कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

जान्तवर्गः · जद्वितीयम्

॥ अथ जद्वितीयम् ॥

अजो हरौ हरे कामे विधौ छागे रघोः सुते ।अब्जो धन्वन्तरौ चन्द्रे शङ्खे च निचुले तरौ ॥
8.2.1 · p. 75
अनुष्टुप्
अब्जं पद्मे रणे त्वाजिः स्त्रियामोजस्तु तेजसि ।क्लीबेऽथोर्जः कार्तिककबलोत्साहेषु कीर्तितः ॥
8.2.2 · p. 76
अनुष्टुप्
ऊर्जं जले भवेत् क्लीबमृजुस्त्वकुटिले मतः ।पीयूषपद्मयोः कञ्जं कञ्जः केशे स्वयंभुवि ॥
8.2.3 · p. 76
अनुष्टुप्
कुजस्तु नरके भौमे कात्यायन्यां कुजा मता ।कुञ्जोऽस्त्रियां निकुञ्जे च हनौ दन्ते च दन्तिनाम् ॥
8.2.4 · p. 76
अनुष्टुप्
कुब्जो न्युब्जे वृक्षभेदे खञ्जः स्यात्कुटिलाङ्घ्रिके ।खञ्जा छन्दःप्रभेदेऽपि खजा मन्थप्रहस्तयोः ॥
8.2.5 · p. 76
अनुष्टुप्
खर्जूः कीटान्तरे कण्ड्वां खर्जूरीपादपेऽपि च ।गञ्जा गोष्ठे सुरागेहे भाण्डागारे खनावपि ॥
8.2.6 · p. 76
अनुष्टुप्
रीढायामपि गञ्जः स्याद्गुञ्जोक्ता तु कलध्वनौ ।पटहे काकचिञ्चायां द्विजस्त्रैवर्णिके मतः ॥
8.2.7 · p. 76
अनुष्टुप्
दन्ताण्डजेषु च पुनर्द्विजा भार्ङ्ग्यां हरेणुके ।ध्वजः स्याच्छौण्डिके मेढ्रे पताकायां तु न स्त्रियाम् ॥
8.2.8 · p. 76
अनुष्टुप्
तथा चिह्ने च खट्वाङ्गे ध्वजी तु पृथिवीधरे ।रथब्राह्मणयोश्चापि भुजङ्गमतुरङ्गयोः ॥
8.2.9 · p. 76
अनुष्टुप्
निजं स्वकीये नित्ये च निर्द्दिष्टं शब्दवेदिभिः ।कर्मरङ्गफले न्युब्जं कुब्जाधोमुखयोरपि ॥
8.2.10 · p. 76
अनुष्टुप्
प्रजा जने च सन्ताने पिञ्जा तूलहरिद्रयोः ।पिञ्जा स्त्रियां मता तूलपिञ्जिकायां बुधोत्तमैः ॥
8.2.11 · p. 76
अनुष्टुप्
क्लीबं बले वधे पुंसि त्रिलिङ्गं व्याकुले मतम् ।फञ्जी लताविशेषे स्याद्बीजं कारणसस्ययोः ॥
8.2.12 · p. 77
अनुष्टुप्
भुजा द्वयोः करे बाहौ मज्जोक्ता धातुभिद्यपि ।मज्जा स्त्रियां च गदिता मर्जूः शुद्धौ तु धावके ॥
8.2.13 · p. 77
अनुष्टुप्
पुमान् रजः परागे स्यादार्तवे च गुणान्तरे ।रेणावपि भवेद्रज्जुर्वेण्यामपि गुणेऽपि च ॥
8.2.14 · p. 77
अनुष्टुप्
राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ ।राजिस्तु पङ्क्तौ रेखायां रुजा स्याद्भङ्गरोगयोः ॥
8.2.15 · p. 77
अनुष्टुप्
लज्जा त्रपायां गदिता लञ्जा स्याद्वारयोषिति ।लाजाः स्युः सतुषे भृष्टधान्ये लाजमुशीरके ॥
8.2.16 · p. 77
अनुष्टुप्
तथार्द्रतन्दुले लाजो व्रजो गोष्ठे तथाध्वनि ।समूहे च भवेद्वाजो घृतयज्ञान्नवारिषु ॥
8.2.17 · p. 77
अनुष्टुप्
पक्षे च निःस्वने वेगे व्याजः शाट्योपदेशयोः ।पुमान् वणिजि सर्जूः स्यात् स्त्रियां विद्युति गद्यते ॥
8.2.18 · p. 77
अनुष्टुप्
सञ्जो रुद्रे विधौ प्रोक्तः स्वजः प्रस्वेदपुत्रयोः ।सज्जं रक्तेऽथ सज्जः स्यात्सन्नद्धे सम्भृतेऽपि च ॥
8.2.19 · p. 77
अनुष्टुप्
सर्जस्तरुविशेषे स्याद् हृज्जः कामे प्रकीर्तितः ।आह्वाने तु भवेद्धञ्जे नाट्योक्तौ चेटिकां प्रति ॥
8.2.20 · p. 77
अनुष्टुप्