कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

ञान्तवर्गः · ञद्वितीयम्

स्यादज्ञो जडमूर्खयोः ।प्रज्ञस्तु पण्डिते बुद्धौ प्रज्ञा राज्ञी नृपस्त्रियाम् ॥
10.2.1 · p. 82
अनुष्टुप्metre not read in every line
विज्ञस्तु विदुषि प्रोक्तो यज्ञस्तु क्रतुमात्रके ।विष्णौ च संज्ञुरुद्दिष्टस्तथा संहतजानुके ॥
10.2.2 · p. 82
अनुष्टुप्
संज्ञा नामनि गायत्र्यां चेतनायां रविस्त्रियाम् ।अर्थस्य सूचनायां च हस्ताद्यैरपि गद्यते ॥
10.2.3 · p. 82
अनुष्टुप्
सुज्ञः पण्डितमात्रे स्याद्
10.2.4 · p. 82