All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
लान्तवर्गः · लतृतीयम्
॥ इति लद्वितीयम् ॥
॥ अथ लतृतीयम् ॥
अनलः स्याद्वसावग्नावनिलो वसुवातयोः ।अञ्जलिः कुडवे पुंसि हस्तसम्पुटकेऽपि च ॥
28.3.1 · p. 301
अनुष्टुप्
अवेलस्त्वपलापे स्यादवेला पूगचर्विते ।अचला तु धरित्र्यां स्यादचलः शैलकीलयोः ॥
28.3.2 · p. 301
अनुष्टुप्
अर्गला त्रिषु कल्लोले दण्डे वारकपाटयोः ।अर्गला द्वाररोधिन्यामपि प्रोक्ता निरोधने ॥
28.3.3 · p. 301
अनुष्टुप्
अमलं त्वंशुके क्लीबं लक्ष्म्यां स्त्री विमले त्रिषु ।आभीलं न द्वयोः कृच्छ्रे वाच्यलिङ्गं भयानके ॥
28.3.5 · p. 302
अनुष्टुप्
इल्वला तारकाभेदे ना भेदे दैत्यमत्स्ययोः ।इङ्गुलस्तु करीषाग्नावुत्पलं मांसवर्जिते ॥
28.3.6 · p. 302
अनुष्टुप्
उत्पली तुषचर्पट्यां क्लीबे कुण्ठे च कैरवे ।उपलः प्रस्तरे रत्ने शर्करायां मतोपला ॥
28.3.7 · p. 302
अनुष्टुप्
उत्फुल्लं करणे स्त्रीणामुत्ताने च विकस्वरे ।उत्तालस्तूत्कटे श्रेष्ठे विकराले प्लवङ्गमे ॥
28.3.8 · p. 302
अनुष्टुप्
उद्दालः कोद्रवे प्रोक्तस्त्वेकके मत एकलः ।कमलो दैत्यमृगयोः कमलं वारजे जले ॥
28.3.9 · p. 302
अनुष्टुप्
कमला वरयोषायामपि लक्ष्म्यां निगद्यते ।कपिलो वासुदेवेऽग्नौ कुक्कुटे च मुनावपि ॥
28.3.10 · p. 302
अनुष्टुप्
कपिलः पिङ्गवर्णे स्याद्रेणुकायां तु योषिति ।पुण्डरीककरिण्यां च शिंशपागोविशेषयोः ॥
28.3.11 · p. 302
अनुष्टुप्
कम्बलः स्यान्नागभेदे सास्नाप्रावारयोरपि ।कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम् ॥
28.3.12 · p. 302
अनुष्टुप्
कम्बली मृगभेदे स्यात्पुंसि कम्बलधारिणि ।करालो भीषणे चाथ तुङ्गदन्तुरयोरपि ॥
28.3.13 · p. 302
अनुष्टुप्
ससर्जरसतैले ना क्लीबं कृष्णकुठेरके ।कन्दलस्तु कपाले स्यादुपरागे नवाङ्कुरे ॥
28.3.14 · p. 302
अनुष्टुप्
रम्भावृक्षेऽथ कदली पताकामृगभेदयोः ।कदला डिम्बिकायां च शाल्मलीभूरुहेऽपि च ॥
28.3.16 · p. 303
अनुष्टुप्
कपालं कुष्ठरुग्भेदे घटादिशकले गणे ।शिरोऽस्थनि कपालीति स्त्रियां प्रोक्ता मनीषिभिः ॥
28.3.17 · p. 303
अनुष्टुप्
कण्ठाला तु द्वयोर्द्रोणीप्रभेदे ना क्रमेलके ।कल्लोलस्तु भवेद्धर्पे तथा वारिमहोर्मिषु ॥
28.3.18 · p. 303
अनुष्टुप्
कामला रोगभेदे वा ना ना मरुवसन्तयोः ।कामुके वाच्यलिङ्गोऽथ काकोलो नरकान्तरे ॥
28.3.19 · p. 303
अनुष्टुप्
कुलाले द्रोणकाके च विषभेदे च न स्त्रियाम् ।काहलाऽप्सरसो भेदे वाद्यभेदे च गद्यते ॥
28.3.20 · p. 303
अनुष्टुप्
काहलः शब्दमात्रेऽपि तथैव चरणायुधे ।काहली च तरुण्यां स्यात्त्रिषु शुष्के भृशे खले ॥
28.3.21 · p. 303
अनुष्टुप्
