All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
लान्तवर्गः · लद्वितीयम्
॥ अथ लद्वितीयम् ॥
अलिः सुरायां भ्रमरेऽप्यलं पूर्त्यर्थमव्ययम् ।आलुर्गलन्तिकायां स्यादालु कन्दे च भेलके ॥
28.2.1 · p. 295
अनुष्टुप्
आलिः सेतौ वयस्यायां पङ्क्तौ च विशदाशये ।इला सौम्यस्य योषायां भूम्यां च गवि वाचि च ॥
28.2.2 · p. 295
अनुष्टुप्
ओल्लस्तु सूरणे पुंसि स्यादार्द्रे वाच्यलिङ्गकः ।कला मूलद्रव्यवृद्धौ शिल्पादावंशमात्रके ॥
28.2.3 · p. 295
अनुष्टुप्
चन्द्रस्य षोडशांशे च कला कालमितावपि ।कलं शुक्रे त्वजीर्णे चाप्यव्यक्तमधुरध्वनौ ॥
28.2.4 · p. 295
अनुष्टुप्
कलिः स्त्री कलिकायां ना शराजिकलहे युगे ।कालो मृत्यौ महाकाले समये यमकृष्णयोः ॥
28.2.5 · p. 296
अनुष्टुप्
काला स्यात्कृष्णवृन्तायां निलीमञ्जिष्ठयोरपि ।काली तूमामातृभिदोः परिवारेऽम्बुदावलौ ॥
28.2.6 · p. 296
अनुष्टुप्
क्षीरकीटे कालिकायां कीलः स्यादग्नितेजसि ।कफोणिस्तम्भयोः शङ्कौ कीलाऽऽरतहतावपि ॥
28.2.7 · p. 296
अनुष्टुप्
अथ कूलं तटे स्तूपे सैन्यपृष्ठतडागयोः ।कोलः पोत्रिणि कोलं तु फले कोलस्य न द्वयोः ॥
28.2.9 · p. 296
अनुष्टुप्
स्त्रियां तु पिप्पलीचव्योः खलः स्यादधमेऽप्यथ ।खलः कल्के भुवि स्थाने क्रूरे कर्णजपेऽपि च ॥
28.2.10 · p. 296
अनुष्टुप्
खल्ला निम्ने वस्त्रभेदे चर्मचातकपक्षिणोः ।खल्ली तु हस्तपादावमर्दनाह्वयरुज्यपि ॥
28.2.11 · p. 296
अनुष्टुप्
गलः कण्ठे सर्जरसे गुलः स्यादैक्षवे पुमान् ।गुली तु गुटिकारोगभिदोः स्नुह्यां गुला स्मृता ॥
28.2.12 · p. 296
अनुष्टुप्
गोला पत्राञ्जने वालखेलने मण्डलेऽपि च ।कुनटीदुर्गयोर्गोदावरीसख्योरलिञ्जरे ॥
28.2.13 · p. 296
अनुष्टुप्
चला लक्ष्म्यां पुमान्कम्पे कम्पयुक्तेऽभिधेयवत् ।चिल्लः खगे मचुल्लश्च पिल्लवत् क्लिन्नलोचने ॥
28.2.14 · p. 296
अनुष्टुप्
आतायिनि भवेच्चिल्लः चिल्ली स्याद्गौडवास्तुके ।चुल्ली चितायामुद्धाने क्वचिद्वाक्येऽप्युदीरिता ॥
28.2.15 · p. 297
अनुष्टुप्
चेलं स्यादधमे वस्त्रे चोलः स्याद्देशभेदके ।छलं तु स्खलिते व्याजे छली स्याद्वीरुधि स्त्रियाम् ॥
28.2.16 · p. 297
अनुष्टुप्
वल्कले कुसुमे चापि छल्ली चेत्यभिधीयते ।जालं गोकलने नीरे ह्रीबेरे च जडेऽन्यवत् ॥
28.2.17 · p. 297
अनुष्टुप्
जालं गवाक्ष आनाये क्षारके दम्भवृन्दयोः ।जालो नीपद्रुमे जाली पटोल्यामभिधीयते ॥
28.2.18 · p. 297
अनुष्टुप्
झला स्यादातपस्योर्मौ कीटके दुहितर्यपि ।झिल्ली चीर्यातपरुचोर्वर्त्यामुद्वर्त्तनांशुके ॥
28.2.19 · p. 297
अनुष्टुप्
तलश्चपेटे तालद्रौ तलं ज्याघातवारणे ।त्सरौ स्वभावाधरयोः तन्त्रीघाते च सव्यतः ॥
28.2.20 · p. 297
