All kośas › Śabdaratnasamanvaya kośa
Śabdaratnasamanvaya kośa Śabdaratnasamanvaya kośa
3,182 verses · text only, tagging comes next
ढान्तवर्गः · ढतृतीयम्
॥ इति ढद्वितीयम् ॥
॥ अथ ढतृतीयम् ॥
अध्यूढा कृतसापत्न्यनार्यामध्यूढ ईश्वरे ।आषाढो मलये मासे दण्डे च व्रतिनामपि ॥
14.2.1 · p. 102
अनुष्टुप्
आषाढात्वृक्षभेदेऽपि विद्वद्भिर्गदिता स्त्रियाम् ।आषाढी शुचिपूर्णायामालीढं त्वशिते त्रिषु ॥
14.2.2 · p. 102
अनुष्टुप्
तथा स्यात्पादविन्यासविशेषे शस्त्रधारिणाम् ।ऊढे स्थूलेऽप्युदूढः स्यादुपोढो निकटोढयोः ॥
14.2.3 · p. 102
अनुष्टुप्
प्रगाढः कृच्छ्रदृढयोः प्रमीढो मूत्रिते घने ।प्ररूढो जठरे बद्धमूले वारूढ इत्ययम् ॥
14.2.4 · p. 102
अनुष्टुप्
वस्त्राञ्चले पञ्जरेऽग्नौ कपाटे शम्बलेऽपि च ।विगूढो गर्हिते गुप्ते विरूढोऽङ्कुरिते तथा ॥
14.2.5 · p. 103
अनुष्टुप्
जातेऽपि त्रिषु संरूढः प्रौढेऽप्यङ्कुरिते त्रिषु ।समूढः पुञ्जिते भुग्ने सद्योजातेऽनुपप्लुते ॥
14.2.6 · p. 103
अनुष्टुप्