कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

मान्तवर्गः · मपञ्चमम्

॥ इति मचतुर्थम्‌ ॥

॥ अथ मपञ्चमम्‌ ॥

अवन्तिसोमं गदितं धान्याम्ले शब्दवेदिभिः ।अभ्युपगमोऽवगमस्वीकारनिकटागमे ॥
25.5.1 · p. 231
अनुष्टुप्metre not read in every line
इन्द्राग्निधूम इत्युक्तस्तुहिने तत्त्वविज्जनैः ।नक्षत्रनेमिः शीतांशौ रेवत्यां च ध्रुवेऽपि च ॥
25.5.2 · p. 231
अनुष्टुप्