कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnasamanvaya kośa

Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa

3,182 verses · text only, tagging comes next

तान्तवर्गः · तपञ्चमम्

॥ इति तचतुर्थम्‌ ॥

॥ अथ तपञ्चमम्‌ ॥

अव्यवहितं संसक्ते स्यादनन्यवृत्तिरेकाग्रे ।अथगणितं परिभूतेऽपि न्यक्कृतेऽवमानितं गदितम् ॥
16.5.1 · p. 165
metre not recognised
अभ्यवहृतं तु गिलितेऽप्यमरावती मतेन्द्रनगरेऽपि ।अङ्गीकृतेऽवलम्बितमश्विनीसुता(व)मरभिषजौ च ॥
16.5.2 · p. 166
metre not recognised
अपराजिता तु दिग्भिद्यपराजितौषधिभिदि च ।अपराजित ईशान इष्ट्यन्तरे तथाऽजिते गदितः ॥
16.5.3 · p. 166
metre not recognised
अवलोकितस्तु गदितो निरीक्षिते लोकनाथेऽपि ।अञ्जनावती तु गदिता सुप्रतीकस्य योषिति ॥
16.5.4 · p. 166
metre not recognised
अब्जिनीपतिरित्युक्तो भानौ च कपिभिद्यपि ।नैरन्तर्येऽनवरतमित्युक्तं शब्दतत्वज्ञैः ॥
16.5.5 · p. 166
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्व (wrong syllable)
उररीकृतमङ्गीकृतमात्रेऽपि च वाच्यलिङ्गं तत् ।उपधूपितस्तु मरणासन्नेऽपि परिधूपिते कथितः ॥
16.5.6 · p. 166
उपगीतिःmetre not read in every line
अस्तासन्ने समयेऽप्युपधूपितं गदन्त्येके ।स्याद्गणाधिपतिः पुंसि शङ्करे च विनायके ॥
16.5.7 · p. 166
अनुष्टुप्metre not read in every line
ज्योतिषाम्पतिरप्युक्तः पुमान् कुमुदिनीपतौ ।तनूनपाद्बृहद्भानौ भानोरपि सुते मतः ॥
16.5.8 · p. 166
अनुष्टुप्
गिलिते प्रत्यवसितं नृपतौ पृथिवीपतिः ।मूर्धाभिषिक्तोऽभिहितोऽभिषिक्ते क्षत्रियेऽपि च ॥
16.5.9 · p. 166
अनुष्टुप्
तथा जात्यन्तरे मन्त्रिण्यपि शब्दविदां मतम् ।मूर्धावसिक्तो विप्रेण क्षत्रियायां भवेत्सुतः ॥
16.5.10 · p. 166
अनुष्टुप्
यादसाम्पतिरम्भोधौ पश्चिमाशापतावपि ।यज्ञोपवीतं गदितं यज्ञसूत्रे नपुंसकम् ॥
16.5.11 · p. 166
अनुष्टुप्
वसन्तदूतश्चूते स्यात्पिकपञ्चमरागयोः ।वसन्तदूती पाटल्यामतिमुक्ते च योषिति ॥
16.5.12 · p. 167
अनुष्टुप्