कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

नान्तवर्गः · नद्वितीयम्

॥ अथ नद्वितीयम्‌ ॥

अग्निर्वह्नौ चित्रके चाप्यनः शकटमातरि ।अन्नं भक्ते च भुक्ते स्यादिनः पत्यौ नृपार्कयोः ॥
20.2.1 · p. 186
अनुष्टुप्
उन्नं क्लिन्ने च सुरते तूनं हीने रणोद्यमे ।एनः पापे च दुःखे च क्लिन्नं तु स्याज्जलाप्लुते ॥
20.2.2 · p. 186
अनुष्टुप्
कृत्स्नं सर्वाम्बुकुक्षिषु त्वाहुर्गानं तु गायने ।ग्लानं म्लाने मतं गानं गीतौ चापि निरूपितम् ॥
20.2.3 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्षि (wrong syllable)
घनः सान्द्रे दृढे मेघे विस्तारे लोहमुद्गरे ।घनं तु कांस्यतालादिवाद्यमध्यमनृत्ययोः ॥
20.2.4 · p. 186
अनुष्टुप्
चिह्नं ध्वजे पताकायां चीनो देशान्तरे मतः ।तथा मृगान्तरे तन्तुव्रीहिभेदेऽंशुकान्तरे ॥
20.2.5 · p. 186
अनुष्टुप्
छन्नं तु छादिते वाच्यलिङ्गं क्लीबे रहस्यपि ।छिन्ना गडूच्यां पुंश्चल्यां छिन्नं कृत्ते त्रिलिङ्गकम् ॥
20.2.6 · p. 186
अनुष्टुप्
जनो लेाकान्तरे लेाके पामरे चाभिधीयते ।जनी सीमन्तिनीवध्वोरुत्पत्तावौषधीभिदि ॥
20.2.7 · p. 186
अनुष्टुप्metre not read in every lineimpossible sign sequence: जनो लेाकान्तरimpossible sign sequence: ाकान्तरे लेाके पाम
जह्नुः स्यात्पुंसि राजर्षिभेदे च मधुसूदने ।जनुर्जन्मन्यपि जनिस्तदर्थैव निगद्यते ॥
20.2.8 · p. 186
अनुष्टुप्
ज्यानिर्हानौ तटिन्यां च जिनोऽर्हति च जित्वरे ।अतिवृद्धे च बुद्धे च ज्योत्स्ना चन्द्रातपे मता ॥
20.2.9 · p. 187
अनुष्टुप्
ज्योत्स्ना पटोलिकायां च ज्योत्स्ना शुक्लविभावरी ।शुक्लपक्षनिशि ज्योत्स्नी ज्ञानं तत्त्वार्थनिश्चये ॥
20.2.10 · p. 187
अनुष्टुप्
ज्ञानी तु पुंसि दैवज्ञे ज्ञानयुक्तेऽन्यलिङ्गकः ।तनुः कृशेऽल्पे विरले तनुः काये त्वचि स्त्रियाम् ॥
20.2.11 · p. 187
अनुष्टुप्
तानं प्रताने गीते च दानं गजमदे मतम् ।तथा त्यागेऽप्यभिहितं पालनच्छेदशुद्धिषु ॥
20.2.12 · p. 187
अनुष्टुप्
दानुर्दातरि विक्रान्ते दीना मूषकयोषिति ।दानुः स्त्रियां दनुरिव मता दानवमातरि ॥
20.2.13 · p. 187
अनुष्टुप्
दीनं च दुर्गते भीते दिनं त्वहनि न स्त्रियाम् ।दूनं तु दुःखसम्पन्ने दृग्घ्नं दृग्विहते मतम् ॥
20.2.14 · p. 187
अनुष्टुप्
द्युम्नं पराक्रमे वित्ते धनं वित्ते च गोधने ।धनुः पुमान् प्रियालद्रौ राशिभेदे शरासने ॥
20.2.15 · p. 187
अनुष्टुप्
ध्वनिः शब्दे तथा ध्वानः कथितः शब्दवेदिभिः ।धाना तु स्याद्भ्रष्टयवे धन्याकेऽभिनवोद्भिदि ॥
20.2.16 · p. 187
अनुष्टुप्
धान्यं तु बीजमात्रे स्याद्धुनी नद्यां नदे पुमान् ।धेनुर्गवि प्रसूतायां नग्नः क्षपणबन्दिनोः ॥