किट्टालस्ताम्रकलशे लोहगूथेऽपि कीर्त्यते ।किसलं स्यात्किसलये सर्वशब्दकृताम्मतम् ॥
28.3.22 · p. 303
अनुष्टुप्
कीलालं रुधिरे तोये कुशलः शिक्षिते त्रिषु ।क्षेमे च सुकृते चापि पर्याप्तौ च नपुंसकम् ॥
28.3.23 · p. 303
अनुष्टुप्
कुवलं चोत्पले मुक्ताफले च बदरीफले ।कुड्भलः मुकुले पुंसि न द्वयोर्नरकान्तरे ॥
28.3.24 · p. 303
अनुष्टुप्
कुटिलो वाच्यलिङ्गः स्याद्भुग्ने नद्यां तु योषिति ।कुम्भिलः श्यालके चोरे श्लोकच्छायाहरेऽपि च ॥
28.3.25 · p. 304
अनुष्टुप्
कुद्दालो युगपत्रे स्यात्तथाभूमिविदारणे ।कुचेला स्याद्विद्धकर्ण्यां वाच्यवच्च कुवाससि ॥
28.3.26 · p. 304
अनुष्टुप्
कुकूलं शङ्कुसङ्कीर्णश्वभ्रे ना तु तुषानले ।कुण्डलं वलये पाशे तथा कर्णविभूषणे ॥
28.3.27 · p. 304
अनुष्टुप्
काञ्चनद्रुगुडूच्योः स्त्री पन्नगे कुण्डली मतः ।कुन्तलः स्याद्यवे देशे केशलाङ्गलयोरपि ॥
28.3.28 · p. 304
अनुष्टुप्
कुलालः कक्कुभे कुम्भकारे चाप्यञ्जनान्तरे ।केवलः कुहनेऽपि स्यान्निर्णीते चैककृत्स्नयोः ॥
28.3.29 · p. 304
अनुष्टुप्
कोमलं मृदुले तोये कोहलो मद्यभिद्यपि ।कोहलो वाद्यभेदेऽपि नाट्यशास्त्रप्रयोक्तरि ॥
28.3.30 · p. 304
अनुष्टुप्
ग्रन्थीलस्तु करीरद्रौ विकङ्कततरावपि ।सग्रन्थौ त्रिषु भद्रायां गन्धोली वरटासटी ॥
28.3.31 · p. 304
अनुष्टुप्
गरलं तृणपूले च विषे माने नपुंसकम् ।गोपालस्तु नृपे गोपे गोकीलो मुसले हले ॥
28.3.32 · p. 304
अनुष्टुप्
गौरिलस्तु पुमाँल्लोहचूर्णे स्याद्गौरसर्षपे ।चपलश्चोरके मीने पारदे प्रस्तरान्तरे ॥
28.3.33 · p. 304
अनुष्टुप्
चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च ।नपुंसकं तु शीघ्रे स्याद्वाच्यवत्तरले चले ॥
28.3.34 · p. 304
अनुष्टुप्
चन्द्रिलः पुंसि वास्तूकशाकभेदेऽपि नापिते ।चञ्चला तु तडिल्लक्ष्म्योः चञ्चलश्चपलेऽनिले ॥
28.3.35 · p. 305
अनुष्टुप्
चूडाला तूच्चटायां स्याच्चूडावति च वाच्यवत् ।छगलं नीलवस्त्रे ना छागे स्त्री वृद्धदारके ॥
28.3.36 · p. 305
अनुष्टुप्
जम्बालः शैवले पङ्के जगलो मेदकेऽपि च ।मदनद्रौ पिष्टमद्ये पुंसि धूर्त्ते तु वाच्यवत् ॥
28.3.37 · p. 305
अनुष्टुप्
जटिला पिप्पलीमांस्योर्जटायुक्तेऽपि वाच्यवत् ।जङ्गलं निर्जलस्थाने त्रिलिङ्ग्यां पिशितेऽस्त्रियाम् ॥
28.3.38 · p. 305
अनुष्टुप्
जङ्घालस्तु मतः शीघ्रगमने नरि तद्विदाम् ।जम्भलः पुंसि जम्बीरे बुद्धदेवान्तरेऽपि च ॥
28.3.39 · p. 305
अनुष्टुप्
जम्बुलो जम्बुविटपे पुंसि स्यात्क्रकचच्छदे ।जाङ्गलो वातभूयिष्ठदेशे ना तु कपिञ्जले ॥
28.3.40 · p. 305
अनुष्टुप्
जाङ्गली विषविद्यायां जाङ्गुलं जालिनीफले ।जाङ्गली शूकशिम्ब्यां स्यात्तरलं चञ्चलेऽपि च ॥
