All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
पान्तवर्गः · पतृतीयम्
॥ इति पद्वितीयम् ॥
॥ अथ पतृतीयम् ॥
अनूपो महिषे देशभेदेऽपि स्यात्तु वाच्यवत् ।आवापो भाण्डवपने परिक्षेपालवालयोः ॥
21.3.1 · p. 212
अनुष्टुप्
आतपस्तु प्रकाशे स्यादादित्येऽपि निगद्यते ।आक्षेपो भर्त्सनाकृष्टिकाव्यालङ्कृतिषु स्मृतः ॥
21.3.2 · p. 212
अनुष्टुप्
आकल्पः कल्पने वेषेऽप्युडुपः प्लवचन्द्रयोः ।उलपस्तृणभेदे स्याद्गुल्मिन्यामुलपोऽस्त्रियाम् ॥
21.3.3 · p. 212
अनुष्टुप्
कच्छपी वल्लकीभेदे दुलौ क्षुद्रगदान्तरे ।निध्यन्तरे तथा कूर्मे मल्लभेदे च कच्छपः ॥
21.3.4 · p. 212
अनुष्टुप्
कलापः संहतौ बर्हे तूणीरे भूषणे हरेः ।कशिपुर्भक्ताच्छादनयोरेकोक्त्या च पृथक्तयोः पुंसि ॥
21.3.5 · p. 212
अनुष्टुप्metre not read in every line
कश्यपो मीनमृगयोर्भेदे भूमौ तु काश्यपी गदिता ।कुतुपस्तु कुशे वाद्ये रवौ नेपालकम्बले ॥
21.3.6 · p. 212
अनुष्टुप्metre not read in every line
कुतपो भागिनेये च भागे घस्रस्य चाष्टमे ।विट्शारिकायां कुणपी पूतीगन्धे शवे च ना ॥
21.3.7 · p. 212
अनुष्टुप्
कुलपः स्यात्कुलाधीशे कोणपो निर्ऋतीश्वरे ।रक्षोमात्रे खबाष्पस्तु मिहिकायां निगद्यते ॥
21.3.8 · p. 212
अनुष्टुप्
जिह्वापः शुनि मार्जारे जीवपः प्राणनायके ।त्वगङ्कुरे तु त्वक्पुष्पं प्रवदन्ति मनीषिणः ॥
21.3.10 · p. 213
अनुष्टुप्
तिरिपः शालिभेदे स्याद्धनपो गुह्यकेश्वरे ।धेनुपः स्यात्तु गोपाले प्रतापस्तापतेजसोः ॥
21.3.11 · p. 213
अनुष्टुप्
पादपः पादपीठेऽद्रौ पादुकायां तु पादपा ।रक्तपा तु जलौकायां डाकिन्यां राक्षसे पुमान् ॥
21.3.12 · p. 213
अनुष्टुप्
वटपा वटयक्षिण्यां भवेज्झाटे तु बालपः ।विटपः पल्लवे खिड्गे विस्तारे स्तम्बशाखयोः ॥
21.3.13 · p. 213
अनुष्टुप्
विकल्पः पुंसि निभ्रान्तौ कल्पनेऽपि प्रकल्प्यते ।
21.3.14 · p. 213