All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
भान्तवर्गः · भतृतीयम्
॥ इति भद्वितीयम् ॥
॥ अथ भतृतीयम् ॥
अधिभूर्नायकेऽपि स्यादग्निभूस्तु मतो गुहे ।आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोः ॥
24.3.1 · p. 219
अनुष्टुप्
आत्मभूर्ना विधौ कामे तनूजन्मनि चोच्यते ।ऋषभो वृषभे वृक्षविशेषे च स्वरान्तरे ॥
24.3.2 · p. 219
अनुष्टुप्
श्रेष्ठार्थे च वराहस्य पुच्छे रन्ध्रे च कर्णयोः ।ऋषभी शूकशिम्ब्यां स्यान्नराकारस्त्रियामपि ॥
24.3.3 · p. 220
अनुष्टुप्
ऋषभी च शिरालायां विधवायां क्वचिन्मता ।ककुप् शोभादिशोः शास्त्रे प्रवेण्यां चम्पकस्रजि ॥
24.3.4 · p. 220
अनुष्टुप्
ककुभो रागभेदे स्याद्वीणायामर्जुनद्रुमे ।कटभी तरुभेदे च ज्योतिष्मत्यामपि स्त्रियाम् ॥
24.3.5 · p. 220
अनुष्टुप्
करभः शरभे चाष्टापदे प्रोक्तो मृगान्तरे ।करभो मणिबन्धादिकनिष्ठान्ते मतः करे ॥
24.3.6 · p. 220
अनुष्टुप्
कुसुम्भं हेम्नि च महारजने च कमण्डलौ ।कैटभा कैटभीश्वर्यां कैटभो दैत्यभिद्यपि ॥
24.3.7 · p. 220
अनुष्टुप्
गर्दभो रासभे श्वेतकुमुदे गर्दभं मतम् ।गर्दभी क्षुद्रजन्तौ स्याद्रुग्भेदे गन्धभिद्यपि ॥
24.3.8 · p. 220
अनुष्टुप्
दुन्दुभिर्दितिजे भेर्यामक्षबिन्दुत्रिकद्वये ।दुर्लभः कर्चूरे चापि दुष्प्रापे वल्लभेऽपि च ॥
24.3.9 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्चू (wrong syllable)
निकुम्भः कथितो दन्त्यां कुम्भकर्णसुतेऽपि च ।वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरङ्गमे ॥
24.3.10 · p. 220
अनुष्टुप्
पुनर्नवायां वर्षाभूः प्लवे किञ्चुलकेऽपि च ।विष्कम्भः स्याद्योगभेदे विस्तारप्रतिबन्धयोः ॥
24.3.11 · p. 220
अनुष्टुप्
विष्कम्भः कथितो विज्ञैः कवाटस्यार्गलेऽपि च ।रूपकाङ्गप्रभेदे च बन्धभेदे च योगिनाम् ॥
24.3.12 · p. 220
अनुष्टुप्
विस्रम्भः केलिकलहे विश्वासे प्रणये वधे ।विष्टम्भः प्रतिबन्धे च रोगभेदेऽप्युदाहृतः ॥
24.3.13 · p. 221
अनुष्टुप्
वृषभस्तु वृषे श्रेष्ठे वैदर्भी रीतिभिद्यपि ।नलपत्न्यां च वैदर्भं वाक्यवक्रत्व ईरितम् ॥
24.3.14 · p. 221
अनुष्टुप्
सुरभिश्चम्पके स्वर्णे सल्लकीमातृभेदयोः ।गन्धोत्पले सौरभेय्यां जातीपुष्पवसन्तयोः ॥
24.3.16 · p. 221
अनुष्टुप्
सुगन्धे च मनोज्ञे च वाच्यवत्सुरभि स्मृतम् ॥
24.3.17 · p. 221