207
अनुष्टुप्
सुदर्शनं हरेश्चक्रे मेरुजम्बुद्रुमेऽपि च ।तथैव शक्रनगर आज्ञौषधिभिदोरपि ॥
20.4.55 · p. 207
अनुष्टुप्
सुयामुनो वत्सराजे प्रासादेऽभ्रान्तरेऽच्युते ।सौदामिनी स्त्रियां विद्युदप्सरोभेदयोरपि ॥
20.4.56 · p. 207
अनुष्टुप्
हर्षयित्नुः पुमान् पुत्रे काञ्चने तु नपुंसकम् ।
20.4.57 · p. 207