All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
लान्तवर्गः · लपञ्चमम्
॥ इति लचतुर्थम् ॥
॥ अथ लपञ्चमम् ॥
आसुतीबल इत्याख्या कल्पपादपयज्वनोः ।भवेदुद्दण्डपालस्तु सर्पमत्स्यप्रभेदयोः ॥
28.5.1 · p. 314
अनुष्टुप्
स्यात्पाण्डुकम्बलः श्वेतप्रावारग्रावभेदयोः ।वराहकाली कथिता तुर्यावर्ते तु शाब्दिकैः ॥
28.5.3 · p. 314
अनुष्टुप्
भवेत्सुरतताली तु दूतिकायां शिरःस्रजि ॥
28.5.4 · p. 314