अनुष्टुप्
तल्लो जलाधारभेदे तल्ली तु तरुणस्त्रियाम् ।तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मिते ॥
28.2.21 · p. 297
अनुष्टुप्
गीतकालक्रियामाने करास्फाले द्रुमान्तरे ।वाद्यभेदे च कांस्यस्य त्सरौ ताली जटौषधौ ॥
28.2.22 · p. 297
अनुष्टुप्
क्लीबं तु हरिताले स्यात्तुलासादृश्यमानयोः ।गृहाणां दारुबन्धाय पीठिकायामपीष्यते ॥
28.2.23 · p. 297
अनुष्टुप्
राशौ पलशते भाण्डे तूलं स्याद्ब्रह्मदारुणि ।आकाशेऽथ पिचौ न स्त्री दलमुत्सेधखण्डयोः ॥
28.2.24 · p. 298
अनुष्टुप्
शस्त्रीच्छेदेऽप्यपद्रव्ये पत्रेऽप्यथ दुलिः स्त्रियाम् ।कमठ्यां क्रीडने दोला नील्यां यानान्तरेऽपि च ॥
28.2.25 · p. 298
अनुष्टुप्
नलः कपौ राजभेदे यमे पोटगलेऽपि च ।क्लीबे तु कमले नद्यां स्त्रियामप्यभिधीयते ॥
28.2.26 · p. 298
अनुष्टुप्
नलो नाले पद्मदण्डे नाली शाककदम्बके ।नीलं तु नीलीरक्ते स्यान्निध्यद्रिप्लवगेषु ना ॥
28.2.27 · p. 298
अनुष्टुप्
नीली रुग्भेदनीलिन्योः पलं स्यान्मांसमानयोः ।पल्लः स्थूलकुसूले स्यात्कुट्यल्पग्रामयोः स्त्रियाम् ॥
28.2.28 · p. 298
अनुष्टुप्
पालिः कर्णलताग्रेऽश्रौ पङ्क्तावङ्कप्रभेदने ।पालिः प्रस्थे च यूकायां जातश्मश्रुस्त्रियामपि ॥
28.2.29 · p. 298
अनुष्टुप्
पिल्लः पुमान् क्लिन्ननेत्रे क्लिन्नाक्षे पुनरन्यवत् ।पीलुर्वृक्षे फले पीलु परमाणौ गजे च ना ॥
28.2.30 · p. 298
अनुष्टुप्
पीलुस्तालास्थिखण्डे च काण्डपादपभेदयोः ।पुलस्तु पुलके पुंसि विपुले वाच्यलिङ्गवत् ॥
28.2.31 · p. 298
अनुष्टुप्
फलं हेतुसमुत्थे स्यात्फलके व्युष्टिलाभयोः ।जातीफले च कङ्कोले सस्यबाणाग्रयोरपि ॥
28.2.32 · p. 298
अनुष्टुप्
फलिन्यां तु फली योषा त्रिफलायामपीष्यते ।फालं स्याद्वसने फाल उत्प्लुतौ शङ्करेऽपि च ॥
28.2.33 · p. 298
अनुष्टुप्
सीराग्रलौहेऽपि तथा फाली स्यादपि सीरिणि ।फेला फेलिस्तथोच्छिष्टे गदिता शब्दवेदिभिः ॥
28.2.34 · p. 299
अनुष्टुप्
बलिस्तु दैत्यभेदे स्यात्करचामरदण्डयोः ।उपहारे राजदेये बलं स्यात्स्थौल्यसैन्ययोः ॥
28.2.35 · p. 299
अनुष्टुप्
बलो गन्धरसे रूपे स्थामन्यपि हलायुधे ।दैत्यभेदे वायसे च बलयुक्तेऽन्यलिङ्गकः ॥
28.2.36 · p. 299
अनुष्टुप्
बला वाट्यालके प्रोक्ता स्यादङ्गे वाच्यलिङ्गकः ।अलङ्कारान्तरे मेध्ये बाली बाला त्रुटौ स्त्रियाम् ॥
28.2.37 · p. 299
अनुष्टुप्
भल्लो भल्लिश्च बाणे स्याद्भल्लो भल्लूक इष्यते ।भल्लातके तु योषायां भालं तेजोललाटयोः ॥
28.2.38 · p. 299
अनुष्टुप्
भेलः प्लवे मुनौ च स्यान्निर्बुद्धौ चापि भीरुके ।मलं किट्टे पुरीषे च पापे च कृपणे मलः ॥
28.2.39 · p. 299
अनुष्टुप्
