All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
दान्तवर्गः · दचतुर्थम्
॥ इति दतृतीयम् ॥
॥ अथ दचतुर्थम् ॥
अष्टापदं च कनके सारीणां फलकेऽपि च ।अष्टापदश्च सरभे चन्द्रमल्ल्यां च मर्कटे ॥
18.4.1 · p. 177
अनुष्टुप्
निन्दायामपवादः स्यादाज्ञाविस्रम्भयोरपि ।अभिस्यन्दोऽक्षिरोगे स्यादभिवृद्धौ तथाऽऽश्रवे ॥
18.4.2 · p. 178
अनुष्टुप्
अभिमर्दः सम्परायेऽप्यवमर्दे च गद्यते ।महोत्पलेऽरविन्दं स्यादिरिमेदो महीरुहे ॥
18.4.3 · p. 178
अनुष्टुप्
उपच्छन्दः प्रार्थनायां गदितस्तत्त्ववेदिभिः ।तत्काले स्यादेकपदं पदव्यामेकपद्यपि ॥
18.4.4 · p. 178
अनुष्टुप्
कटुकन्दस्तु शिग्रौ स्याच्छृङ्गवेररसोनयोः ।कुरुविन्दो व्रीहिभेदे मुस्ताकुल्माषयोरपि ॥
18.4.5 · p. 178
अनुष्टुप्
प्रियंवदः खेचरे स्यात्प्रियवादिनि वाच्यवत् ।पीठमर्दोऽतिधृष्टे स्यान्नाट्योक्तौ नायकप्रिये ॥
18.4.9 · p. 178
अनुष्टुप्
पुटभेदो नदीवक्रे पत्तनातोद्ययोरपि ।महानादो वर्षुकाब्दे वारणेऽथ महास्वने ॥
18.4.10 · p. 178
अनुष्टुप्
मकरन्दः पुष्परसे मरन्दवदुदीरितः ।मुचुकुन्दो वृक्षभेदे मुनिदैत्यविशेषयोः ॥
18.4.11 · p. 179
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
विशारदोऽतिधिषणे धृष्टे चापि निगद्यते ।मतं विष्णुपदं व्योम्नि क्षीरोदे चाप्यथ स्त्रियाम् ॥
18.4.14 · p. 179
अनुष्टुप्
जाह्नव्यां रविसङ्क्रान्तिभेदे च परिकीर्त्यते ।शशबिन्दुर्वासुदेवे तथा भूपान्तरेऽपि च ॥
18.4.15 · p. 179
अनुष्टुप्
शतानन्दो मुनेर्भेदे देवकीनन्दनेऽपि च ।शतह्रदा त्विन्द्रवज्रे सौदामिन्यां च गद्यते ॥
18.4.16 · p. 179
अनुष्टुप्
समर्यादस्तु मर्यादासहिते च समीपगे ।स्वर्णच्छदस्तु गरुडे वृक्षे सप्तच्छदः क्वचित् ॥
18.4.17 · p. 179
अनुष्टुप्