28.3.41 · p. 305
अनुष्टुप्
खड्गे च भास्वरे चापि त्रिलिङ्गमुपदिश्यते ।हारमध्यमणौ पुंसि यवागुसुरयोः स्त्रियाम् ॥
28.3.42 · p. 305
अनुष्टुप्
तण्डुलस्तु विडङ्गे स्याद्धान्यादिनिकरेऽपि च ।तमालस्तिलके खड्गे तापिच्छे वरुणद्रुमे ॥
28.3.43 · p. 305
अनुष्टुप्
ताम्बूली स्त्री नागवल्ल्यां ताम्बूलं क्रमुके मतम् ।तातलो रुजि पाके च लोहकूटे मनोजवे ॥
28.3.44 · p. 305
अनुष्टुप्
तुमुलस्तु कलिद्रौ स्यात्तुमुलं रणसङ्कुले ।तैतिलो गण्डके पुंसि क्लीबं तु करणान्तरे ॥
28.3.45 · p. 306
अनुष्टुप्
दुकुलं स्याच्छ्लक्ष्णवस्त्रे क्षौमे च धवला गवि ।वृषश्रेष्ठे पुमान् वाच्यलिङ्गः शुक्ले च सुन्दरे ॥
28.3.46 · p. 306
अनुष्टुप्
नकुली कुक्कुटीमांस्योः पशुपाण्डवयोः पुमान् ।नाकुली कुक्कुटीकन्दे रास्नायां चव्यके स्त्रियाम् ॥
28.3.47 · p. 306
अनुष्टुप्
नाभीलं वङ्क्षणे नार्याः कृच्छ्रगर्भाण्डयोरपि ।निचुलो हिज्जले चापि निचोले च महीरुहे ॥
28.3.48 · p. 306
अनुष्टुप्
निर्मलं मलहीने स्यान्निर्माल्ये चाभ्रकेऽपि च ।निष्कलस्तु कलाशून्ये निस्तलं वर्त्तुले चले ॥
28.3.49 · p. 306
अनुष्टुप्
निष्कलं नष्टबीजे स्यान्नेपालो देशभिद्यपि ।मनःशिलायां नैपाली सुवहा नवमाल्यपि ॥
28.3.50 · p. 306
अनुष्टुप्
पललं तिलचूर्णे स्यात्तथा मांसे नपुंसकम् ।ना राक्षसेऽथ पटलं क्लीबं वृन्दे पुनर्न ना ॥
28.3.51 · p. 306
अनुष्टुप्
छदिर्दृग्रोगपिटके तिलके च नपुंसकम् ।प्रतलं स्यात्तु पाताले तताङ्गुलिकरे पुमान् ॥
28.3.52 · p. 306
अनुष्टुप्
ज्योत्स्नायां तु पटोला स्यात्पटोलं वस्त्रभिद्यपि ।प्रवालो विद्रुमे वीणादण्डे किसलयेऽपि च ॥
28.3.53 · p. 306
अनुष्टुप्
पाञ्चाली पुत्रिकागीत्योः पाण्डवानां च योषिति ।स्त्रियां पुम्भूम्नि निर्दिष्टो नीवृद्भेदेऽथ पांसुलः ॥
28.3.54 · p. 306
अनुष्टुप्
पुंश्चले हरखट्वाङ्गे स्त्रियां स्यादसतीभुवोः ।वाच्यलिङ्गः सरजसि श्वेतरक्ते तु पाटलः ॥
28.3.55 · p. 307
अनुष्टुप्
व्रीहिभेदे पाटला स्यात्तरौ पुष्पे तु पाटलम् ।पाचलो राधनद्रव्येऽप्यनिलानलयोरपि ॥
28.3.56 · p. 307
अनुष्टुप्
पाकलं कुष्ठभैषज्ये पाकलः कुञ्जरज्वरे ।पाचलं पाचने नाऽग्नौ राधनद्रव्यवातयोः ॥
28.3.57 · p. 307
अनुष्टुप्
पाटला पाटलौ स्त्री स्यादस्याः पुष्पे पुनर्न ना ।आशुधान्ये पुमान् श्वेतरक्तवर्णे तु वाच्यवत् ॥
28.3.58 · p. 307
अनुष्टुप्
पातालं स्यान्नागलोके विवरे वडवानले ।पातिली वागुरायां स्यान्नारीपात्रप्रभेदयोः ॥
28.3.59 · p. 307
अनुष्टुप्
पित्तलं तैजसद्रव्ये पित्तवत्यपि वाच्यवत् ।पित्तला तोयपिप्पल्यां पिच्छिलो विजिलेऽन्यवत् ॥
28.3.60 · p. 307
