कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

जान्तवर्गः · जतृतीयम्

॥ इति जद्वितीयम् ॥

॥ अथ जतृतीयम् ॥

अण्डजो मृगनाभौ स्याज्झषेऽहौ सरटे खगे ।अम्बुजो निचुले पुंसि शङ्खे क्लीबं तु वारिजे ॥
8.3.1 · p. 78
अनुष्टुप्
अङ्गजं रुधिरेऽनङ्गकेशपुत्रगदेषु च ।अनुजोऽवरजे छिन्नबाहुके त्वभुजः स्मृतः ॥
8.3.2 · p. 78
अनुष्टुप्
करजस्तु करञ्जे स्यान्नखे व्याघ्रनखेऽपि च ।काम्बोजो हस्तिभेदे च शङ्खदेशविशेषयोः ॥
8.3.3 · p. 78
अनुष्टुप्
काम्बोजी माषपर्ण्यां च हिङ्गुपर्ण्यामपि क्वचित् ।काम्बोजस्तुरगे सोमवल्के पुन्नागपादपे ॥
8.3.4 · p. 78
अनुष्टुप्
गजार्भके कारुजः स्याद्वल्मीके गैरिकेऽपि च ।स्वयञ्जाततिले फेने तथा स्यान्नागकेसरे ॥
8.3.5 · p. 78
अनुष्टुप्
कारुजः शिल्पिनां चित्रे कुटजः स्याद्द्रुमान्तरे ।अगस्त्यद्रोणयोश्चापि गिरिजं त्वभ्रके मतम् ॥
8.3.6 · p. 78
अनुष्टुप्
शिलाजतुनि शैवाले लोहे च गिरिजा पुनः ।अपर्णायां मातुलुङ्ग्यां जलजं कमले मतम् ॥
8.3.7 · p. 78
अनुष्टुप्
पुमाञ्शङ्खे नीरजश्च नीरजं पद्मकुष्ठयोः ।परञ्जस्तैलपिञ्जे स्याच्छुरिकाकरवालयोः ॥
8.3.8 · p. 78
अनुष्टुप्
देवोद्याने तु वैभ्राजमिति तत्त्वार्थवादिनः ।बलजं क्षेत्रपूर्द्वारे बलजा वल्गुदर्शना ॥
8.3.9 · p. 78
अनुष्टुप्
बलजं गोपुरे क्षेत्रे सस्यसङ्गरयोरपि ।बलजा वरयोषायां वसुमत्यामपि स्मृता ॥
8.3.10 · p. 79
अनुष्टुप्
बाहुजः क्षत्रिये तु स्याद्भूमिजो नरकारयोः ।भूमिजापि च जानक्यां भानुजो यममन्दयोः ॥
8.3.11 · p. 79
अनुष्टुप्
घटोत्कचे भीमजः स्यान्मनोजः पञ्चसायके ।मनुजो नरमात्रेऽपि यवजः क्षारभिद्यपि ॥
8.3.12 · p. 79
अनुष्टुप्
रम्भाजः स्यात्तु कर्पूरे वनजो मुस्तके मतः ।मुद्गपर्ण्यां तु वनजा क्लीबं स्यान्मुस्तकेऽम्बुजे ॥
8.3.13 · p. 79
अनुष्टुप्
उरोजे स्यात्तु वक्षोजः शिलाजमपि पत्रके ।शूकजं त्वौषधभिदि शिलाजतुनि शैलजम् ॥
8.3.14 · p. 79
अनुष्टुप्
सहजस्तु निसर्गे स्यात्सहोत्थे वाच्यलिङ्गवत् ।समजः पशुवृन्देऽपि विपिने तु नपुंसकम् ॥
8.3.15 · p. 79
अनुष्टुप्
सामजस्तु गजे पुंसि सामोत्थे पुनरन्यवत् ।सिन्धुजं लवणे प्रोक्तमन्यवत्सिन्धुदेशजे ॥
8.3.16 · p. 79
अनुष्टुप्
हिमजा तु शचीगौर्योर्मैनाके हिमजः स्मृतः ।
8.3.17 · p. 79