All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
ठान्तवर्गः · ठद्वितीयम्
॥ इति ठैकम् ॥
॥ अथ ठद्वितीयम् ॥
कठः स्वर ऋचां भेदे स्यात्तदध्येतृवेदिनोः ।मुनिभेदे वारिपर्ण्यां तथा स्यात्प्रसभेऽपि च ॥
12.2.1 · p. 93
अनुष्टुप्
कण्ठो ध्वनौ सन्निधाने गले मदनभूरुहे ।काष्ठा दारुनिशायां स्यात्कालमानप्रभेदयोः ॥
12.2.2 · p. 93
अनुष्टुप्
दिशि च स्थानमात्रेऽपि काष्ठमाख्यातमिन्धने ।कुष्ठं रोगे पुष्करे च कुठः स्याद्वृक्षमात्रके ॥
12.2.3 · p. 93
अनुष्टुप्
तत्रैव कुठिरित्युक्तः कुण्ठोऽकर्मण्यमूर्खयोः ।कोष्ठः कुसूले चात्मीये मध्ये कुक्षेर्गृहस्य च ॥
12.2.4 · p. 93
अनुष्टुप्
गोष्ठी सभायां संलापे गोष्ठं गोस्थानके मतम् ।ज्येष्ठा लक्ष्म्यग्रजायां स्याद्गृहगोधर्क्षयोर्मता ॥
12.2.5 · p. 93
अनुष्टुप्
ज्येष्ठो मासविशेषेऽपि श्रेष्ठे वृद्धे च कल्पितः ।निष्ठा निष्पत्तिनाशान्तयाञ्चानिर्वहणेषु च ॥
12.2.6 · p. 93
अनुष्टुप्
प्रष्ठः श्रेष्ठेऽग्रगे चैव स्त्रियां चाण्डालिकौषधौ ।पाठस्तु पठने ख्यातो विद्धकर्ण्यां तु योषिति ॥
12.2.7 · p. 93
अनुष्टुप्
पृष्ठं चरमगात्रेऽपि देहस्यावयवान्तरे ।वण्ठः कुन्तायुधे खर्वेऽप्यकृतोद्वाहपूरुषे ॥
12.2.8 · p. 93
अनुष्टुप्
शठो मध्यस्थपुरुषे तथा धत्तूरधूर्तयोः ।शोठोऽलसे च मूर्खे च श्रेष्ठो वैश्रवणे वरे ॥
12.2.9 · p. 93
अनुष्टुप्
षष्ठी कात्यायनीषष्ठ्योस्तथा षण्णां च पूरणे ।हठः स्यात्प्रसभे प्रश्न्यां हेठो बाधाविहेठयोः ॥
12.2.10 · p. 94
अनुष्टुप्