अनुष्टुप्
स्त्री पोतिकाशिंशपयोः शाल्मलीसिन्धुभेदेयोः ।पिप्पलः स्याच्चलदले भक्तसिक्थे तु पिप्पलम् ॥
28.3.61 · p. 307
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 दे (wrong syllable)
तथैव सलिले वस्त्रच्छेदे पुंसि निरंशुके ।तथा पक्षिप्रभेदेऽपि कणायां पिप्पली मता ॥
28.3.62 · p. 307
अनुष्टुप्
पिञ्जलं तु हरिद्राभे कुशपत्रेऽपि कीर्त्यते ।पिङ्गलो नागभेदे स्याद्वेश्याभेदे तु पिङ्गला ॥
28.3.63 · p. 307
अनुष्टुप्
अपि दिङ्नागयोषायां पिङ्गलेति निगद्यते ।पिञ्जोलेत्यवगदिता पत्रकाहलिका बुधैः ॥
28.3.64 · p. 307
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्य (wrong syllable)
तथा विहगभेदेऽपि पिचुलो जलवायसे ।पुद्गलः सुन्दराकारे तथा स्यादात्मदेहयोः ॥
28.3.65 · p. 308
अनुष्टुप्
पेशलो रुचिरे दक्षे फेनिलोऽरिष्टपादपे ।ना फेनिले त्रिषु क्लीबं कोलीमदनयोः फले ॥
28.3.66 · p. 308
अनुष्टुप्
बहुलः कृष्णपक्षेऽग्नौ शितौ च बहुला गवि ।एलायां नीलिकायां च विहायसि नपुंसकम् ॥
28.3.67 · p. 308
अनुष्टुप्
कृत्तिकासु स्त्रियां भूम्नि मङ्गलो भूमिजे ग्रहे ।मङ्गला सितदूर्वोमे कल्याणे तु नपुंसकम् ॥
28.3.68 · p. 308
अनुष्टुप्
सर्वार्थरक्षिणे पुंसि मङ्गलः परिकीर्तितः ।मण्डलः कुक्कुरे पुंसि बिम्बे च निवहे त्रिषु ॥
28.3.69 · p. 308
अनुष्टुप्
क्लीबे तु परिधौ कोठे देशे द्वादशराजसु ।मञ्जुलं वाच्यवन्मञ्जौ जलरङ्कौ नपुंसकम् ॥
28.3.70 · p. 308
अनुष्टुप्
जलाञ्चले निकुञ्जे च क्लीबं मञ्जूलमीरितम् ।मरुला तु नदीभेदे मारुलं तद्भवे त्रिषु ॥
28.3.71 · p. 308
अनुष्टुप्
महिला फलिनीनार्योर्मातुलो मदनद्रुमे ।मातृभ्रातरि धत्तूरे व्रीहिभेदे च कथ्यते ॥
28.3.72 · p. 308
अनुष्टुप्
माचलो बन्दिचोरे स्यादपि च ग्राहरोगयोः ।मुसलः स्यादयोऽग्रे तु पुन्नपुंसकयोरपि ॥
28.3.73 · p. 308
अनुष्टुप्
ग्रहगोधातालमूल्योराखुपर्ण्यां च योषिति ।मृणालं नलदे क्लीबं पुन्नपुंसकयोर्बिसे ॥
28.3.74 · p. 308
अनुष्टुप्
मेखला खड्गबन्धे स्याद्रसनाद्रिनितम्बयोः ।यमलं युगले प्राहुर्यमली चोटिकाद्वये ॥
28.3.75 · p. 309
अनुष्टुप्
रसालः सहकारेक्ष्वोः क्लीबे सिल्हकबोलयोः ।रामिलो रमणेऽनङ्गे लाङ्गुलं पुच्छशेफयोः ॥
28.3.76 · p. 309
अनुष्टुप्
लाङ्गली तोयपिप्पल्यां क्लीबे तु कुसुमान्तरे ।गृहदारुविशेषे गोदारणे तृणराजके ॥
28.3.77 · p. 309
अनुष्टुप्
लाङ्गली नारिकेलद्रौ रेवतीरमणे पुमान् ।लोहलः शृङ्खलाधार्येऽव्यक्तवाचिनि च त्रिषु ॥
28.3.78 · p. 309
अनुष्टुप्
वनलो गन्धमार्जारे वञ्चकव्याघ्रयोः पुमान् ।वण्टालो युद्धभेदे च नौकायां च खनित्रके ॥
28.3.79 · p. 309
