कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

हान्तवर्गः · हद्वितीयम्

॥ इति शब्दरत्नसमन्वये राजकोशापरपर्याये सान्तवर्गः ॥

॥ अथ हान्तवर्गः ॥

॥ अथ हद्वितीयम्‌ ॥

अहिर्वृत्रासुरे सर्प्पेऽप्यंहो दुरित उच्यते ।अर्हः पूज्यतमे प्रोक्तश्चाहः स्याद्वासरेऽपि च ॥
33.1.1 · p. 340
अनुष्टुप्
ईहोद्यमे च वाञ्च्छायां ऊहस्तु स्याद्वितर्कके ।कुहूः स्त्री कोकिलालापनष्टेन्दुकलदर्शयोः ॥
33.1.2 · p. 340
अनुष्टुप्
ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे ।सूर्यादौ च ग्रहः प्रोक्तः सैंहिकेयोपरागयोः ॥
33.1.3 · p. 340
अनुष्टुप्
ग्राहो ग्रहेऽवहारे च गुहः षाण्मातुरे मतः ।गुहा तु गह्वरे सिंहपुच्छ्यां नाऽपि तु शङ्करे ॥
33.1.4 · p. 340
अनुष्टुप्
गृहं गृहाश्च पुम्भूम्नि कलत्रे चापि सद्मनि ।गर्हा प्रोक्ता तु निन्दायां निदाघे दाह ईरितः ॥
33.1.5 · p. 341
अनुष्टुप्
देहः कलेवरे दोहो दाहनेऽपि प्रकीर्तितः ।मात्सर्ये द्रोह इत्युक्तस्तथा नाहस्तु बन्धने ॥
33.1.6 · p. 341
अनुष्टुप्
कूटे चाप्यथ प्रौहस्तु गजाङ्घ्रिपर्वणोर्मतः ।वाच्यवन्निपुणे तर्के बर्हं पिच्छे दलेऽपि च ॥
33.1.7 · p. 341
अनुष्टुप्metre not read in every line
बहु स्यात् त्र्यादिसङ्ख्यासु विपुलेऽप्यभिधेयवत् ।मही नद्यन्तरे भूमौ स्त्रियां ना तूत्सवान्तरे ॥
33.1.8 · p. 341
अनुष्टुप्
महस्तेजस्यथ मुहुरतिवेलार्थमव्ययम् ।मेहो रुजि च मोहस्तु मूर्छनाऽविद्ययोर्मतः ॥
33.1.9 · p. 341
अनुष्टुप्
एकान्ते रह इत्युक्तं रंहो वेगेऽभिधीयते ।अध्यारोहे तु रोहः स्याल्लोहं शस्त्रे च जोङ्गके ॥
33.1.10 · p. 341
अनुष्टुप्
वहस्तु स्याद्वृषस्कन्धदेशे गन्धवहेऽपि च ।वाहो भुजे पुमान्मानभेदाश्ववृषवायुषु ॥
33.1.11 · p. 341
अनुष्टुप्
व्रीहिः स्याद्धान्यमात्रेऽपि चाशुधान्येऽपि कथ्यते ।व्यूहः स्याद्बलविन्यासे निर्माणे वृन्दतर्कयोः ॥
33.1.12 · p. 341
अनुष्टुप्
सहो बले न स्त्रियां स्यात्स्त्रियां तु नखभेषजे ।दण्डोत्पलामुद्गपर्णीकुमारीपृथिवीषु च ॥
33.1.13 · p. 341
अनुष्टुप्
सिंहस्तु राशिभेदे स्यान्मृगेन्द्रे सत्तमेऽपि च ।सिंही स्यात्कण्टकार्यां तु सिंही स्वर्भानुमातरि ॥
33.1.14 · p. 341
अनुष्टुप्
वासाष्टहत्योः शुद्रायां ? स्नेहः प्रेम्णि घृतादिके ।हाहाशब्दस्तु कथितः सन्तापे दिव्यगायके ॥
33.1.15 · p. 342
अनुष्टुप्