All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
भान्तवर्गः · भद्वितीयम्
॥ इति भैकम् ॥
॥ अथ भद्वितीयम् ॥
अम्भा जले तु शोभायामाभा स्यात्करिणि त्विभः ।कुम्भो राश्यन्तरे योगविशेषे गदितो घटे ॥
24.2.1 · p. 218
अनुष्टुप्
कामुके वारनार्यां च करिमूर्धनि राक्षसे ।गुग्गुलौ वारनार्याश्च पतौ कुम्भा त्रिवृत्यपि ॥
24.2.2 · p. 218
अनुष्टुप्
कुम्भी तु पाटलावारिपर्णीपिठरकट्फले ।गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके ॥
24.2.3 · p. 218
अनुष्टुप्
जम्भो दैत्यान्तरे दन्ते जम्बीरेऽपि च भक्षणे ।जृम्भो हर्षे विकासे च जृम्भायामपि गद्यते ॥
24.2.4 · p. 218
अनुष्टुप्
डिम्भस्तु बालके मूर्खे तथा बालिशचेष्टिते ।दम्भः स्यात्कैतवे कल्के दृन्भूः स्त्री सर्पवज्रयोः ॥
24.2.5 · p. 218
अनुष्टुप्
नभस्तु श्रावणे पुंसि खे तु क्लीबे मतं नभः ।नाभिस्त्ववयवे मुख्यनृपे क्षत्रियमात्रके ॥
24.2.6 · p. 218
अनुष्टुप्
चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे ।निभस्तु कथितो व्याजे पुल्लिङ्गः सदृशे त्रिषु ॥
24.2.7 · p. 219
अनुष्टुप्
प्रभुः परिवृढे प्रोक्तः समर्थेऽपि निगद्यते ।रम्भा कदल्यप्सरसोर्ना वेणौ वानरान्तरे ॥
24.2.8 · p. 219
अनुष्टुप्
लाभः प्राप्तौ भवेल्लोभः कार्पण्यातिशयेऽपि च ।विभुः प्रभौ सर्वगते शङ्करब्रह्मणोरपि ॥
24.2.9 · p. 219
अनुष्टुप्
शम्भुरर्हन्महादेवपरमेष्ठिषु कीर्त्तितः ।शुभो योगविशेषेऽपि शुभं क्षेमेऽपि गद्यते ॥
24.2.10 · p. 219
अनुष्टुप्
शुम्भो दैत्यविशेषेऽपि शोभा कान्तीच्छयोर्मता ।सभा सामाजिके द्यूते गोष्ठीमन्दिरयोरपि ॥
24.2.11 · p. 219
अनुष्टुप्
स्वभूर्ना ब्रह्मणि हरौ स्तम्भः स्थूणाजडत्वयोः ।क्षोभः कोपविशेषे च कल्पान्तेऽपि निगद्यते ॥
24.2.12 · p. 219
अनुष्टुप्