अनुष्टुप्
वञ्जुलस्तिनिशाशोकवेतसेषु निगद्यते ।(वातु)लः पुंसि वात्यायां वाच्यवन्मारुतासहे ॥
28.3.80 · p. 309
अनुष्टुप्metre not read in every line
वामिलो दाम्भिके वामे त्रिषु स्याद्वार्दलं पुनः ।दुर्दिनेऽथ भवत्येलानन्दायामपि वार्दलः ॥
28.3.81 · p. 309
अनुष्टुप्
विमला शातलायां स्याद्भुवो भेदे च निर्मले ।विशाला त्विन्द्रवारुण्यामुज्जयिन्यां च कीर्त्यते ॥
28.3.82 · p. 309
अनुष्टुप्
नृपरक्षोभिदोः पुंसि पृथुले त्वभिधेयवत् ।विदुलस्तु पुमानम्बुवेतसे वेतसेऽपि च ॥
28.3.83 · p. 309
अनुष्टुप्
विपुलः पृथुलेऽगाधे मेरुपश्चिमभूधरे ।विडालः स्यान्नेत्रपिण्डे तथा च वृषदंशके ॥
28.3.84 · p. 309
अनुष्टुप्
दृषलो गृञ्जने शूद्रे चन्द्रगुप्ते च वाजिनि ।शम्बलं कुलपाथेयमत्सरेषु समीरितम् ॥
28.3.85 · p. 310
अनुष्टुप्
शकलं त्वचि खण्डे स्याद्रागवस्तुनि वल्कले ।शयालुः स्यादजगरे निद्राशीले गजेऽपि च ॥
28.3.86 · p. 310
अनुष्टुप्
श्यामलो मेचकेऽस्वच्छे श्रद्धालुः श्रद्धया युते ।श्रद्धालुर्दोहदिन्यां स्याच्छार्दूलो व्याघ्ररक्षसोः ॥
28.3.87 · p. 310
अनुष्टुप्
शार्दूलः पशुभेदे च सत्तमे च निगद्यते ।शाल्मलिर्द्वीपभिद्वृक्षभिदोर्नरकतार्क्ष्ययोः ॥
28.3.88 · p. 310
अनुष्टुप्
श्रीफला नीलिकाधात्र्योर्मालूरे पुंसि गद्यते ।शीतलं पुष्पकासीसे शैलजे मलयोद्भवे ॥
28.3.89 · p. 310
अनुष्टुप्
शीतलं स्यादनुष्णेऽपि स्याद्विस्फोटेषु शीतला ।भवेदसनपर्ण्यां च शीतलः शिशिरेऽन्यवत् ॥
28.3.90 · p. 310
अनुष्टुप्
शीतलाख्या च शैवाले शैलेयेऽपि नपुंसकम् ।शृगालो वञ्चके दैत्यभेदे ना डमरे स्त्रियाम् ॥
28.3.91 · p. 310
अनुष्टुप्
शृङ्खला पुंस्कटीकाञ्च्योर्लोहरज्जौ च बन्धने ।शौष्कलः शुष्कमांसस्य पणके पिशिताशिनि ॥
28.3.92 · p. 310
अनुष्टुप्
सरलः पूतिकाष्ठे स्यादुदारावक्रयोरपि ।सङ्कुलं वाच्यवद्व्याप्ते विस्पष्टार्थे वचस्यपि ॥
28.3.93 · p. 310
अनुष्टुप्
सप्तला पाटलागुञ्जानवमालीषु च स्त्रियाम् ।तथा चर्मकषायां च सिध्मलस्तु किलासिनि ॥
28.3.94 · p. 310
अनुष्टुप्
वाच्यवन्मत्स्यविकृतौ सिध्मला त्वपि योषिति ।सन्धिला तु सुरुङ्गायां नदीमदिरयोरपि ॥
28.3.95 · p. 311
अनुष्टुप्
सुवेलः प्रणते शान्ते त्रिषु ना पर्व(ते) क्वचित् ।सुतलोऽट्टालिकाबन्धनागलोकप्रभेदयोः ॥
28.3.96 · p. 311
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मता शब्दविदां पुंसां सूत्रालिर्गजशृङ्खला ।हिङ्गुलो वर्णकद्रव्ये ना भ(ण्टा)क्यां तु हिङ्गुली ॥
28.3.97 · p. 311
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हेमलः स्यात्स्वर्णकारे कृकलासे सिलान्तरे ॥
28.3.98 · p. 311