20.2.17 · p. 187
अनुष्टुप्
विवाससि स्यूतवस्त्रे नग्नः कच्छविवर्जिते ।नानाऽव्ययमनेकार्थे भूतं त्वभिनवे मतम् ॥
20.2.18 · p. 187
अनुष्टुप्
नुन्नः सम्प्रेरिते नूनं निश्चयार्थेऽव्ययं मतम् ।न्युनं गर्ह्योनयोः पानं पीतिभाजनरक्षणे ॥
20.2.19 · p. 188
अनुष्टुप्
पीनस्तु परिपुष्टे स्यात्फेनी भक्षान्तरे मता ।फेनः स्यादपि डिण्डीरे फेन्यपि स्यात्सरित्पतौ ॥
20.2.20 · p. 188
अनुष्टुप्
ब्रध्नो दीनमणावुक्तस्तेजस्विन्यपि कुत्रचित् ।बुध्नो मूले निगदितो भग्नो भिन्ने पराजिते ॥
20.2.21 · p. 188
अनुष्टुप्
भानुर्ना किरणे सूर्ये भिन्नः स्यात्त्रिषु दारिते ।सङ्गतेऽन्यत्र फुल्ले च भुग्नं तु स्यात्प्रमोटिते ॥
20.2.22 · p. 188
अनुष्टुप्
मग्नं निमग्ने मानस्तु ग्रहे चित्तोन्नतावपि ।क्लीबं प्रमाणे प्रस्थादौ मीनो राश्यन्तरे झषे ॥
20.2.23 · p. 188
अनुष्टुप्
मुनिः पुंसि वसिष्ठादौ वङ्गसेनतरौ जिने ।मृत्स्ना मृत्स्नातुवर्योः स्त्री मेना हिमगिरेः स्त्रियाम् ॥
20.2.24 · p. 188
अनुष्टुप्
मौनं वाङ्नियमे यत्नो व्यापारेऽप्यथ वाहने ।गमनेऽपि च यानं स्याद्योनिः स्त्रीपुंसयोरपि ॥
20.2.25 · p. 188
अनुष्टुप्
स्यादाकरे च जनने स्त्रीणां च स्मरमन्दिरे ।रत्नं स्वजातिश्रेष्ठे स्यान्मणावपि नपुंसकम् ॥
20.2.26 · p. 188
अनुष्टुप्
बद्धमुष्टिकरे रत्निः निष्कनिष्ठे त्वरत्निवत् ।रास्ना तु स्याद्भुजङ्गाक्ष्यामेलापर्ण्यामपि स्त्रियाम् ॥
20.2.27 · p. 188
अनुष्टुप्
लग्नं सक्ते लज्जिते च तथा राश्युदयेऽपि च ।लीनं विलयने गुप्तौ लूनं छिन्नेऽपि वाच्यवत् ॥
20.2.28 · p. 189
अनुष्टुप्
वनं नीरे कानने च वह्निरग्नौ च चित्रके ।वन्या वनसमूहे स्याद्वनी चापि निगद्यते ॥
20.2.29 · p. 189
अनुष्टुप्
वस्नं स्याद्वेतने मूल्ये वसनद्रव्ययोरपि ।वानं शुष्कफले शुष्के कटे सीवनकर्मणि ॥
20.2.30 · p. 189
अनुष्टुप्
विन्नं ज्ञाते स्थिते लब्धे शीनोऽजगरमूर्खयोः ।श्येनः खगे पाण्डुरे च स्वप्नः स्वापे च दर्शने ॥
20.2.31 · p. 189
अनुष्टुप्
प्रसुप्तस्य च विज्ञाने सानुः प्रस्थे वनेऽपि च ।स्थानं स्थितौ च सादृश्ये सन्निवेशावकाशयोः ॥
20.2.32 · p. 189
अनुष्टुप्
स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि ।स्नानीयेऽभिषवे स्नानं सूनं प्रसवपुष्पयोः ॥
20.2.33 · p. 189
अनुष्टुप्
सूना पुत्र्यां वधस्थानगलशुण्डिकयोरपि ।सूनुः पुत्रेऽनुजेऽर्के ना स्योनः किरणसूर्ययोः ॥
20.2.34 · p. 189
अनुष्टुप्
हनुर्हट्टविलासिन्यां कपोलावयवे गदे ।हनुः प्रहरणे मृत्यौ हीनं गर्ह्योनयोस्त्रिषु ॥
20.2.35 · p. 189
अनुष्टुप्
हानिः क्षये स्त्रियां हूनो देशे जात्यन्तरे मतः ।
20.2.36 · p. 189