कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

रान्तवर्गः · रैकम्

॥ इति यसप्तमम्‌ ॥

॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये यान्तवर्गः ॥

॥ अथ रान्तवर्गः ॥

॥ अथ रैकम्‌ ॥

रः स्मये जलदे तीक्ष्णे वन्हौ राः स्वर्णवित्तयोः ।रीर्भूमौ रुर्भये सूर्ये द्रुस्तरौ च निगद्यते ॥
27.1.1 · p. 250
अनुष्टुप्
त्रिस्तु सङ्ख्याविशेषे स्याद् ह्रीर्लज्जायां प्रकीर्तिता ।श्रीर्वेषरचनाशोभाभारतीसरलद्रुमे ॥
27.1.2 · p. 250
अनुष्टुप्
लक्ष्म्यां त्रिवर्गसम्पतौ वेषोपकरणे मतः ।स्रुः स्रवे निर्झरे चापि द्रुः स्वर्णे कामरूपिणि ॥
27.1.3 · p. 250
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 म्प (wrong syllable)