कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

खान्तवर्गः · खचतुर्थम्

॥ इति खतृतीयम् ॥

॥ अथ खचतुर्थम् ॥

अहर्मुखं प्रभाते स्यादवलेखो वमावपि ।भवेदग्निमुखो देवे विप्रे भल्लातकेऽपि च ॥
2.4.1 · p. 56
अनुष्टुप्
अथाग्निमुखमुद्दिष्टं कुसुम्भे कुङ्कुमेऽपि च ।लाड्गलिक्यां विशल्यायामोषधौ तु स्त्रियां विदुः ॥
2.4.2 · p. 56
अनुष्टुप्
कुङ्कुमे स्यादग्निशिखं हस्ते त्वग्रनखः स्मृतः ।अयोमुखं तु मुसले हले बाणे त्वयोमुखः ॥
2.4.3 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
अपलेखो वृथालेखे वृक्षभेदे त्वधोमुखः ।अधोमुखस्तु पिशुने ज्ञानिन्यन्तर्मुखस्तथा ॥
2.4.4 · p. 56
अनुष्टुप्
इन्दुलेखा चन्द्रकलासोमवः स्यमृतासु च ।गणेशे स्यादिभमुखः स्त्रियामिन्दुमुखी मता ॥
2.4.5 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
कुबेरे स्यादीशसखः शृगाल्युल्कामुखी मता ।कुहूमुखस्तु गदितः परपुष्टविहङ्गमे ॥
2.4.6 · p. 56
अनुष्टुप्
कुशले स्यात्कृतमुखो गजमुखो गणेश्वरे ।देव्यां गृध्रमुखी क्वापि देव्यां चन्द्रमुखी क्वचित् ॥
2.4.7 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
चतुर्मुखो वेधसि स्याद्देव्यां चारुमुखीत्यपि ।चित्रपुङ्खः स्मृतो बाणे ध्वान्ते चोरमुखं मतम् ॥
2.4.8 · p. 57
अनुष्टुप्
जगन्मुखौ हरिनृपौ देव्यां ज्वालामुखीति च ।कृष्णे जयसखः प्रोक्तः कपौ ताम्रमुखः स्मृतः ॥
2.4.9 · p. 57
अनुष्टुप्
त्रयीमुखो मखे विप्रेऽप्यमरे स्यात्त्रयीमुखः ।दशमुखो रावणे स्यान्मतो दंष्ट्रामुखोऽप्यहौ ॥
2.4.10 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)
चतुःशतग्राममध्ये पुरं द्रोणमुखं मतम् ।पार्वणे स्याद्दर्शमुखं जलौघे स्यान्नदीमुखम् ॥
2.4.11 · p. 57
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्द (wrong syllable)
तन्द्रां नन्दीमुखीं प्राहुः नान्दीमुखाः पितृष्वपि ।हरे सिंहे पञ्चमुखः शशादिषु तु वै पुनः ॥
2.4.12 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
मतः पञ्चनखः श्वाऽथ शिशौ बद्धशिखः स्मृतः ।उच्चटायां बद्धशिखा सुरे बर्हिर्मुखो मतः ॥
2.4.13 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
महाशङ्खो मानुषास्थिसङ्ख्याभेदालिकेष्वपि ।लसन्मुखो विहसिते तथा लालामुखोऽप्यहौ ॥
2.4.14 · p. 57
अनुष्टुप्
अथ व्याघ्रनखं गन्धद्रव्ये चाप्यौषधान्तरे ।स्त्रियां नखक्षते क्लीबं कपौ वृद्धे वलीमुखः ॥
2.4.15 · p. 57
अनुष्टुप्
अथ वायुसखो वह्नावलिबाणौ शिलीमुखौ ।नखक्षताङ्कुरे क्लीबे शिलीमुखमुदाहृतम् ॥
2.4.16 · p. 57
अनुष्टुप्
निगद्यते स्वस्तिमुखो विप्रे वाचिकहारिणि ।हसन्मुखस्तु सुभगे मतो हालामुखोऽप्यहौ ॥
2.4.17 · p. 58
अनुष्टुप्