मल्लः पात्रे कपोले च मत्स्यभेदे बलीयसि ।मालं जने च माला स्यात्पङ्क्तौ पुष्पादिदामनि ॥
28.2.40 · p. 299
अनुष्टुप्
मालं क्षेत्रे स्त्रियां स्पृक्कास्रजोर्जात्यन्तरे पुमान् ।मालुः पत्रलतानार्योः स्त्रियां मूलं शिफाद्ययोः ॥
28.2.41 · p. 299
अनुष्टुप्
मूलं वित्तेऽन्तिके मेला मेलके च मसावपि ।मौलिः किरीटे चूडायां धम्मिल्लकेलिमूर्धसु ॥
28.2.42 · p. 299
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल्ल (wrong syllable)
लीला केलिविलासे शृङ्गारभावजक्रियायां च ।लोलश्चले सतृष्णे रसनायां स्यात्स्त्रियां लक्ष्म्याम् ॥
28.2.43 · p. 300
metre not recognised
वल्ली स्यादजमोदायां व्रतत्यामपि योषिति ।वालो ना कुन्तलेऽश्वस्य गजस्यापि च वालधौ ॥
28.2.44 · p. 300
अनुष्टुप्
व्यालो दुष्टगजे स्याच्छ्वापदखलसर्पसिंहेषु ।विलं गुहायां छिद्रे पुंसि तु माहेन्द्रतुरगे स्यात् ॥
28.2.45 · p. 300
metre not recognised
बुधयोषायां वेला श्रीमज्जनभोजनेऽपि स्यात् ।वेला सीम्नि च काले रागे चाक्लिष्टमरणेऽपि ॥
28.2.46 · p. 300
metre not recognised
वेला च जलधेस्तीरे पानीयस्यापि विकृतौ ।दत्तमांसेऽपि वेला स्यादित्याहुः शब्दवेदिनः ॥
28.2.47 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 वि (wrong syllable)
वेलो नीचेऽन्यवद्वेलमङ्के च गर्हितेऽन्यवत् ।शलं तु शल्लकीलोम्नि शलो भृङ्गिगणे विधौ ॥
28.2.48 · p. 300
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शालुः कषायद्रव्ये स्याच्चोरकाख्यौषधौ पुमान् ।शालिस्तु गन्धमार्जारे कलमादिषु च स्मृतः ॥
28.2.49 · p. 300
अनुष्टुप्
शालो वृतौ नृपे मत्स्यप्रभेदे सर्जपादपे ।शाला गृहे तरुस्कन्धे शाखाऽगारैकदेशयोः ॥
28.2.50 · p. 300
अनुष्टुप्
शिलमुञ्च्छे शिला द्वाराधोदारु कुनटीदृषत् ।शिली भेक्यां विनिर्दिष्टा शीलं वृत्तस्वभावयोः ॥
28.2.51 · p. 300
अनुष्टुप्
शुक्लो योगान्तरे पुंसि रजते तु नपुंसकम् ।शुक्लं सिते वाच्यवत्स्याच्छूलं रोगायुधान्तरे ॥
28.2.52 · p. 300
अनुष्टुप्
योगान्तरे पुमान् मृत्यौ केतकद्रावथ स्त्रियाम् ।शुला स्यात्पण्ययोषायां कीले दुष्टवधार्थके ॥
28.2.53 · p. 301
अनुष्टुप्
शैलो महीध्रे शैलं तु शैलेये तार्क्ष्यशैलके ।सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ॥
28.2.54 · p. 301
अनुष्टुप्
स्थालं भोजनपात्रेऽपि स्थाली स्यात्पाटलोखयोः ।स्थूलं पीने जडे हालः शालिवाहनभूभुजि ॥
28.2.55 · p. 301
अनुष्टुप्
हाला सुरायां हेला तु स्यादवज्ञाविलासयोः ।हेला शृङ्गारभावस्य क्रियायां च निगद्यते ॥
28.2.56 · p. 301
अनुष्टुप्
हेलिरालिङ्गने सूर्ये होली स्यादुत्सवान्तरे ॥
28.2.57 · p. 301