All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
सान्तवर्गः · सद्वितीयम्
॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये षान्तवर्गः ॥
॥ अथ सान्तवर्गः ॥
॥ अथ सद्वितीयम् ॥
असिः खड्गे मतः पुंसि स्कन्धे त्वंस उदीरितः ।असुः प्राणे धनु(ष्या)सः कंसो दैत्यभिदि स्मृतः ॥
32.1.1 · p. 335
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कंसोऽस्त्री तैजसद्रव्ये कांस्ये मानेऽसुरे तु ना ।कासस्तु क्षवथावुक्तः का(सू)र्विकलवाच्यपि ॥
32.1.2 · p. 335
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कासूः शक्त्यायुधे प्रोक्ता खसो देशान्तरे मतः ।ग्रासस्तु कवले ख्यातो गुत्सः स्याद्ग्रन्थिपर्णके ॥
32.1.3 · p. 335
अनुष्टुप्
तथैव स्तबके स्तम्बे हारभेदे निगद्यते ।दासः शूद्रे दानपात्रे भृत्यधीवरयोरपि ॥
32.1.4 · p. 335
अनुष्टुप्
नासा घ्राणाधिकरणे तथा द्वारोर्ध्वदारुणि ।प्रसूरश्वाजनन्योश्च कन्दलीवीरुधोः स्त्रियाम् ॥
32.1.5 · p. 335
अनुष्टुप्
भासः पक्षिविशेषे स्यान्मासः पक्षद्वयोर्मतः ।मांसं स्यादामिषे क्लीबं कङ्कोलीजटयोः स्त्रियाम् ॥
32.1.6 · p. 335
अनुष्टुप्
मांसी तु मधुरामांस्योः शतपुष्पाजमोदयोः ।मिसिस्तु शतपुष्पायां मृत्सा काङ्क्ष्यां च मृद्यपि ॥
32.1.7 · p. 335
अनुष्टुप्
यासो यवासे यासं तु यासपुष्पे निगद्यते ।रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः ॥
32.1.8 · p. 335
अनुष्टुप्
शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे ।रसा तु शल्लकी(पाठा)रसनाभूमिकङ्गुषु ॥
32.1.9 · p. 335
अनुष्टुप्metre not read in every line
रासः कोलाहले ध्वाने भाषाशृङ्खलकेऽपि च ।क्रीडाभेदे च गोपानां लासो लास्ये निगद्यते ॥
32.1.10 · p. 336
अनुष्टुप्
वत्सस्तर्णकपुत्रादौ वर्षे क्लीबं तथोरसि ।वसुर्ना देवभेदाग्निमयूखेषु धनाधिपे ॥
32.1.11 · p. 336
अनुष्टुप्
शुक्रे राजविशेषे च रत्नेऽर्थे मधुरे त्रिषु ।व्यंसो गतांसके प्रोक्तो वसा मांसरसे मता ॥
32.1.12 · p. 336
अनुष्टुप्
वासा त्वोषधिभेदे स्याद्वासो निवसनेऽम्बरे ।व्यासो ना विस्तृतौ द्वैपायनेऽपि परिकीर्तितः ॥
32.1.13 · p. 336
अनुष्टुप्
शंसा वचसि वाञ्च्छायां हंसः स्यात्परमात्मनि ।निर्ल्लोभनृपवि(ष्ण्व)र्कमरालेष्वपि मत्सरे ॥
32.1.14 · p. 336
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
योगभेदे मन्त्रभेदे शरीरमरुदन्तरे ।तुरङ्गमप्रभेदे च हिंसा चौर्यादिघातयोः ॥
32.1.15 · p. 336
अनुष्टुप्