कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

दान्तवर्गः · दद्वितीयम्

॥ अथ दद्वितीयम्‌ ॥

अब्दः संवत्सरे वारिवाहमुस्तकयोरपि ।अन्दुर्भूषणभेदे स्यान्निगडे तु मता स्त्रियाम् ॥
18.2.1 · p. 172
अनुष्टुप्
अदः स्यादिदमर्थेऽपि स्याददस्त्वदने पुमान् ।अदः स्यात्प्रथमे त्वेतदर्थे स्यादिदमव्ययम् ॥
18.2.2 · p. 172
अनुष्टुप्
कन्दोऽस्त्री सूरणे धान्यमूले जलधरेऽपि च ।कुन्दश्चक्रे भ्रमे माघ्ये निधिभेदे सुरद्विषि ॥
18.2.3 · p. 172
अनुष्टुप्
गदः कृष्णानुजे रोगे गदा स्यादायुधान्तरे ।गोदा गोदावरीनद्यां गोदा योषिति गद्यते ॥
18.2.4 · p. 172
अनुष्टुप्
छदः पलाशे गरुति ग्रन्थिपर्णतमालयोः ।छन्दो वशेऽप्यभिप्राये वेदे वृत्ते निगद्यते ॥
18.2.5 · p. 172
अनुष्टुप्
छदिः पिधाने छर्दिः स्याद्वमनेऽपि मता स्त्रियाम् ।तुन्दं स्यादुदरे तोदस्तोदने पुंसि गद्यते ॥
18.2.6 · p. 173
अनुष्टुप्
नदी सरिति शोणादौ ना नन्दा स्यादलिञ्जरे ।गौर्यां तिथिविशेषे स्त्री नन्दो गोपान्तरे मतः ॥
18.2.7 · p. 173
अनुष्टुप्
नन्दिर्हरप्रतीहारे द्यूते भाण्डे वटद्रुमे ।नान्दी तु मङ्गलश्लोके स्त्रियां नादस्तु निस्वने ॥
18.2.8 · p. 173
अनुष्टुप्
निन्दा स्यादपवादेऽपि कुत्सायामपि योषिति ।पदं शब्दे च वाक्ये च व्यवसायापदेशयोः ॥
18.2.9 · p. 173
अनुष्टुप्
पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः ।श्लोकपादेऽपि च क्लीबं पुल्लिङ्गः किरणे मतः ॥
18.2.10 · p. 173
अनुष्टुप्
पादो बुध्ने तुरीयांशे शैलप्रत्यन्तपर्वते ।बिन्दुस्तु दन्तदशने तथा वेदितृविप्रुषोः ॥
18.2.11 · p. 173
अनुष्टुप्
भ्रुवोर्मध्ये रूपकाव्यकृतौ चापि निगद्यते ।भिदिर्भेदिश्च कुलिशे शब्दवेदिन ऊचिरे ॥
18.2.12 · p. 173
अनुष्टुप्
भेदो द्वैधे विशेषे स्यादुपजापे विदारणे ।कल्याणशर्मणोर्भद्रं मदो रेतसि गद्यते ॥
18.2.13 · p. 173
अनुष्टुप्
कस्तूर्यामपि गर्वे च तथा हर्षेभदानयोः ।मन्दो मूर्खे त्वतीक्ष्णे च स्वैरे चाभाग्यरोगिणोः ॥
18.2.14 · p. 174
अनुष्टुप्
अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ ।मृदुः स्यात्कोमलेऽतीक्ष्णे मेदो धात्वन्तरे पुनः ॥
18.2.15 · p. 174
अनुष्टुप्
मोदो गणेश्वरभिदि प्रमोदे मोद उच्यते ।जलजन्तुनि यादः स्याद्रदो दन्ते विलेखने ॥
18.2.16 · p. 174
अनुष्टुप्
वन्दा लतान्तरे प्रोक्ता भिक्षुक्यामपि कीर्तिता ।विदा ज्ञाने च निर्दिष्टा मनीषायां च योषिति ॥
18.2.17 · p. 174
अनुष्टुप्
वेदः श्रुतौ च वित्तौ च वेदिः पुंसि च पण्डिते ।वेदिरङ्गुलिमुद्रायां स्यात्परिष्कृतभूतले ॥
18.2.18 · p. 174
अनुष्टुप्
शादस्तु विषभेदे स्याच्छादः कर्दमशष्पयोः ।श्रीदः श्रीमति निर्दिष्टस्तथा पुण्यजनेश्वरे ॥
18.2.19 · p. 174
अनुष्टुप्
स्यदो जवे निगदितः सादस्तु स्याद्विनाशने ।स्वादुर्मिष्टे मनोज्ञे च गद्यते वाच्यलिङ्गकः ॥
18.2.20 · p. 174
अनुष्टुप्
सादी तुरङ्गमातङ्गरथारोहेषु चोच्यते ।सूदस्तु व्यञ्जने प्रोक्तस्तथा स्यात्सूपकारके ॥
18.2.21 · p. 174
अनुष्टुप्
स्वेदस्तु स्वेदने घर्मे ह्रदस्तु स्याज्जलाशये ।हृद्बुक्कचित्तयोः क्लीबं क्षोदः पुंसि रजस्यपि ॥
18.2.22 · p. 174
अनुष्टुप्